पूर्वगारोहिल्स्-मण्डलम्


पूर्व-गारो-हिल्स्-मण्डलं(आङ्ग्ल: East Garo Hills District) मेघालयराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं विलियम्नगरम्


East Garo Hills District
मण्डलम्
मेघालयराज्ये पूर्व-गारो-हिल्स्-मण्डलम्
मेघालयराज्ये पूर्व-गारो-हिल्स्-मण्डलम्
देशः  India
मण्डलम् पूर्व-गारो-हिल्स्-मण्डलम्
विस्तारः २,६०३ च.कि.मी.
जनसङ्ख्या(२०११) ३,१७,९१७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://eastgarohills.nic.in/

भौगोलिकम् सम्पादयतु

पूर्व-गारो-हिल्स्-मण्डलस्य विस्तारः २,६०३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरदिशि उत्तर-गारो-हिल्स्-मण्डलं, पश्चिमदिशि पश्चिम-गारो-हिल्स्-मण्डलं, दक्षिणदिशि दक्षिण-गारो-हिल्स्-मण्डलं, पूर्वदिशि पश्चिम-खासि-हिल्स्-मण्डलम् अस्ति । अत्र १९७ से.मी.मितः वार्षिकवृष्टिपातः भवति । 'त्लोङ्ग' अस्य प्रदेशस्य प्रमुखनदी । मण्डलेऽस्मिन् अरण्यव्यापृतं, पर्वतीयं च स्थलम् अधिकं वर्तते । वनेषु वंशवृक्षाः अधिकाः सन्ति ।

जनसङ्ख्या सम्पादयतु

पूर्व-गारो-हिल्स्-मण्डलस्य जनसङ्ख्या(२०११) ३,१७,९१७ अस्ति । अस्मिन् १,६१,२२३ पुरुषा:, १,५६,६९४ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.८७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७२ अस्ति । अत्र साक्षरता ७३.९५% अस्ति । मण्डलेऽस्मिन् ८६.१०% जना: ग्रामेषु निवसन्ति ।

ऐतिहसिकं किञ्चित् सम्पादयतु

पूर्व-गारो-हिल्स्-मण्डलं १९७६ तमे वर्षे स्थापितं मण्डलम् । गारो जनानां लोकसाहित्ये एतस्य उल्लेखं द्रष्टुं शक्नुमः यत् गारोजनाः तिबेटपरिसरात् प्रव्रज्य अत्रागताः ।

अर्थव्यवस्था सम्पादयतु

अस्य मण्डलस्य अर्थव्यवस्था कृष्याधारिता, ग्रामीणा च अस्ति । कृषिः एव ९०% जनानाम् उपजीविकां कल्पयति । तण्डुलः, किणः, बहवः कन्दमूलसस्यानि, नारङ्गफलम्, अननसं, कदलीफलं, मरीचिका, पनसफलं, मरीचिका, हरिद्रा, आर्द्रकं इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले ५ उपमण्डलानि अस्ति -

  • रेसुबेल्पारा
  • खारकुट्ट
  • सोङ्गसक
  • डम्बो रोङ्गजेङ्ग
  • समन्दा

लोकजीवनम् सम्पादयतु

अत्रस्था प्रमुखजनजातिः 'गारो' अस्ति । राभास्, हजोङ्ग्स्, कोचेस्, दलुस्, बनाइस्, बोरोस् अत्रस्थाः जनजातयः सन्ति । गारो जनजातिः मेघालयराज्ये निवसन्तिषु जनजातिषु जनसङ्ख्यादृष्ट्या द्वितीया जनजातिः । गारो जनाः 'A'chik', 'माण्डे' नाम्ना प्रसिद्धाः । एतेषां भाषा बोडो-नागा-काचिन्-भाषापरिवारे अन्तर्भवति ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -

  • ता'सेक् सरोवरः
  • रोङ्ग-बेङ्ग जलप्रपाताः
  • विलियम्नगरम्
  • रोङ्ग्रेङ्गिरी
  • सिसोबिब्रा
  • अडोक्ग्रे
  • नाका-चिकोङ्ग
  • रेसुबेल्पारा उष्णोदक-कुण्डानि

बाह्यानुबन्धाः सम्पादयतु



फलकम्:मेघालयराज्यस्य मण्डलानि