पश्यामि देवांस्तव देव...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
अर्जुन उवाच-
- पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
- ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
सम्पादयतुपश्यामि देवान् तव देव देहे सर्वान् तथा भूतविशेषसङ्घान् ब्रह्माणम् ईशं कमलासनस्थम् ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥ १५ ॥
अन्वयः
सम्पादयतुदेव ! तव देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् कमलासनस्थं ब्रह्माणम् ईशं सर्वान् ऋषीन् च दिव्यान् उरगान् च पश्यामि ।
शब्दार्थः
सम्पादयतु- देव = ईश्वर
- तव देहे = तव शरीरे
- सर्वान् = सकलान्
- देवान् = सुरान्
- तथा = तथा
- भूतविशेष-सङ्घान् = भूतविशेषसमुदायान्
- कमलासनस्थम् = कमलायमानभूमौ मध्ये कर्णिकासदृशे मेरौ स्थितम्
- ब्रह्माणम्= चतुर्मुखम्
- ईशम् = ईश्वरम्
- सर्वान् = सकलान्
- ऋषीन् च = मुनीन् च
- दिव्यान् = दिवि स्थितान्
- उरगान् च = सर्पान् च
- पश्यामि = अवलोकयामि ।
अर्थः
सम्पादयतुदेव ! तव शरीरे सकलान् देवान् तथा स्थावरजङ्गमात्मकभूतविशेषसमुदायान्, कमलकर्णिका-सदृशे भूमध्यस्थिते मेरौ आसीनं ब्रह्माणम्, पार्वतीपतिम् ईश्वरम्, सकलान् ऋषीन् मुनीन्, दिवि स्थितान् सर्पान् च पश्यामि ।