प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिचयःसम्पाद्यताम्

पाणिनीयशिक्षा शिक्षाग्रन्थेषु महत्त्वाधायी एकः ग्रन्थः। शिक्षाग्रन्थास्तु उच्चारणशास्त्रस्य सर्वप्राचीनाः आधारभूताश्च ग्रन्थाः सन्ति। तत्र उपपञ्चविंशतिग्रन्थानामुल्लेखः यत्र तत्र लभ्यते। परन्तु केवलाः केचित् ग्रन्थाः एव अधुना उपलभ्यन्ते। तेषु पाणिनीया शिक्षा नाम ऋग्वेदसम्बन्धिताऽस्ति

विषयनिरूपणम्सम्पाद्यताम्

एवम् अनुष्टुभादिभिः लघुभिः छन्दोभिः निबद्धेयं "पाणिनीया शिक्षा" नाम पुस्तिका लघुतमा च । केवलं षष्टिश्लोकात्मकोऽयं ग्रन्थः । वेदकालीनां शिक्षापद्धतिम् अनुसृत्य इमां शिक्षां (कश्चन) प्राचीनः वैय्याकरणः लिखितवान् इति भाति । यतः अस्मिन् पुस्तके विद्यमानाः अनेके श्लोकाः विविधेषु प्राचीनेषु ग्रन्थेषु उदाहरणरूपेण उद्धृताः दृश्यन्ते । अपि च प्रसिद्धः

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ एषः श्लोकः

तथा च मन्त्रस्वराणां निरूपणान्ते

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥

इत्ययं श्लोकोऽपि अत्रस्थ एव । एवं जनप्रियः विद्वदुपयुक्तश्चायं ग्रन्थः अमरकोष इव बालानां कण्ठपाठाय च अत्यन्तम् उपयुक्तः भवति । किं बहुना संस्कृतशिक्षासौधं प्रविविक्षूणां द्वारमिदम् । अस्मिन् पुस्तके पाणिनीयाम् अष्टाध्यायीम् अनुसृत्य वर्णानां सङ्ख्यापनं, विभागः, संज्ञाः, बाह्याभ्यन्तराः प्रयत्नाः, कण्ठादीनि वर्णोच्चारणस्थानानि, अनुस्वारानुनासिकयोर्व्यवस्था, उदात्ताणुदात्तस्वरितानाम् स्वराणाम् निरूपणम्, उदात्तादिभिः स्वरैः निषादादीनां स्वराणां समीकरणम्, इत्यादीनि मनोज्ञानि निरूपणानि भवन्ति । प्रसङ्गवशात् अत्र वेदपाठकस्य गुणाः, दोषाश्च निर्दिष्टाः सन्ति ।
पुरातनकाले संस्कृतं जनभाषाऽऽसीत् इति अनेन ज्ञायते, यथा- यथा सौराष्ट्रिका नारी तक्राँ इत्यभिभाषते
वर्णाः कथं प्रयोक्तव्याः इति निर्दिशन् अयं ग्रन्थकारः वदति, यथा- व्याघ्री यथा हरेत्पुत्रान् दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत् ॥ इति ।

कर्ता कः ?सम्पाद्यताम्

व्याकरणशास्त्रे शिक्षायाः स्थानं प्रतिपादयन् वदति यत् शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ इति । एतस्य पुस्तकस्य पठनानन्तरं भासते यत् पाणिनिरेव ग्रन्थमेनं रचितवान् स्यादिति । किन्तु अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा इति अत्रैव सूचितत्वात् पाणिनेः अर्वाचीनः कोऽपि वैय्याकरणः ग्रन्थमेनं चकार इति निर्णेतुं शक्यते ।

मूलपाठनिदर्शनानिसम्पाद्यताम्

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्वं तद्विद्यात् यथोक्तं लोकवेदयोः ॥१॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥२॥ त्रिषष्टिश्चतुष्षष्टिर्वा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥३॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥४॥ अनुस्वारो विसर्गश्च कपौ चापि परिश्रितौ । दुस्पृष्टश्चेति विज्ञेयो लृकारः प्लुत एव च ॥५॥

"https://sa.wikipedia.org/w/index.php?title=पाणिनीया_शिक्षा&oldid=427328" इत्यस्माद् पुनः प्राप्तिः