पोम्पेई लक्ष्मी

पोम्पेई लक्ष्मी हस्तिदन्तस्य प्रतिमा या पोम्पेई इति रोमकनगरस्य भग्नावशेषेषु प्राप्ता आसीत् । एतत् नगरः क्रिस्त ७९ संवत्सरे वेसुवियस् पर्वतस्य विस्फोटेन नष्टं अभवत् । इटालियन् विद्वान् अमेदीओ माइउरी इत्यनेन १९३८ संवत्सरे एषा मूर्तिः उत्खनिता । [] एषा मूर्तिः प्रथम क्रिस्त शताब्द्यां कृता इति अभिप्रायः । [] एषा प्रतिमा स्त्रीसौन्दर्यस्य, उर्वरतायाः च भारतीय परम्परायाः देवी इति चिन्तितम् अस्ति । सम्भवतः एतत् शिल्पं कॊपि दर्पणस्य भागः आसीत् । [] एतत् यक्षिन्याः मूर्तिः प्रथमशताब्द्याः भारतस्य रोकामस्य च वाणिज्यव्यापारस्य प्रमाणं अस्ति ।

पुरा एतत् देवी लक्ष्म्याः प्रतिमा इति चिन्तितम् आसीत् या उर्वरता, सौन्दर्यस्य, धनस्य च देवी या सनातनीभिः बौद्धैः जैनैः च पूज्यते । [] [] तथापि, मूर्तिस्य दृश्यमानस्य जननाङ्गस्य कारणात् एषा प्राकृतिक प्रजननशक्तिं धारयती यक्षिणी अस्ति इति मन्तव्यम् । सम्भवतः एषा शास्त्रीय यवन-रोमकानां विनस् देव्याः तथा भारतीय श्री लक्ष्मी देव्याः युग्मा च. []

अधुना एषा मूर्तिः नेपल्स् नगरस्य राष्ट्रिय पुरातत्वसङ्ग्रहालये अस्ति | []

विषयवस्तु

सम्पादयतु

१९३८ संवत्सरस्य अक्टोबर्-मासे पोम्पेई-नगरस्य "चतुश्शैल्याः गृहं" (कासा-डे-क्वाट्रो-स्टिलि) इत्यस्य पार्श्वे एषा प्रतिमा प्राप्ता । [] वास्तुशिल्पस्य अवशेषाणां तलयोजनायाः च आधारेण बहुल्यः नगरगस्य (विअ  देल्ल्-अब्बोन्डन्ज़ा) पार्श्वे स्थितः अयं "चतुश्शैल्याः गृहं" अधुना एकस्य संपन्नस्य व्यापारिणः आसीत् इति मन्यते [] एतत् गृहे बहूनि भारतीय मूलस्य अतिसुखावहनि वस्तुनि लभ्यते । एतेन रोमकजनेषु न केवलं यवन संस्कृतिम् अपितु दूरस्थसंस्कृतयः वस्तूनि च प्रति विमोहनं आसीत इति ज्ञायते []

0.25 मीटर (9.8 इंच), उच्चं मूर्तिः तस्याः संकीर्णमेखटं भव्याभुषाणि च विस्तृतं केशविन्यासं च विहाय प्रायः नग्ना अस्ति । तस्याः द्वौ महिला अनुययिन्यौ स्तः। एका पार्श्वे बहिःमुखं अस्ति । ते कान्तिदाहनम् पात्राः धारयतः । [] प्रतिमायाः उपरितः अधः यावत् छिद्रं खनितम् अस्ति । एतत् दर्पणस्य हस्तकं आसीत् इति वितर्कितं। []

क्रिस्त ७९ संवत्सरस्य यावत् पोम्पेई-नगरे अस्याः प्रतिमायाः अस्तित्वं प्रथमशताब्द्यां भारतस्य रोमकस्य च मध्ये विस्तृतव्यापारस्य प्रमाणम् [] [१०] अस्याः प्रतिमायाः तिथिः नेपल्स-राष्ट्रिय पुरातत्वसङ्ग्रहालयेन भरतवर्षे प्रथमशताब्द्याः प्रथमे अर्धे निर्मितं इति निर्धारितम् अस्ति । [११]

पुरातत्त्वीय ऐतिहासिक च अध्ययनस्य अनन्तरम् अपि अस्य प्रतिमायाः उत्पत्तिः अद्यापि अस्पष्टा अस्ति । अस्मिन् काले सम्राट् नीरो इत्यस्य शासनसमये रोमकाणां सांराज्यस्य भारतवर्षस्य च मध्ये सक्रियव्यापारमार्गस्य प्रमाणानि सन्ति । [१२] पोलार्ड् इत्यस्य मते रोमकाणां दीर्घ व्यापारमार्गेभ्यः एषा प्रतिमा अगस्टस् इत्यस्य शासनकाले पोम्पेई नगरे आगता । [१२] पुरातत्त्वसाक्ष्या अनुसारं प्रथमः द्वितीयः च शताब्द्यां भारतस्य रोमकस्य च मध्ये व्यापारः सर्वाधिकं विस्तृतं आसीत् इति वितर्कितं । एतिहासिकैः स्त्रोतैः स्थलमार्गेण समुद्रमार्गेण च बहवः व्यापारमार्गाः आसन् इति ज्ञायते ।[१२]

सम्भवतः भोकरदनक्षेत्रे स्थित महाक्षत्रपस्य नहपनस्य शासनकाले एषा प्रतिमा पश्चिमदिशि मार्गं भृगुकच्छक्षेत्रस्य नौकाशयात् गता । [१३]

प्राचीनकाले रोमकैः पूर्वदिशि व्यापारे महत्त्वपूर्णं स्थानं निर्वाहितः। ते भारतात् अनेकानि द्रव्याणि आनयितवन्तः व्यापारकेन्द्राणि स्थापितवन्तः च। [१४] कोब् इत्यस्य मते रोमकैःआरवद्वीपकल्पात् पारसिकक्षेत्रात् च भूमार्गे, रक्तवर्नसमुद्रात् हिन्दमहासागरात् च समुद्रमार्गेण व्यापारः कृतम् ।[१४]

अस्य व्यापारस्य मूल्यं अतीव प्रचुरं आसीत् इति मन्यते।भारतवर्षं चीनक्षेत्रं आरवक्षेत्रं च प्रतिवर्षं १० कोटिः मुद्राः प्रेष्यन्ते इति प्लिनि इत्येन अधिकृतः। [१४] माम्स्याः हस्तिदन्तस्य वस्त्रस्य च प्रेषणेन पुरातत्त्वसाक्ष्यात् प्रथमः द्वितीयः च शताब्द्यां अयं व्यापारः सर्वोच्चः आसीत् इति स्पष्टं ।[१४] अस्मिन् समये अस्थि त्यक्ताः रोमकशिल्पिनः हस्तिदन्तस्य उपयोगेन वस्तूनि निर्मातुम् आरब्धः ।[१५] हस्तिदन्तशिल्पिनः अस्मिन् समये राजनैतिकदृष्ट्या शक्तिशालिनः श्रेण्यः अपि निर्मिताः । [१५]

प्रारम्भे एषा प्रतिमा मथुरानगरे निर्मिता इति कल्पितम् आसीत् । धवलीकर् इत्यस्य मते तस्याः उत्पादनस्थानं भोकरदनक्षेत्रम् इति चिन्तितम् यतः तत्र समाने मूर्तिद्वयं प्राप्ते । [१६]

 
खरोष्ठी-अक्षरे शि इति प्रतिमाधारणे उत्कीर्णम्।

भोकरदनक्षेत्रम् शातवाहनराज्यस्य सांस्कृतिकक्षेत्रस्य भागः आसीत्। सम्भवतः एतत् प्रदेशं महाक्षत्रपाणां अधीनं आसीत् इति अपि मताः सन्ति ।[१७]

एषायाः प्रतिमायाः अधोभागे खरोष्ठीलिप्यां 'शि' इति लेखचिह्नम् अस्ति । [१८] संभवतः एषा प्रतिमा सिन्धु गान्धारः कश्मीर वा एतेषु क्षेत्रेषु निर्मिता अथवा एतैः क्षेत्रैः अध्वगमनं कृता।[१९]

प्रतिमाशास्त्रम्

सम्पादयतु

आवर्तने प्रतिमा, अन्ययोः स्त्री-आकृतयोः केन्द्रतः च निरूपिता भवति। पादानि तस्य पार्श्वं प्रति पर्यवर्तन्ते, एकः भुजः कर्णमुद्राः धारयितुं प्रवृत्ता । सा केवलं अग्रतः एव दृष्टा इति कल्प्यते यतः पृष्ठतः विवरणानि अतीव समतलं भवन्तिसन्ति। यथा डी 'अङ्कोना इत्यनेन उक्तम् , एषा प्रतिमा-शास्त्रं भारते स्त्रीदेवतानां विस्तृतवर्गे अन्तर्भवति।[२०]

साञ्ची-स्तूपस्य द्वयस्य शिल्पासु, यत्र बाल-परिचारकद्वयेन सह लक्ष्मी इत्यस्याः दृश्यम् अपि विस्तृतरूपेण सदृशं वर्तते, सा पोम्पेयी-लक्ष्मी इत्यस्याः कृते प्रारम्भिक-प्रेरणारूपेण कार्यं कृतवती स्यात्, विशेषतः सा. श. पू. 50 तः सातवाहन साञ्ची इत्यस्य नियन्त्रणे आसन् इति ज्ञात्वा।[२१] साञ्ची-स्तूप-नं. 2 इत्यत्र एतानि प्रारम्भिकानि उत्कीर्णानि वायव्यतः, विशेषतः गान्धारस्य इण्डो-ग्रीक्-प्रदेशस्य शिल्पिभिः निर्मितानि इति मन्यते, यतः उत्कीर्णानि स्थानीय-ब्राह्मी-लिप्याः विरुद्धं खरोष्ठी-भाषायां राजमिस्त्री-चिह्नानि धारयन्ति।[२२] स्तूपस्य पट्टिकासु दृश्यमानानां विदेशीय-आकृतयः, आकृतयः च प्रायः शिल्पिनः एव आसन्।[२२]

ग्रन्थसूची

सम्पादयतु
  1. An Indian Statuette from Pompeii. pp. 166–180. 
  2. २.० २.१ Abstracts of Articles. 1939. pp. 214–215. 
  3. Pompeii: The Life of a Roman Town. 2010. p. 24. 
  4. Images of Indian Goddesses: Myths, Meanings, and Models. 2003. p. 57. 
  5. An Indian Statuette from Pompeii. pp. 166–180. 
  6. "Lakshmi". Museo Archeologico Napoli. आह्रियत 4 February 2017. 
  7. ७.० ७.१ Abstracts of Articles. 1939. pp. 214–215. 
  8. ८.० ८.१ Parker, Grant (2002). "Ex Oriente Luxuria: Indian Commodities and Roman Experience". Journal of the Economic and Social History of the Orient. 45 (1): 40–95. ISSN 0022-4995.
  9. ९.० ९.१ Pompeii: The Life of a Roman Town. 2010. p. 24. 
  10. Secrets of Pompeii: Everyday Life in Ancient Rome. 2009. p. 43. 
  11. "Lakshmi". Museo Archeologico Napoli. आह्रियत 4 February 2017. 
  12. १२.० १२.१ १२.२ Indian Spices and Roman "Magic" in Imperial and Late Antique Indomediterranea. 2013-08-07. pp. 1–23. 
  13. The Buddhist Caves at Aurangabad: Transformations in Art and Religion. 2010. p. 64 Note 94. 
  14. १४.० १४.१ १४.२ १४.३ The Reception and Consumption of Eastern Goods in Roman Society. April 2013. pp. 136–152.  उद्धरणे दोषः : <ref> अमान्य टैग है; ":2" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  15. १५.० १५.१ BARNETT, RICHARD D. (1982). "ANCIENT IVORIES IN THE MIDDLE EAST". Qedem. 14: III–99. ISSN 0333-5844.
  16. Region, Nationality and Religion. 1999. p. 46. 
  17. The Buddhist Caves at Aurangabad: Transformations in Art and Religion. 2010. p. 64 Note 94. 
  18. Statuetta eburnea di arte indiana a Pompei, Maiuri p. 112
  19. Afghanistan: Forging Civilizations Along the Silk Road, Joan Aruz, Elisabetta Valtz Fino, Metropolitan Museum of Art, 2012 p. 75
  20. Secrets of Pompeii: Everyday Life in Ancient Rome. 2009. 
  21. An Indian Statuette from Pompeii. pp. 166–180. 
  22. २२.० २२.१ An Encyclopaedia of Indian Archaeology, by Amalananda Ghosh, Brill p. 295
"https://sa.wikipedia.org/w/index.php?title=पोम्पेई_लक्ष्मी&oldid=485536" इत्यस्माद् प्रतिप्राप्तम्