प्रह्लादश्चास्मि दैत्यानां...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
- मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रिंशतितमः(३०) श्लोकः ।
पदच्छेदः
सम्पादयतुप्रह्लादः च अस्मि दैत्यानां कालः कलयताम् अहम् मृगाणां च मृगेन्द्रः अहं वैनतेयः च पक्षिणाम् ॥ ३० ॥
अन्वयः
सम्पादयतुदैत्येषु प्रह्लादः च अस्मि । कलयत्सु अहं कालः । मृगेषु च अहं मृगेन्द्रः । पक्षिषु च वैनतेयः ।
शब्दार्थः
सम्पादयतु- दैत्यानाम् = दानवानाम्
- प्रह्लादः अस्मि = हिरण्यकशिपुपुत्रः अस्मि
- कलयताम् = गणनं कुर्वताम्
- अहं कालः = अहं समयः
- मृगाणां च = जन्तूनाम् अपि
- अहं मृगेन्द्रः = अहं सिंहः
- पक्षिणाम् = खगानाम्
- वैनतेयः च = गरुडः च ।
अर्थः
सम्पादयतुदानवेषु अहं प्रह्लादः अस्मि । गणनं कुर्वत्सु अहं समयः, मृगेषु मृगराजः सिंहः, पक्षिषु पक्षिराजः गरुडश्च अस्मि ।