प्रभुदत्तशास्त्री
कविपरिचयः
सम्पादयतुप्रभुदत्तशास्त्री (Prabhudatta Shastri) १९४९ तमे विक्रमाब्दे जनीं लब्धवान् । अयम् अलवरसमीपस्थस्य ततारपुरग्रामस्य निवासिनः शालिग्रामस्य पौत्रः । अयं मण्डावरे अधीतवान् ।
काव्यपरिचयः
सम्पादयतुकविरयं दशसर्गात्मकं गणपतिसम्भवमहाकाव्यं प्रणीतवान् । अत्र गणपतिचरितं विस्तरेण उपन्यस्तम् । भारतविजयाख्यस्य अन्यस्यापि काव्यस्य उल्लेखः प्राप्यते ।
काव्यकला
सम्पादयतुप्रभुदत्तशास्त्रिणः काव्यशैल्यां कलापक्षस्य प्राधान्यं वर्तते । कलापक्षस्य प्राधान्यादेव गणपतिसम्भवे अद्भुतकल्पनानां चमत्कारो दृश्यते । कवेः वर्णनकला अनुपमा । कस्यापि वस्तुनो वर्णने कविः अद्भुताः कल्पनाः उद्भावयति । अलवरनगरस्य वर्णनं यथा –
- तस्मिन्नलवरनावकञ्च नगरं विख्यातिमाप्तं चिरात्
- प्रत्याहारमलं बलात् स्मरयतेऽन्वेवासिनो व्याकृतेः ।
- तस्निन्नन्तर्वासितामुपगता वर्णाः स्वरा अस्वराः
- ते संयुच्य मिथोऽपि सन्ततिसमास्त्वन्ति प्रत्याहुताः ॥
यथा अल्प्रत्याहारे सर्वे स्वराः व्यञ्जनानि च मिलित्वा सन्ततिरिव प्रत्याहारान्तराणि सृजन्ति तथैव अलवरनगरे सर्वे ब्राह्मणादयो वर्णाः संयुज्य परिवारसमृद्धिं कुर्वन्तीति भावः ।
अपर्णेति नाम्नो विवेचनं यथा –
- यस्या लालनपालनादिसुकृतेः श्रेष्ठे कुले दानतः
- पूर्वे स्वे पितरः परेऽपि च तथाऽपर्णा भवेयुर्भवे ।
- पर्णं वा पतनं न पश्यति दिनाद्यञ्जन्मनो यत्पिता
- पश्चाच्चापि पतिः सुता भवति सा भाग्यादपर्णाह्वया ॥
गणपतिसम्भवस्य भाषा ललितललिता, परिष्कृता, रुचिरा, चमत्कारमयी च वाग्वैदग्ध्यमस्य अनुपमं वैशिष्ट्यम् ।
वाचां विदग्धतायाः कमनीयम् उदाहरणं यथा -
- प्रेष्ठे गेहिनि किं करोषि ? भवते सूपोदनौ संस्कृतौ
- तेऽपूपाशिचरतोऽर्थिता रसमयास्ते क्षीरतः संस्कृताः ।
- चन्द्रभाश्च बटाः स्वगण्डसदृशाः क्रीडन्ति दध्नि स्थिताः
- धूमस्विन्नमुखं न संस्कृतमिदं तत् किं त्वया संस्कृतम् ॥