अमरकोशः (आङ्ग्लभाषा:Amarakosha) कश्चन प्रसिद्धः शब्दार्थकोशः अस्ति। शब्दार्थकोशाः 'निघण्टुः' इति कथ्यते। नि+घटि(भाषार्थे) + णिच् "कुः" (उ १।३७)। 'अर्थान् निघण्ट्यत्यस्मात् निघण्टुः परिकीर्तितः'। अत्र शब्दानां सङ्ग्रहः, समानार्थकाः पर्यायशब्दाः, अनेकार्थकाः शब्दाः च अत्र उपलभ्यन्ते । संस्कृते सर्वविधानां कोशानां मूलम् अस्ति वैदिकनिघण्टुः। यास्केन रचितः निरुक्तः अस्य वैदिकनिघण्टोः भाष्यम्।

अमरकोशस्य कर्ता अमरसिंहः। एषः चतुर्थे शतके द्वितीय-चन्द्रगुप्तस्य आस्थाने विद्यमानेषु नवरत्नेषु अन्यतमः आसीत् इति श्रूयते। केचन वदन्ति अयं सप्तमे शतके विक्रमादित्यस्य आस्थाने आसीत् इति। 'नामलिङ्गानुशासनम्' इत्येतत् अस्य अपरं नाम वर्तते। अत्र शब्दानाम् अर्थेन सह लिङ्गनिर्देशः अपि कृतः अस्ति इति कारणतः अयं ग्रन्थः अत्युपयुक्तः वर्तते ।

ग्रन्थस्वरूपम्सम्पाद्यताम्

अमरकोशः श्लोकरूपेण रचितः अस्ति। अतः कण्ठपाठार्थं बहु सुलभं भवति। अमरकोशे त्रीणि काण्डानि (अध्यायाः) सन्ति। स्वर्गादिकाण्डं, भूवर्गादिकाण्डं,सामान्यादिकाण्डम् चेति। एकैकस्मिन् काण्डे अनेके वर्गाः सन्ति। विषयानुगुणं शब्दाः अत्र वर्गीकृताः सन्ति। नानार्थवर्गे विषयविभागः अशक्यः इत्यतः अत्र अन्त्यव्यञ्जनानुगुणं शब्दसंयोजनं कृतम् अस्ति। शब्देन सह अत्र लिङ्गनिर्देशः अपि कृतः अस्ति इति कारणतः अयं कोशः अत्यन्तम् उपयुक्तः अस्ति।

प्रथमकाण्डम्/स्वर्गादिकाण्डम्सम्पाद्यताम्

स्वर्गादिकाण्डे एकादश वर्गाः सन्ति। तानि

१ स्वर्गवर्गः २ व्योमवर्गः ३ दिग्वर्गः
४ कालवर्गः ५ धीवर्गः ६ वाग्वर्गः
७ शब्दादिवर्गः ८ नाट्यवर्गः ९ पातालभोगिवर्गः
१० नरकवर्गः ११ वारिवर्गः

द्वितीयकाण्डम्/भूवर्गादिकाण्डम्सम्पाद्यताम्

अस्मिन् काण्डे दश वर्गाः सन्ति। तानि

१ भूमिवर्गः २ पुरवर्गः ३ शैलवर्गः
४ वनौषधिवर्गः ५ सिंहादिवर्गः ६ मनुष्यवर्गः
७ ब्रह्मवर्गः ८ क्षत्रियवर्गः ९ वैश्यवर्गः
१० शूद्रवर्गः

तृतीयकाण्डम्/सामान्यादिकाण्डम्सम्पाद्यताम्

अस्मिन् षड्वर्गाः सन्ति। तानि

१ विशेष्यनिघ्नवर्गः २ सङ्कीर्णवर्गः ३ नानार्थवर्गः
४ नानार्थाव्ययवर्गः ५ अव्ययवर्गः ६ लिङ्गादिसङ्ग्रहवर्गः

वैशिष्ट्यानिसम्पाद्यताम्

'अष्टाध्यायी जगन्मातामरकोशो जगत्पिता' इत्येषा उक्तिः अमरकोशस्य श्रेष्ठतां दर्शयति। संस्कृतभाषायाः साम्प्रदायिकाध्ययनक्रमे अमरकोशस्य कण्ठपाठः अनिवार्यरूपेण योजितः आसीत्। अमरसिंहः तस्मिन् समये विद्यमानान् सर्वान् निघण्टून् शास्त्रान्तराणि च परिशील्य एव एतं ग्रन्थं रचितवान् अस्ति। अतः एव ग्रन्थस्य आरम्भे सः लिखति - 'समाहृत्यान्यतन्त्राणि' इति। व्याकरणशास्त्रे तस्य विशेषा अभिरुचिः आसीत्। पाणिनेः अष्टाध्याय्याः सूत्र-वार्तिक-भाष्यादीनि सम्यक् परिशील्य तान् शब्दान् अमरकोशे योजितवान् अस्ति। अतः एव 'अमरसिंहो हि पापीयान् सर्वं भाष्यमचूचरत्' (अमरसिंह्ः व्याकरणभाष्यं समग्रं चोरितवान्!) इति व्याजस्तुतिः पण्डितगोष्ठीषु प्रसिद्धा अस्ति।

व्याख्यानानिसम्पाद्यताम्

अमरकोशस्य ५० व्याख्यानानि उपलभ्यन्ते। तेषु प्रमुखानि - क्षीरस्वामिना विरचितम् 'अमरकोशोद्घाटनम्' भानुदीक्षितेन विरचितं 'व्याख्यासुधा' वन्ध्यघटीयसर्वानन्देन विरचितं 'टीकासर्वस्वम्' रायमुक्तेन विरचितं 'पदचरितम्' जिनेन्द्रभूदिना विरचितं 'काशिकाविवरणपञ्जिका'

अमरकोशस्थाः केचन श्लोकाःसम्पाद्यताम्

पीठिकाश्लोकाः

यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः।
सेव्यतामक्षयो धीरास्स श्रिय्यै चामृताय च।।
समाहृत्यान्यतन्त्राणि संक्षिप्त्यैः प्रतिसंस्कृतैः।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्।
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित्।
स्त्रीनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित्।।
भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः।
कृतोत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते।।
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति।
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्।।

स्वर्गः

स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः।
सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे तिविष्टपम्।।

बुद्धिः

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः।।
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः।

भूमिः

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा।
धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः।।
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा।
गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही।।

नमस्कृतम्

स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्।

पूजितम्

वरिवसिते वरिवस्यितमुपासितं चोपचरितं च।।

ककारान्ताः

पद्ये यशसि च श्लोकश्शरे खड्गे च सायकः।
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ।।

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्


"https://sa.wikipedia.org/w/index.php?title=अमरकोशः&oldid=425712" इत्यस्माद् पुनः प्राप्तिः