प्रवृत्तिं च निवृत्तिं च...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
- न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
सम्पादयतुप्रवृत्तिं च निवृत्तिं च जनाः न विदुः आसुराः न शौचं न अपि च आचारः न सत्यं तेषु विद्यते ॥ ७ ॥
अन्वयः
सम्पादयतुआसुराः जनाः प्रवृत्तिं च निवृत्तिं च न विदुः । तेषु शौचं न विद्यते । आचारः अपि न, सत्यम् अपि न।
शब्दार्थः
सम्पादयतु- आसुराः = असुरगुणसम्पन्नाः
- प्रवृत्तिम् = प्रवर्तनम्
- निवृत्तिम् = निवर्तनम्
- विदुः = जानन्ति
- शौचम् = शुद्धिः
- आचारः = सदाचारः
- सत्यम् = यथार्थकथनम् ।
अर्थः
सम्पादयतुअसुरगुणसम्पन्नाः जनाः धर्मे प्रवृत्तिं न जानन्ति, अधर्मात् च निवृत्तिम् । कायिकं वाचिकं मानसिकं चेति यत् त्रिविधं शौचं तत् तेषु न सम्भवति । नापि च यथार्थवादित्वम् ।