प्रसादः
प्रसिध्दार्थपदवत्त्वं प्रसादः (Prasada) । यत्र पदानि झटित्यर्थसमर्पकानि भवन्ति तत्र प्रसादो गुणो भवति । वामनस्तु बन्धशैथिल्यं प्रसादः इति स चौजोगुणमिश्रितो भवेदिति च व्याचख्यौ । यथा –
- प्रतापरुद्रदेवोऽयं भाति लक्ष्मीपति स्स्वयम् ।
- येनास्य लोचने फुल्लपुण्डरीकमनोहरे ॥