पश्य मे पार्थ रूपाणि...

(पश्य मे पार्थ - 11.5 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः

श्रीभगवानुवाच -

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः सम्पादयतु

पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

अन्वयः सम्पादयतु

पार्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य ।

शब्दार्थः सम्पादयतु

पार्थ = अर्जुन !
शतशः अथ सहस्रशः = अपरिमितानि
नानाविधानि = बहुप्रकाराणि
दिव्यानि = लोकोत्तराणि
नानावर्णाकृतीनि च = नानावर्णाकाराणि
मे = मम
रूपाणि = स्वरूपाणि
पश्य = वीक्षस्व ।

अर्थः सम्पादयतु

अर्जुन ! बहुप्रकाराणि दिव्यानि नानावर्णाकाराणि च मम स्वरूपाणि च पश्य ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पश्य_मे_पार्थ_रूपाणि...&oldid=418654" इत्यस्माद् प्रतिप्राप्तम्