प्रकृतिं पुरुषं चैव...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
- विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य नवदशः(९१) श्लोकः ।
पदच्छेदः
सम्पादयतुप्रकृतिं पुरुषं च एव विद्धि अनादी उभौ अपि विकारान् च गुणान् च एव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥
अन्वयः
सम्पादयतुप्रकृतिं पुरुषं च एव उभौ अपि अनादी विद्धि । विकारान् गुणान् च एव प्रकृतिसम्भवान् विद्धि ।
शब्दार्थः
सम्पादयतु- प्रकृतिम् = अव्यक्तम्
- पुरुषं = जीवम्
- अनादी = आदिरहितौ
- विद्धि = जानीहि
- विकारान् = देहेन्द्रियादीन्
- गुणान् = सुखदुःखादीन्
- प्रकृतिसम्भवान् = प्रकृतिजनितान् ।
अर्थः
सम्पादयतुदेहेन्द्रियादयः प्रकृतेः जन्याः विकाराः, सुखदुःखादयश्च सत्त्वादिगुणानां परिणामाः इति जानीहि ।