प्रश्नशास्त्रम्(ज्योतिषम्)

।।ज्योतिश्शास्त्रे प्रश्नभागः।।


ज्योतींषि ग्रहनक्षत्राणि एषां गतिस्थित्यवबोधकं शास्त्रं भवति ज्योतिश्शास्त्रम्। अपरिमिते गगनमण्डले यानि तेजोमयानि बिम्बानि दृश्यन्ते, तानि सर्वाण्येव समष्ट्या ज्योतिश्शब्देनोच्यन्ते। प्रतिदिनं भिन्नभिन्नगतिषु ग्रहशब्देन तेष्वपि पुनः केचिदमृतमयकिरणाः, केचित् विषमयकिरणाः, केचिदुभयमिश्रकिरणाः, केचित्तुभयधर्महीनरश्मयश्च स्मृताः। एवं विध नक्षत्रग्रहतारकादिज्योतिष्पिण्डानां स्थिति-गति-प्रभवादिवर्णनपरं शास्त्रमेव ज्योतिषपदेनाभिधीयते। वस्तुतस्तु शास्त्रमिदं ज्योतिषं ज्योतिर्विषयकम्। न केवलमिदं व्युत्पत्यैर्वाऽपितु लगतमारभ्य कमलाकरभट्टपर्यन्तं ये खल्वाकरग्रन्थाः प्रणितास्तत्र शास्त्रमिदं ज्योतिषशब्देनैव व्यवहृतं दृश्यते। शास्त्रमिदं सिद्धान्त-संहिता-होराभेदेन त्रिषु स्कन्धेषु विभक्तमिति त्रिस्कन्धज्योतिषशब्देनापि ज्ञायते। तत्रादौ गणितशब्देनाभिधीयते। स्कन्धोऽयमपि ग्रहगणित- पाटीगणित- बीजगणितभेदेन त्रिविधः। संहितास्कन्धः कालचक्रं विवृणोति। मुहूर्ताद्यार्षत्वेन बार्हस्पत्य- कश्यप- नारदसंहिताः सम्प्रति दृश्यन्ते। होरास्कन्धस्तु जातक-ताजिकभेदेन द्विधा विभक्तोऽस्ति। अयमेव फलितज्योतिषनाम्ना व्यवह्रियते। ज्योतिश्शास्त्रे केरलीयपद्धतौ बहुविधाः प्रश्नाः सन्ति। आरूढनिर्णय भेदेन एतेषां नामानि भिद्यन्ते। प्रश्नशास्त्रोक्तैः सकलैः विधानैः परिपूर्णः प्रश्नः अष्टमङ्गलप्रश्नः इत्युच्यते। तत्र केषाञ्चन अङ्गानां परित्यागेन स्वर्णारूढप्रश्नः , आरूढप्रश्नः, ताम्बूलप्रश्नः, तत्कालप्रश्नः इत्यादयः अन्ये प्रश्नाः भवन्ति। आरूढनिर्णयभेद एव प्रश्नवैविध्ये मुख्यं कारणम्। अतः आरूढनिर्णयः आदौ विचार्यते। आरूढनिर्यणयः- यथा जातके उदयलग्नराशिः प्रधानः, तथा प्रश्नशास्त्रे आरूढराशिः। आरूढराशिर्नाम कः? प्रश्ने आरूढराशिः कथं निर्णीयते? अस्मिन् विषये प्रश्नशास्त्रे बहवः अभिप्रायाः सन्ति।तेषु केषाञ्चन अभिप्रायाणां सङ्ग्रहमत्र करोमि।

“ आरूढत्वात् पृच्छकेन राशिरारूढं उच्यते ”इति प्रश्नमार्गकारः प्रधानम् आरूढलक्षणं कथयति। पृच्छकः यं राशिम् अधिरूढः सन् प्रश्नं करोति स एव आरूढराशिः। पृच्छकाधिष्ठितप्रदेशस्य राशिनिर्णयस्तु इत्थं भवति-

दैवज्ञस्य विष्वक् द्वादशराशयः वर्तन्ते । तेषु पूर्वदिशि मेषवृषौ अग्निकोणे मिथुनं, दक्षिणे कर्कसिंहौ, नैऋत्यां दिशि कन्या, पश्चिमायां तुलावृश्चिकौ, वायुकोणे धनुराशिः, उत्तरस्यां मकरकुम्भौ, ऎशान्यां मीनराशिः इति स्थितिः । तेषु यद्राशिसम्बन्धिभूविभागे स्थितः प्रष्टा पृच्छति स एव राशिः, पृच्छकान् आरूढत्वात् आरूढराशिरित्यन्वर्थं नाम भजते । स च प्रष्टा शुभाशुभदैवेन सम्प्रेर्यमाणः द्वादशसु राशिषु यं कमपि राशिमाश्रित्य पृच्छतीति, प्रश्नफलनिर्णये आरूढराशेः प्राधान्यम् । पूर्वोक्तक्रमेण आरूढराशेः निर्णये काश्चन बाधाः सन्ति यथा- दैवज्ञः पूर्वाभिमुखः सन् उपविशति । समागतः पृच्छकस्य स्थितिः प्रायेण मीनादिषु चतुर्षु राशिषु एव स्यात् । सर्वदा ते चत्वारः राशयः एव आरूढाः भवेयुः । दैवज्ञस्य पृष्ठतः स्थिताः कन्यादयः चत्वारः राशयः कदापि आरूढराशयः न भवेयुः इत्येका अव्याप्तिः । अपरा च असङ्गतिः, राशिसन्धिषु यदि पृच्छकः तिष्ठति तदानीमपि आरूढनिर्णये अनिश्चयः स्यात् । पृच्छकस्य एकः पादः एकस्मिन् राशौ, अपरः अन्यस्मिन् राशौ तिष्ठति चेदपि सन्धिस्थित्या अनिश्चयाद् आरूढराशिः न ज्ञायते । दैवज्ञस्य विष्वक् द्वादशसु राशिस्थानेषु द्वादशासनानि कल्पयित्वा मध्ये यदि दैवविद्, चक्रवत् भ्रमति आसने उपविशति तदानीं पृच्छकस्य दैवप्रेरणवशात् यत्र कुत्रापि राशौ उपवेष्टुम् अवकाशः स्यात् । एवं पूर्वोक्तक्रमेणैव आरूढराशिः निर्णयितुं शक्यते चेत् एष एव क्रमः अत्यन्तं समीचीनः न्याय्यश्च स्यात् । परन्तु एतादृशी व्यवस्था बहुत्र नास्तीति हेतोः पृच्छकाधिष्ठित राशिवशात् आरूढनिर्णयः समीचीनो न स्यात् । तदर्थं एतद्विधानां परित्यज्य अपरः शास्त्रीयः आरूढनिर्णयक्रमः प्रश्नग्रन्थेषु प्रतिपादितः।

तस्मिन्ननिश्चिते चक्रं विलिख्यास्मिन् सुपूजिते  ।

प्रष्टा स्वर्णेन यं राशिं स्पृशेदारूठ एव सः ।। इति ।।

स्वर्णारूढप्रश्नः-राशिचक्रं भूमौ विलिख्य चक्रमध्यस्थिते पद्मे पीठपूजापुरस्सरं दक्षिणामूर्तिस्वरूपिणं शिवं पञ्चाक्षर्या आवाह्य पूजयेत् . तत्परिवारत्वेन द्वादशराशीन्, तद्दिवसीयग्रहस्थित्यनुसारं राशिषु नवग्रहान् गुलिकं च राशिचक्रे पूजयेत् । राशिचक्रं परितः-

काञ्चनं दर्पणं पुष्पमक्षतं फलसञ्चयः ।

ताम्बूलं वसनं ग्रन्थश्चाष्टमङ्गलमिष्यते ।।

समुत्खं दर्पणं स्वर्णं पुष्पाक्षतफलानि च ।

ताम्बूलं ग्रन्थं अष्टमङ्गलमुदीरितम् ।।

ताम्बूलं अक्षतं चैव  क्रबुकं दारुभाजनं ।

अम्बरं दर्पणं ग्रन्थं दीपमित्यष्टमङ्गलम् ।। इत्युक्तान् अष्टौ मङ्गलपदार्थान् न्यसेत्। पूजायाः ब्रह्मार्पणान्ते वाग्देवीं गुरुं च अष्टमङ्गलेषु पूजयेत् । दीपे श्रियं च पूजयेत्। एकस्मिन् मुखे लक्ष्मीचिह्नयुक्तं स्वर्णं पत्रे विन्यस्य कुसुमैः अक्षतैरपि योजयेत् । तत्पत्रं वामहस्ते निधाय अन्येन पाणिना पिधाय साष्टशतं पञ्चाक्षरीं अन्यानपि मनून् यथाशक्ति जपेत् । ततः कन्या, कुमारः, राशिग्रहस्थितिज्ञानशून्यो वा अपरः, राशिचक्रस्थितराशिस्थानेषु दैवप्रेरणया एकत्र स्वरेणविन्यासपूर्वकम् आरूढनिर्णयं कुर्यात् । दीपविघ्नराजग्रहेश्वरान् पुष्पैराराध्य, साक्षतपुष्पकं स्वर्णं अञ्जलौ गृहीत्वा, चक्रं त्रिःप्रदक्षिणीकृत्य, दैवेन सम्प्रेर्यमाणः राशिचक्रे एकत्र राशौ स्वर्णं निक्षिपेत् । एवं स्वर्णेन यं राशिं स्पृशति स एव आरूढराशिः । एवं स्वर्णविन्यासेन निर्णीतः आरूढराशिः स्वर्णारूढराशिरित्युच्यते। उत्तरत्र वक्ष्यमाणं अष्टमङ्गलविभागम् अकृत्वा, केवलं स्वर्णारूढराशिं निश्चित्य प्रश्नकर्म क्रियते चेत् सः स्वर्णारूढप्रश्नः इत्युच्यते । एवं पूजिते राशिचक्रे स्वर्णविन्यासावसरे, राशिचक्रस्य उत्तरदिग्भागे दैवज्ञः अष्टोत्तरशतं वराटिकाः सम्पूज्य, ताः संस्पृशन् मूर्तित्वेपूर्विकान् मन्त्रान् जप्त्वा, स्वर्णविन्यासक्षणे एव, वराटिकाः उदक्पूर्वं त्रिधा विभजेत् । एष एव अष्टमङ्गलविधिः । त्रिष्वपि स्थानेषु अष्टौ अष्टौ वराटिकाः त्यक्त्वा शिष्टाः वराटिकाः संरक्ष्याः । शिष्टाः एव अष्टमङ्गलसङ्ख्याः ज्ञेयाः । ताः सङ्ख्याः आधारीकृत्य- वामस्थेन फलं भूतं वर्तमानं तु मध्यतः । दक्षिणस्थेन भावीनि फलानि च विचिन्तयेत् ।। इत्याद्युक्तदिशा भूतवर्तमानभविष्यत्कालिकानां फलानां निरूपणं क्रियते । अस्मिन् प्रश्नकर्मणि स्वर्णविन्यासेन आरूढनिर्णयः, अष्टमङ्गलसंख्याविभागश्च वर्तते । एषः स्वर्णाष्टमङ्गलप्रश्नः इत्युच्यते । प्रश्नविभागे एषः स्वर्णाष्टमङ्गलप्रश्नः प्रश्नशास्त्रोक्तैः सर्वैः विधिभिः उपेतः अत्युन्नतं स्थानं अर्हति । अष्टमङ्गलप्रश्नः इति पदस्य औचित्यम्- शुद्धायां भूमौ राशिचक्रं विलिख्य तत् परितः काञ्चनं, दर्पणं, पुष्पमक्षतं, फलसञ्चयं, ताम्बूलं, वसनं, ग्रन्थश्चेति अष्टौ मङ्गलवस्तूनि विन्यस्य राशिचक्रस्य पूजा क्रियते ।पूजावसाने ब्रह्मार्पणात् परं वाग्देवीं गुरुं च अष्टमङ्गलेषु संवन्द्य, ततः परं चक्रे स्वर्णविन्यासः क्रियते । अष्टौ मङ्गलवस्तूनि पूज्यन्ते इति हेतोः अयं प्रश्नः अष्टमङगलप्रश्नः इत्याख्यायते । किन्तु शास्त्रदृष्ट्या एतावता एव अस्य एतन्नाम न भवति । यतः स्वर्णारूढ प्रश्ने अपि अष्टमङ्गलवस्तूनां विन्याससम्प्रदायः दृश्यते । प्रश्नशास्त्रे तु राशिचक्र पूजानन्तरं स्वर्णविन्यासावसरे साष्टकशतस्य वराटिकानां त्रेधा विभागविधिरेव अष्टमङ्गलकर्म इत्युच्यते । एतदेव ‘प्रारभेताष्टमङ्गलम्’ इति प्रश्नमार्गे अष्टमङ्गलमिति नाम्ना निर्दिष्टम् । त्रेधा विभक्तानां वराटिकानां प्रत्येकस्मिन् विभागे अष्टशः वराटिकाः त्यक्त्वा शिष्टाः सङ्ख्याः अष्टमङ्गलसङ्ख्याः इत्युच्यन्ते । तत्र वामस्थेन भूतकालचिन्तनं, मध्यस्थेन वर्तमानकालचिन्तनं, दक्षिणस्थेन भाविफलचिन्तनमिति त्रैकाल्यजफलं दैवज्ञैः चिन्त्यते । एतद् अष्टमङ्गलकर्म अस्य प्रश्नस्य प्रधानोंऽशः । अत एव पूर्वोक्तांशद्वयेन अष्टमङ्गलप्रश्नः इति अस्य प्रश्नस्य अन्वर्थं नाम । अस्मिन् प्रश्नकर्मणि अष्टानां मङ्गलवस्तूनां विन्यासः, स्वर्णनिक्षेपः, अष्टमङ्गलसंख्याविभागश्च वर्तते ।

    यस्मिन् प्रश्ने वराटिकानां विभागो नास्ति, तस्मिन् स्वर्णारूढप्रश्नेऽपि अष्टमङ्गलवस्तूनां विन्यासः क्रियते । तथापि तस्य प्रश्नस्य अष्टमङ्गलप्रश्नः इति न व्यवहारः। किन्तु वराटिकानां त्रेधा विभागरूपं अष्टमङ्गलकर्म यत्र वर्तते तत् कर्मयुक्त एव अष्टमङ्गलप्रश्नः इति नाम भजते। अतः अष्टानां मङ्गलवस्तूनां विन्यासः, स्वर्णनिक्षेपेण आरूढनिर्णयः वराटिका विभागेन अष्टमङ्गलसङ्ख्यानयनं च यस्मिन् प्रश्ने वर्तते स एव ‘स्वर्णाष्टमङ्गलप्रश्नः’ इति प्रश्नशास्त्रे अत्युन्नतस्थाने विराजते । 

अस्य स्वर्णाष्टमङ्गलप्रश्नस्य चिन्तनावसरे प्रधानदैवज्ञेन सह अन्ये द्वित्राः त्रिचतुराः वा दैवज्ञाः भवन्ति । तेऽपि प्रश्नविमर्शं कुर्वन्ति । अन्ये धर्मशास्त्रज्ञाः शिल्पशास्त्राज्ञाः आगमशास्त्रज्ञाश्च सदसि समवेताः भवन्ति । दैवज्ञैः कृतानां चिन्तनानां विमर्शकः अपरः प्रश्नकारः दैवज्ञः भवति । सः देशभाषायां ‘चोद्यकारः’ इति कथ्यते । तस्य पूर्वपक्षं शास्त्रवचनैः निराकृत्य दैवज्ञः फलानि निर्णयति । एवं शास्त्रीयविमर्शेन फलनिर्णयः अष्टमङ्गलप्रश्ने भवति । ताम्बूलप्रश्नः

पूर्वोक्ते स्वर्णप्रश्ने, स्नर्णाष्टमङ्गलप्रश्ने च स्वर्णनिक्षेपकालस्य लग्नस्फुटः ग्रहस्फुटाश्च   गृह्यन्ते । किन्तु प्रष्ट्रा दत्तानां ताम्बूलानां संख्यामाधारीकृत्य आरूढराशिं निर्णीय यत्र फलप्रवचनं क्रियते सः ताम्बूलप्रश्नः इति कथ्यते । स च ताम्बूलारूढनिर्णयः प्रश्नमार्गे 

ताम्बूलसंख्यां द्विगुणां शरघ्नां सैकां हरेत्सप्तभिरत्र शिष्टैः । सूर्यादिकानामुदयोऽत्र कल्प्यो ग्रहोदयो यत्र स लग्नराशिः ।। इति प्रतिपादितः । ताम्बूलसंख्यां दशभिः संगुण्य एकं तत्र संयोज्य सप्तभिः विभजेत् । शिष्टसंख्यातुल्यः सूर्यादितः ताम्बूलग्रहो ज्ञेयः । सः ग्रहः तद्दिने यस्मिन् राशौ वर्तते, सः ग्रहोदयराशिरेव ‘ताम्बूलारूढराशिः’ भवति । तद्राशिं केन्द्रीकृत्य ग्रहाणां भावफलादिकथनं क्रियते । अत्र ताम्बूलप्रदानसमयस्य लग्नस्फुटं ग्रहस्फुटानपि स्वीकृत्य षडारूढकल्पनं फलचिन्तनं च क्रियते । अत्र स्वर्णनिक्षेपः, राशिचक्रपूजा, अष्टमङ्गलविभागादयः न सन्ति । प्रष्ट्रा दत्तेषु ताम्बूलेषु आदिमैः द्वादशताम्बूलैः छिद्रह्रस्वदिर्घादिलक्षणानि विलोक्यापि द्वादशभावचिन्तनं क्रियते । पूर्वाह्ने ताम्बूलदानं चेत् उपरि आरभ्य, अपराह्ने चेत् अधस्तात् प्रभृति द्वादशभाव सम्बन्धिताम्बूलानि गणयन्ति । एषः ताम्बूलप्रश्नः इत्युच्यते । स्वर्णारूढप्रश्ने, स्वर्णाष्टमङ्गलप्रश्ने च अङ्गतया दत्तानां ताम्बूलानां चिन्तनं क्रियते, न तु प्रधानतयाः ।। आरूढप्रश्नः- प्रष्टुः नामनक्षत्रे सङ्कल्प्य, दैवज्ञः वराटिकाः संस्पृशन् ‘एतन्नक्षत्रसञ्जातस्यैतन्नाम्नोऽस्य पृच्छतः’ इत्यादिसङ्कल्पश्लोकान् परिजप्य, मूर्तित्वेपूर्वकान् मन्त्रान्नपि जपन् मन्त्रजपान्ते दैवप्रेरणानुसारं वराटिकासङ्घात् काश्चन वराटिकाः दक्षिणहस्तेन स्वीकृत्य अन्यत्र स्थापयेत् । लब्धवराटिकाभ्यः द्वादश-द्वादश वराटिकाः सन्त्यज्य शिष्टवाराटिकाः ज्ञेयाः । अत्र मेषादितः शिष्टवराटिकासंख्यातुल्यराशिरेव आरूढराशिरिति स्वीक्रियते । दक्षिणह स्तेन वराटिकास्वीकारसमयस्यैव उदयलग्नं ग्रहस्फुटानपि ज्ञात्वा फलनिरूपणं क्रियते । अत्र राशिचक्रपूजा, स्वर्णनिक्षेपः, अष्टमङ्गलविभागश्च न वर्तन्ते । केवलं आरूढनिर्णयः विद्यते इति हेतोः अस्य आरूढप्रश्नः इति नाम । अत्रापि अङ्गत्वेन ताम्बूलदानं तद्वशात् फलचिन्तनं च बहुभिः दैवज्ञैः क्रियते । अनेन क्रमेण आरूढनिर्णयः प्रश्नग्रन्थेषु कुत्रापि प्रतिपादितः न दृश्यते । किन्तु लोके एषः सम्प्रदायः दृश्यते । अष्टमङ्गलप्रश्ने तत्कालप्रश्नादिषु च सर्वेषु परिहारनिर्णयादिषु अनेनैव क्रमेण आरूढराशिः स्वीक्रियते । एवम् आरूढनिर्णयभेदेन प्रश्नस्य नामभेदाः भवन्ति । तेषु फलनिर्णये शास्त्रोक्तानां केषाञ्चन अङ्गानां लोपाच्च तारतम्यं स्यादेव । अतः प्रश्नशास्त्रे पूर्वोक्तचतुर्विधप्रश्नकर्मणां स्थानं एवं निर्णेतुं शक्यते । 1. अष्टमङ्गलप्रश्नः । 2. स्वर्णारूढप्रश्नः । 3. ताम्बूलारूढप्रश्नः । 4. आरूढप्रश्नः । ( ताजिकप्रश्नः) अतः यथा लोके न्यायाङ्गव्यवस्था वर्तते तथैव अत्र, स्वर्णाष्टमङ्गलप्रश्ने निर्णीतानां विषयाणां परमं प्रमाणं भवति। तदुक्तनिर्णयाणाम् अन्यैः प्रश्नैः निराकरणं कर्तुं न शक्यते । प्रश्ने आरूढस्यैव प्राधान्यम्- केरलाद्बहिः पृच्छाकालिकोदयलग्नं केन्द्रीकृत्यैव प्रश्ने फलानि कथ्यन्ते इति हेतोः अस्य प्रश्नशास्त्रमिति अन्वर्थं नाम । केरलीयपद्धतौ तु स्वर्णविन्यासेन आरूढराशिः निर्णीयते । स्वर्णविन्यासकालिकोदयलग्नमपि प्रश्नचिन्तायां स्वीक्रियते । संशीतिर्जायते द्वयोः कस्य प्राधान्यमिति । कृष्णीयादिषु केरलीयप्रश्नग्रन्थेषु, प्रश्ने प्रश्नकालिकोदयलग्नात् आरूढाश्च फलं चिन्तयेदिति कथितमस्ति । केरलप्रश्नशास्त्रे आरूढलग्नयोः उभयोः तुल्यं प्राधान्यं दृश्यते । अतः प्रश्नग्रन्थोक्तश्लोकेषु लग्नशब्देन आरूढराशिरपि गृह्यते । ‘पापे लग्नगते पराजयशिरोरुक्’इत्यादिषु श्लोकेषु लग्नमिति पदेन आरूढराशिरपि स्वीक्रियते । उत्तरभारतीयप्रश्नग्रन्थेषु लग्नपदमेव वर्तते न तु आरूढपदम् । यथा दैवज्ञवल्लभायाम्- यातुः पृच्छालग्नतः सप्तमस्य स्वामियायाद्यावता वक्रभावम् । कालेनैति प्रस्थितस्तावतेति प्राहुस्त्वेते प्रश्नतत्त्वप्रवीणाः ।। इति । अत्रत्यलग्नपदेन केरलीयचिन्तने आरूढराशिः गृह्यते । प्रश्नमार्गकारः प्रश्नः खलु उदयारूढप्राधान्येन द्विधा मतः इति उदयलग्नात् कदा चिन्तयेत्, आरूढात् कदा विमृशेदिति विभागं ग्रन्थान्तरवचनैः दर्शयति । किन्तु अस्य विमर्शस्य अन्ते प्रश्नमार्गकारः स्वमतमेव दृढीकरोति । निरन्तरोद्यतां भानां कस्याप्यस्त्युदयः सदा । तथाप्यारूढवाञ्छा यत् ततोऽस्यैव प्रधानता ।। इति ।

    राशिचक्रस्य निरन्तरगतिसद्भावात् प्रश्नकालिकोदयलग्नस्य सर्वदा सद्भावः । प्रायः घण्टाद्वयम् एकमेव उदयलग्नम् । घण्टाद्वयान्तरेण प्रश्नकर्तृणां समेषाम् उदयलग्नमेकमेव भवति । अतः फलनीर्णयार्थम् आरूढराशिः स्वीकृतः । पृच्छकारूढराशेः सन्धिस्थित्यादिना दुर्ज्ञेयत्वेन, भगवत्पूजापूर्वकं स्वर्णविन्यासेन आरूढराशिः निर्णीतः । अनेन एकस्य राशेः उदयसमये प्रश्नभेदेन यः कोऽपि राशिः आरूढराशिः भवेत् । प्रश्नकालिकोदयलग्नस्य सद्भावेऽपि आरूढराशेः पृथक् स्वीकरात् केरलीयप्रश्नपद्धतौ आरूढराशेः प्राधान्यम् । आरूढराशिं केन्द्रीकृत्य फलनिर्देशः प्रशनः इत्युच्यते । 

आरूढोदयलग्नांशच्छत्रस्पृष्टाङ्गराशयः । चन्द्राधिष्ठितराशिश्च चिन्त्याः षट् प्रश्नकर्मणि ।। इति । अष्टमङ्गलप्रश्नकर्मणि फलनिर्दाशे सूक्ष्मफलप्राप्त्यर्थं, फलस्फुटतां च प्राप्तुं षडारूढः क्रियते । एतेषु षडारूढप्रश्नेषु प्रश्नक्रिया सम्भवस्य पूर्णतां प्राप्तुं शक्यते ।

उपसंहारः

  स्वर्णारूढप्रश्नः, ताम्बूलप्रश्नः, अष्टमङ्गलप्रश्नः, इत्यादिप्रश्नवैविध्यं आधारीकृत्य सामान्यतः  विषयाः निरूपिताः। शास्त्रेषु एतदतिरिच्य अनेके प्रश्नविषयाः निरूपिताः चेदपि विशेषतः प्रश्नमार्गः इति ग्रन्थमवलंब्य प्रधानांशान् स्वीकृत्य शोधपत्रमिदं समर्प्यते।


                                       इरि शम्

सम्बद्धाः लेखाः सम्पादयतु