प्रसूतिका नाम या प्रसवं कारयति सा । इदानीं तु वैद्याः तु प्रसवं कारयन्ति । तदर्थम् एव सुसज्जिताः वैद्यालयाः अपि सन्ति । किन्तु पूर्वतने काले एतादृशी व्यवस्था न आसीत् । तदा वैद्याः अपि न आसन्, वैद्यालयाः चापि । औषधाधिकं चिकित्सा वा गृहौधम् एव अवलम्बन्ते स्म । कुत्रचित् स्थानीयाः आयुर्वेदस्य वैद्याः केचन भवन्ति स्म । गर्भवतीनां प्रसवः यदि कष्टकरः भवति तर्हि अधिकांशाः मरणम् एव प्राप्निवन्ति स्म । तादृशे काले तादृश्यः प्रसवकारणे निपुणाः वृद्धाः काश्चन भवन्ति स्म । ताः एव प्रसूतिकाः इति उच्यन्ते । ताः अनुभवद्वारा एव तां कलां सम्पादितवत्यः भवन्ति स्म ।

"https://sa.wikipedia.org/w/index.php?title=प्रसूतिका&oldid=373414" इत्यस्माद् प्रतिप्राप्तम्