पश्य मे पार्थ रूपाणि...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवानुवाच -
- पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
- नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
सम्पादयतुपश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
अन्वयः
सम्पादयतुपार्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य ।
शब्दार्थः
सम्पादयतु- पार्थ = अर्जुन !
- शतशः अथ सहस्रशः = अपरिमितानि
- नानाविधानि = बहुप्रकाराणि
- दिव्यानि = लोकोत्तराणि
- नानावर्णाकृतीनि च = नानावर्णाकाराणि
- मे = मम
- रूपाणि = स्वरूपाणि
- पश्य = वीक्षस्व ।
अर्थः
सम्पादयतुअर्जुन ! बहुप्रकाराणि दिव्यानि नानावर्णाकाराणि च मम स्वरूपाणि च पश्य ।