यानि वस्तूनि गृहे औषधत्वेन उपयुज्यन्ते तानि गृहौषधत्वेन परिगण्यन्ते । पाकशालायां कार्यं कुर्वद्भिः सर्वैः अपि तत्र विद्यमानानां नित्योपयोगीनां पदार्थानां सर्वेषाम् अपि गुणस्य, धर्मस्य च ज्ञानं भवेत् । भारते तु पूर्वं गृहिण्यः सर्वाः तादृशं ज्ञानं श्रवणद्वारा एव प्राप्नुवन्ति स्म । स्मृतिद्वारा एव अग्रिमान् पाठयन्ति स्म च । अयं पदार्थः उष्णप्रधानः, अयं च वायुकारकः, अयम् अजीर्णकारी, अयं हितकारकः इति पदार्थानां गुणं धर्मं च जानन्त्यः स्मरन्त्यः एव योग्यप्रमाणेन आवश्यकतानुसारं तेषाम् उपयोगं कुर्वन्ति स्म ताः । कस्मिंश्चित् अपि विश्वविद्यालये दीर्घकालीनं शिक्षणं न प्राप्तवत्यः आसन् ताः पाकशास्त्रविषये । तथापि गृहे विद्यमानानां सर्वेषाम् आरोग्यरक्षणं कुर्वन्ति स्म ताः । यतः ताः विवेकमतयः आसन्, सम्यक् पाकविद्यां च जानन्ति स्म । सामान्यतया जायमानस्य ज्वरस्य, पीनसस्य, अजीर्णस्य, वमनस्य, शरीरवेदनायाः, शिरोवेदनायाः वा औषधं गृहे विद्यमानं शुण्ठीं, मरीचं, हरिद्रां, मधु, घृतं वा आहारपदार्थम् एव उपयुज्य निर्मान्ति स्म पूर्वम् । इदानीं तत्सर्वम् अपि विपरीतं जातम् अस्ति । लघु लघु विषयार्थम् अपि वैद्यान् एव पश्यन्ति, गुलिकाः द्रवरूपम् औषधं वा सेवन्ते । एतत् किमपि शुभलक्षणं न । “भारतस्य आहारसम्पत्तिः विशिष्टा” इति ज्ञानं सर्वेषां भवेत् अस्माकम् ।

गृहे औषधनिर्माणस्य वस्तूनि
"https://sa.wikipedia.org/w/index.php?title=गृहौषधानि&oldid=361219" इत्यस्माद् प्रतिप्राप्तम्