वैश्वदेवान्तर्गतबलिहरणेन, ब्राह्मणभोजनेन, अथवा विनायासं जलाञ्जलिप्रदानेन अपि पितृयज्ञः सम्पद्यते । पितॄन् प्रति स्नेहस्य आदरस्य च निदर्शकोऽयं यज्ञः । मातुः पितुश्च सततं परिचर्या, तयोराज्ञापालनं चात्र प्रधानं कर्म । पितॄन् देव इति भावयन्तः परलोकगतान् नैमित्तिकपितृन् प्रति पिण्डप्रदानं तर्पणविधानं च पितृयज्ञ इति कथ्यते ।

सन्मार्गप्रवर्तकाभ्यां मातापितृभ्यां कृपया असन्मार्गान्निवृत्य पुत्रादयो ज्ञानं विन्दन्ते । धर्मार्थकाममोक्षादि पुरुषार्थान् आसाद्य मुक्ता भवन्ति । ईदृश पित्रोः तृप्तये तद् आदराय चात्मनः कार्तज्ञ्यप्रदर्शनपुरस्सरं तेभ्य उऋणा भवितुं पितृयज्ञोऽयं नितान्तमनिवार्यः । पितृऋणस्य अपाकरणार्थं मनुष्यः पाणिगृहितायां पिण्डोदकक्रियायाः सञ्चालनार्थं सुपुत्रम् उत्पादयति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पितृयज्ञः&oldid=419256" इत्यस्माद् प्रतिप्राप्तम्