पुरुषः स परः पार्थ...
श्लोकः
सम्पादयतु- पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
- यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य द्वाविंशतितमः (२२) श्लोकः ।
पदच्छेदः
सम्पादयतुपुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया यस्य अन्तस्थानि भूतानि येन सर्वम् इदं ततम् ॥ २२ ॥
अन्वयः
सम्पादयतुपार्थ ! भूतानि यस्य अन्तःस्थानि, येन इदं सर्वं ततम्, सः तु परः पुरुषः अनन्यया भक्त्या लभ्यः ।
शब्दार्थः
सम्पादयतु- पार्थ = अर्जुन !
- भूतानि = भूतसमुदायः
- यस्य अन्तःस्थानि = यस्य अन्तः वर्तते
- येन = येन
- इदं सर्वम् = इदं कृत्स्नम्
- ततम् = व्याप्तम्
- सः तु = प्रसिद्धः
- परः पुरुषः = उत्तमः परमात्मा
- अनन्यया भक्त्या = एकान्तभक्त्या
- लभ्यः = प्राप्यः ।
अर्थः
सम्पादयतुअर्जुन ! सर्वाणि भूतानि यस्मिन् अन्तर्गतानि सन्ति, येन च सर्वमिदं व्याप्तं वर्तते तादृशं तत् ब्रह्म केवलम् एकान्तभक्त्या एव लभ्यम् । ।