वचनपितामहः इति सुप्रसिद्धः कवि हलकट्टिः (P.G.Halakatti) धारवाडनगरे १८८०तमे वर्षे जुलै मासस्य २ दिनाङके जन्म प्राप्तवान् । माता दानादेवि, पिता गुरुबसप्पहलकट्टिः । पिता शिक्षकः आसीत् इति कारणतः पुत्रस्य कृते उत्तमः विद्याभ्यासः प्राप्तः । १९०१ तमे वर्षे बि. ए. परीक्षायाम् उत्तीर्णः जातः अयं रसयनशास्त्रं भौतशास्त्रञ्च अधीतवान् । एतस्य आसक्तिः न्यायशास्त्रे आसीत् इति कारणतः १९०४ तमे वर्षे यल्. यल्. बि. परीक्षां समाप्य बेलगाविमण्डले न्यायवदिरूपेण कार्यम् अकरोत् । तदनन्तरं १९२३ तमे वर्षे सर्वकारीयन्यावादिरूपेण नियोजितः जातः । बिजापुरमण्डले स्थिरवासी अभवत् ।

सार्वजनिकजीवने कविः हलकट्टिः अग्रेसरः आसीत् । एषः कविः मुम्बैविधानपरिषदस्य सदस्यः, जिल्लाकाङग्रेस्-समितेः कार्यदर्शी, जिल्ला-ग्रामान्तर-अभिवृद्धिमण्डल्याः कार्यदर्शी, मण्डलस्तरे शालाशासनमण्डल्याः अध्यक्षः, पत्रकर्ता, अनेकेषां सङघसंस्थानां संस्थापकः च आसीत् । एवं विविधसामाजिककार्यकरणैः जनानां प्रीत्यादरपात्रम् आसीत् हलकट्टिः । कन्नडसाहित्यपरिषदस्य श्रेयोभिवृद्ध्यर्थं परिश्रमं कृतवत्सु अन्यतमः आसीत् अयम् ।

वचनसाहित्यस्य प्रचारनिमित्तं प्रत्येकं मुद्रणालयमेव संस्थापितवान् अयं कविः फ .गु हलकट्टिः । अस्य प्रचाराय एव १९२६ तमे वर्षे शिवानुभव इति पत्रिका, १९२६ तमे वर्षे नवकर्णाटक इति साप्ताहिकी पत्रिका च आरब्धे एतेन महापुरुषेण । हलकट्टेः सम्पादकत्वे षष्ठ्यधिकाः शरणकृतयः शिवानुभावग्रन्थमालाद्वारा लोकार्पिताः अभवन् । वचनसाहित्यसङग्रहणे कवेः महती आसक्तिः । एतस्य परिश्रमेण लोकार्पिताः अन्याः प्रमुखाः कृतयः अक्कमहदेव्याः वचनानि (१९२७), बसवेशवरवचनानि (१९२९), शून्यसम्पादनम् (१९३०) , देवरदासिमय्यन वचनानि, एकोत्तरशतस्थल, वचनशास्त्रसारः, शिवशरणचरित्राः, हरिहरस्य रगळे च । मादारचेन्नय्य, अम्बिगर चौडय्य, उरिलिङग पेद्दि एवं अनेकेषां वचनकाराणां वचनानि सम्पाद्य जनेभ्यः अर्पितवान् अयं जनः । हलकट्टेः संशोधनात्मककृतिद्वयं विद्यते - 'कोडगु संस्थानस्य राजन्द्रनामे' तथा 'केलदियन्नाळिद रायर वंशावलि' च ।

एवं बहुमुखप्रतिभावान्, धीमान् कन्नडकविः फ .गु हळकट्टिः १९६४ तमे वर्षे जून् मासस्य २९ तमे दिनाङके दिवङ्गतः जातः ।

"https://sa.wikipedia.org/w/index.php?title=पी._जी._हलकट्टी&oldid=369879" इत्यस्माद् प्रतिप्राप्तम्