प्रयागराज:
वाराणसीतः १३५ कि.मी. दूरे गङ्गायमुनासरस्वतीनां सङ्गमस्थानं त्रिवेणीसङ्गमः इति ख्यातः अस्ति । सरस्वतीनदी अत्र गुप्तगामिनी अस्ति । प्रयागः इति अस्य पूर्वनाम आसीत् । ब्रह्मा एव अत्र यागं कृतवान् इति पुराणेषु उल्लिखितम् । अकबरस्य काले प्रयागस्य अलाहाबाद् इति नाम आगतम् । अत्र सङ्गमे स्नानं पवित्रम् इति भारतीयाः भावयन्ति । द्वादशवर्षेषु एकवारम् अत्र कुम्भोत्सवः इति उत्सवः प्रचलति । अत्र अक्बरः बृहत् भित्तीनां स्तम्भानां त्रयाणां महाद्वाराणां गोपुराणां च निर्माणं कारितवान् । दुर्गात् यमुनानदीवीक्षणम् अधिकानन्ददं भवति । भारतस्य स्वातन्त्र्यान्दोलने प्रमुखमस्थलम् आनन्दभवनम् आसीत् । अलाहाबादनगरे स्थितमेतत् इदानीं राष्ट्रियस्मारकमस्ति । दुर्गस्य महाद्वारस्य पुरतः अशोकस्तम्भः स्थापितः अस्ति ।
प्रयागराज प्रयाग | |
---|---|
नगरम् | |
यमुनासेतुः प्रयागस्य प्रातिनिध्यं करोति। | |
Nickname(s): प्रधानमन्त्रिणां नगरम् | |
Country | भारतम् |
State | उत्तरप्रदेशः |
जनपद | प्रयागराज जनपद |
Founded | १५८३ एडी |
Named for | प्रयाग: |
Government | |
• Type | मेयर-नगर आयुक्त |
• Body | प्रयागराज नगर निगम |
• मेयर | गणेश केसरवानी |
• पुलिस कमिश्नर | राम चंद्र यादव |
Area | |
• Total | ६३.०७ km२ |
Elevation | ९८ m |
Population (२०११) | |
• Total | ५,९५९,७९८ |
• Rank | भारत में ३५ |
• Density | १,०८७/km२ |
• समुच्चय श्रेणी | ४० |
Demonym(s) | प्रयागराजवासी |
Time zone | UTC+५:३० (भारतीय मानक समय) |
पिन-कोड |
२११००१-०५ |
दूरभाष कोड | ९१-५३२ |
Vehicle registration | यूपी-७० |
लिंगानुपातः | ९०१ ♂/♀ |
आधिकारिक भाषा | हिन्दी |
जातीयता | हिंदू, मारवाड़ी, बिहारी |
Website | प्रयागराज |