परस्तस्मात्तु भावोऽन्यो...
श्लोकः
सम्पादयतु- परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
- यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य विंशतितमः (२०) श्लोकः । '
पदच्छेदः
सम्पादयतुपरः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
अन्वयः
सम्पादयतुतस्मात् अव्यक्तात् परः यः अन्यः अव्यक्तः भावः (सः) तु सनातनः । सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।
शब्दार्थः
सम्पादयतु- तस्मात् = पूर्वोक्तात्
- अव्यक्तात् = कारणीभूतात् प्रजापतेः
- परः = कारणत्वात् उत्कृष्टः
- यः अन्यः = यः विलक्षणः
- भावः = पदार्थः
- अव्यक्तः = इन्द्रियागोचरः
- (सः) सनातनः = सः चिरन्तनः
- सः = स एषः
- सर्वेषु = निखिलेषु
- भूतेषु = भूतग्रामेषु
- नश्यत्सु = विनाशं गतेषु
- न विनश्यति = नैव नाशं प्राप्नोति ।
अर्थः
सम्पादयतुस्थावरजमानां सर्वेषामपि पदार्थानाम् उत्पत्तौ कारणीभूतः यः अव्यक्तः प्रजापतिः वर्तते तस्यापि कारणीभूतः कश्चित् पदार्थो वर्तते । तदेव ब्रह्म । तच्च सर्वदा भवम् । तच्च ब्रह्म पदार्थान्तरेषु नाशं गतेष्वपि न नश्यति, उत्पद्यमानेष्वति नोत्पद्यते ।