पिच्चवरं बीच् (०४१४४)- एतत् स्थानं बीच् इत्येव प्रसिद्धम् अस्ति । किन्तु अत्र समुद्रः नास्ति । ११ सहस्रहेक्टरमिते विशालक्षेत्रे स्थितस्य जलबन्धपूर्वजलाशयस्य तीरम् एतत् । वेल्लारकोलेरूनानद्योः सङ्गमेन सृष्टं स्थानमस्ति । समीपस्थेन बङ्गालोपसागरेण अस्य जलाशयस्य सम्पर्कः नास्ति । महान् सिकताराशिः एतं जलाशयं समुद्रात् पृथक् करोति । कृषिकार्यार्थं निर्मिताः अत्रत्याः ४००० नालाः अत्र विद्यमानान् १७००द्वीपान् आवृत्य तिष्ठन्ति । यद्यपि एतत् अतीव विशिष्ठं स्थानमस्ति तथापि प्रवासोद्यमविभागेन अस्य महत्वं न स्पष्टीकृतम् । पक्षिविज्ञानशास्रज्ञाः सस्यशास्त्रज्ञाः सागरतज्ञाः जलतन्त्रज्ञाः एव अस्मिन् क्षेत्रे आसक्ताः दृश्यन्ते । एतादृशानि क्षेत्राणि विश्वे त्रीणि एव । एतत् स्थानम् प्रति गन्तुं वाहनसम्पर्कः वा धूमशकटसम्पर्कः वा न सन्ति । स्वकीयवाहनम् एव उपयोगि भवति । धीवराणां कुटीरसमूहः कश्चन तत्र अस्ति । एतं ग्रामम् अतिक्रम्य गतं चेत् म्यानग्रौ वृक्षाणां कश्चन प्रदेशः अतीव सुन्दरः अस्ति । अत्र प्रवासिमन्दिरम् अपि अस्ति सर्वकारेण निर्मिताः आपणाः च सन्ति । इतः नैकायानेन अग्रे गन्तुं शक्यम् अस्ति । बहवः जनाः अत्रागच्छन्ति । जनानां कोलाहलेन, अनुपयुक्तवस्तूनां राशिभिः च एतत् स्थानं अशुध्दम् कृतमस्ति । म्यानगौववृक्षप्रदेशः पक्षिणां वीक्षणे अतीवप्रसिद्धह् अस्ति । नानाविधपक्षिणः अत्र नीडानि रचयित्वा तिष्ठन्ति । सस्यसङ्कुलस्य पक्षिसङ्कुलस्य च संरक्षणम् अत्र क्रियमाणम् अस्ति ।

पिच्चवरं बीच्
पिच्चवरं बीच् प्रकारः
पिच्चवरं बीच् प्रकारः
पिच्चवरं बीच्
पिच्चवरं बीचस्य पक्षिः
पिच्चवरं बीचस्य पक्षिः

मार्गः सम्पादयतु

चेन्नैमधुरैतञ्जावूरुनगरेभ्यः लोकयानानि सन्ति । चिदम्बरम् नगरात् २० कि.मी. दूरे अस्ति । चिदम्बरम् नगरे वसतिः शक्या अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=पिच्चवरं_तीरम्&oldid=391387" इत्यस्माद् प्रतिप्राप्तम्