गीतोपदेशः
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः

सम्पादयतु

प्रयाणकाले मनसा अचलेन भक्त्या युक्तः योगबलेन च एव भ्रुवोः मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥ १० ॥

सः भक्त्या युक्तः प्रयाणकाले योगबलेन च एव भ्रुवोः मध्ये प्राणं सम्यक् आवेश्य अचलेन मनसा (स्मरन्) दिव्यं परं तं पुरुषम् उपैति ।

शब्दार्थः

सम्पादयतु
सः = सः योगी
भक्त्या युक्तः = भक्त्या सहितः
प्रयाणकाले = मरणसमये
योगबलेन च एव = समाधिबलेन
भ्रुवोः मध्ये = भ्रुवोः मध्यदेशे
प्राणम् = प्राणवायुम्
सम्यक् = साधु
आवेश्य =स्थापयित्वा
अचलेन = निश्चलेन
मनसा = चित्तेन (स्मरन्)
दिव्यम् = लोकोत्तरम्
परम् = उत्तमम्
तं पुरुषम् = प्रसिद्धं पुरुषम्
उपैति = प्राप्नोति ।

सः अनन्यभावेन सहितः मरणसमयेे समाधिबलेन भ्रुवोः मध्ये प्राणवायुं सम्यक् स्थापयित्वा निश्चलेन चित्तेन स्मरन् लोकोत्तरम् उत्तमं तमेव पुरुषं प्राप्नोति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=प्रयाणकाले_मनसाचलेन...&oldid=418673" इत्यस्माद् प्रतिप्राप्तम्