प्रतीपालङ्कारः (Prateepalankara) अलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति –

प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ।
प्रसिद्धोपमानोपमेयभावः प्रातिलोम्यात्प्रतीयम् ॥

उदाहरणम् –

यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी ।
येऽपि त्वग्गमनानुसारिगतयस्ते राजहंसा गता-
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥
अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् ।
अलं गर्वेण ते वक्त्र! कान्त्या चन्द्रोऽपि तादृशः ।।

अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसादृश्यमसहमानस्योपमेयं किञ्चित् प्रदर्श्य तावता अस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्यादपि विच्छित्तिविशेषशालि ।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=प्रतीपालङ्कारः&oldid=419266" इत्यस्माद् प्रतिप्राप्तम्