पाणिनिव्याकरणस्य उपादेयता


वर्तमानायाः शिक्षायाः निरन्तरम् एधमानान् पादान् परिशील्य यदि वयं संस्कृतस्य स्थितेः मूल्याङ्कनं कुर्मः तर्हिः स्वान् अतीव निम्नस्तरे पश्यामः। एतादृश्यां स्थितौ पाणिनीयव्याकरणस्य अस्मिन् परिपेक्षे च का उपादेयता अस्ति इत्येतस्य प्रश्नस्य उत्पत्तिः निश्चिता एव। काशिकाकारस्य पण्डितजयादित्यस्य मतानुसारेण “पाणिनेः उपकारकं व्याकरणम्”। अतः अष्टाध्याय्याः रचयिता पाणिनिः भवति। सः शलातुरनामके नगरे उत्पन्नः। ‘श्युआन् चुआन्’ नामकेन केनचित् यात्रिणा लिखितं पञ्चचत्वारिंशदधिकषड्शतके (६४५) लौकिकभाषां व्यवस्थितां कर्तुं पाणिनिना अष्टाध्यायी ग्रन्थस्य रचना कृता। अद्य एतावद्भ्यः वर्षेभ्यः पश्चादपि व्याकरणं प्रगतिपथे अग्रसरम् अस्ति। भारतदेशः प्राचीनकाले एकभाषाभाषिदेशः इति रूपेण प्रसिध्दः आसीत्। तस्मिन् एव देशे सम्प्रति अनेकाः भाषाः भाषन्ते विराजन्ते प्रकाशन्ते च। अस्मिन् देशे संस्कृतस्य स्थानं पूर्वापेक्षया अतीव निम्नं वर्तते। स्वाभाविकम् अस्ति यदि संस्कृतस्य स्थितिः न्यूना (निम्ना) वर्तते तर्हि तस्य व्याकरणस्य का उपाधेयता भविष्यति। अद्यतने प्रगतिशीले देशे आङ्ग्लभाषा स्वस्याः चरंसीम्नि वर्तते। तथापि विचारणीयः विषयः अस्ति यद् आङ्ग्लभाषायां वाचनलेखनपठनेषु समानता नास्ति। यथा वयं put (पुट्), but (बट्) इत्यादीनां शब्दानां प्रयोगं कुर्मः इति। अतः सिद्ध्यति यत् आङ्ग्लभाषा सुदृढा भाषा नास्ति इति। तत्रैव संस्कृतभाषायाः वैशिष्ट्यं वर्तते यत् अनया भाषया यथा लिखामः तथा पठामः। अतः एव संस्कृतस्य सुदृढतायाः विषये वयं वक्तुं शक्नुमः इति। लोके लोकोक्तिः वर्तते यत् “कोश भर में बदले वाणी, दो कोश में पानी” इति। हिन्दीभाषा अस्माकं देशस्य राष्ट्रभाषा अस्ति। परन्तु हिन्द्या वदतां जनानाम् उच्चारणे विभिन्नताः दृश्यन्ते। विहारस्य जनानां हिन्दी भिन्ना, पञ्जाबस्य, हरियाणाप्रदेशस्य, उत्तरप्रदेशस्य, मध्यप्रदेशस्य च हिन्दीभाषा भिन्ना अस्ति। परन्तु यदा वयं संस्कृतस्य विषये वदामः तदा वक्तुं शक्नुमः यत् संस्कृतं विश्वस्य कस्मिन्नपि कोणे उद्यमानं स्यात् सर्वत्रापि संस्कृतं समानं सदृशं च व्यवह्रियते इति। यदि भारते ‘सः पठति’ इति प्रयोगः वर्तते तर्हि अमेरिका देशे अपि अयमेव प्रयोगः भविष्यति न तु भिन्नः। एतदेव संस्कृतव्याकरणस्य वैशिष्ट्यम् अस्ति। मानवः कश्चन मननशीलः प्राणी वर्तते। यद्यपि सः सांसारिकान् जनान् एकेन सूत्रेण बन्ध्दुम् इच्छति तथापि सः एकसूत्रेण बन्धनीयां भाषां नैव अङ्गीकरोति। एवम्प्रकारेण संस्कृतस्य संस्कृतव्याकरणस्य च उपाधेयतायाः प्रकटनं भवति। मानवः कस्मिन्नपि काले स्थितौ वा भवेत्, तेन मिलित्वा एव चलनीयम् अस्ति तथा च कार्याणि कर्तव्यानि सन्ति। एतत् तदा एव सार्थकम् अस्ति यदा जगति सर्वेऽपि जनाः संस्कृतव्याकरणस्य पाणिनीयव्याकरणस्य च उपाधेयतां स्वीकुर्युः व्याकरणं च पठेयुः इति॥ शम्॥
परमेशः
शोधच्छात्रः
राष्ट्रियसंस्कृतसंस्थानम्
नवदेहली