न तद्भासयते सूर्यो...
भगवद्गीतायाः श्लोकः १५.६
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
- यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य षष्टः(६) श्लोकः ।
पदच्छेदः
सम्पादयतुन तत् भासयते सूर्यः न शशाङ्कः न पावकः यत् गत्वा न निवर्तन्ते तत् धाम परमं मम ॥ ५ ॥
अन्वयः
सम्पादयतुसूर्यः तत् न भासयते, न शशाङ्कः, न पावकः यत् गत्वा न निवर्तन्ते तत् मम परमं धाम ।
शब्दार्थः
सम्पादयतु- भासयते = प्रकाशयति
- शशाङ्कः = चन्द्रः
- पावकः = अग्निः
- धाम = स्थानम् ।
अर्थः
सम्पादयतुयत् पदं न सूर्यः प्रकाशयितुं शक्नोति, न चन्द्रः, नापि अग्निः यत् प्राप्तश्च पुरुषः पुनः न संसारक्लेशम् अनुभवति तदेव मम श्रेष्ठं स्थानम् ।