प्राचीनवानिज्यम्
अर्थानुबन्धः
सम्पादयतु
अर्थम् अनुबध्नाति इति अर्थानुबन्धः । अर्थसंबन्धी विषयः
इत्यर्थः । अर्थसंबन्धिनः विषयाश्चत्वारः अलव्धस्य अर्थत्य लाभः, लब्धस्य
परिरक्षणम् रक्षितस्य विवर्धनम् वृद्धस्य तीर्थेषु प्रतिपादनं चेति । एतेषां
चतुणाम् अनुक्रमः एव अर्थानुबन्धशब्देन व्यवहियते । यः अर्थानुबन्धेन
अर्थम् अनुभवति स एव अर्थस्य भोजनं भवति । तत्र धर्मसंबन्धिनः पुरुषाः
पुरोहितादयः कर्मसंबन्धिनश्च पुरुषाः मन्त्र्यादयः तीर्थशब्देन उच्यन्ते ।
अर्थस्य तीर्थेषु विनियोगानन्तरमेव खप्रयोजनमिति ज्ञातव्यम् । अतिव्ययः ।
अपात्रव्ययथार्थस्य सर्वथा परिहर्तव्यौ ।
अर्थगुणाः
सम्पादयतु
प्राचीनाः अर्थशास्त्रकाराः अर्थगुणान् बहुधा प्रशंसन्ति । सर्वे गुणाः काञ्चनमाश्रयन्ते इति लोकोक्तिः । धनमूलं जगत्, सर्वाणि तत्र सन्ति । धर्मकाम चार्थम् अवलम्बेते । सुखस्य मूलं धर्मः । धर्मस्य मूलं । अर्थः । अथैनैव सिद्धयन्ति सर्व कामाः । 'प्राणयात्रापि लोकस्य विना ह्यर्थं न सिद्धयति' इति महाभारतोक्तिः । यः अर्थवान् स लोके बहमतः । लोके सर्वप्रयोजनसिद्धिः अर्थादेव भवति । यस्यार्थः तस्य मित्राणि विद्या विक्रमः बुद्धिश्च भवन्ति । अथेनेव अर्थार्जनं भवति । गजं प्रयुज्यैव गजे वशीकुर्वन्ति । एवमेव अर्थ प्रयोगेनैव अर्थस्य आर्जनं भवति ।
अर्थदोषाः
सम्पादयतु
अतिव्ययः अपात्रव्ययश्च अर्थत्य दूषणम् । एतादृशेन अर्थदूषणेन
कुबेरोऽपि भवति दरिद्रः । तीर्थानां अर्थेन असंभावनमपि अर्थदूषणं
भवति । अनेन राजा सर्वात्मना विनश्यति । तादाविकमूलहर कदर्येषु
अर्थदोषाः अनिवार्याः । यः न किमपि सन्निनोति परं सर्व प्राप्तम्।
अपव्ययति सः तादाविकः । पितृपैतामहम् अर्थ यः अन्यायेन भक्षयति
सः मूलहरः । यः भृत्यान् आत्मानं च पीडयित्वा सशिनोति सः कदर्यः ।
तादात्विक-मूलहरयोः आयत्यां नास्ति कल्याणम् । कदयस्यार्थसइयरत
यस्य कस्यापि निधिभवति । लञ्चोऽपि अर्थस्य दूषणं भवति । यो हि
सर्वपातकानाम् आगमनद्वारम् ।
कोशवृद्धयुपायाः
सम्पादयतु
विपदि संपदि च राज्ञः तन्त्राभ्युदय कोषयति (संश्लेषयति ।
सः कोशः । स च सर्वदा वर्धनीयः । अर्थशास्त्रकाराः बइन् कोशवृद्धषपा
यान् वदन्ति । देवस्वे धर्मादिकार्येषु परिजनेषु च उपयुज्य शिष्टं द्रव्य
कोशवृद्धपायः भवति । एवमेव ब्राह्मणैः वणिरिभश्च धर्माध्विरपरिजनेभ्यः।
प्रयुज्य यत् शिष्टं द्रव्यं तेनापि कोशवृद्धिः भवति । अत्यविधवा, अधिकारी,
ग्रामकूटम् गणिकासः, पाषण्डी, इत्यादीनां संपदशैः कोशवधनं शकयम् ।।
समृद्धपौरजानपदानां सकाशात् दानरूपेण द्रव्यं संगृह्य कोशं वर्धयितु ।
शक्यते । तथैव समृद्ध मन्त्रिपुरोहितादिभ्यश्च अनुनयेन लब्धं द्रव्यमपि
कोशवर्धनाय योग्यं भवति । एते क्षीणकोशस्य राज्ञः कोशवृद्धपायाः ।
कोशप्रयोजनम्
सम्पादयतु
सम्पदि विपदि च राज्ञः अभ्युदयं साधयति कोशः ।
प्रयोजनं बहुविधं भवति । सैन्यरक्षणं प्रजारक्षणं यज्ञादिधर्मक
सर्वमेव कोशमवलम्बते । स्त्रीपुत्रार्थ खोपभोगाय च से
नरकायैव भवति । सेतुबन्धः वणिक्पथनिमणिः प्रजन
धर्मकामार्थसाधनं चेति कोशादेव प्रवर्तन्ते । अतः के
जीवितम् न प्राणाः । कोशो हि राजेत्युच्यते, न
जारक्षणं यज्ञादिधर्मकार्यनिर्वहण च
पभोगाय च संगृहीतः कोशः
नमणिः प्रजामहः मित्रपरिहः
वन्ति । अतः कोश हि महीपतीन
जयुच्यते, न भूपतीना शरीरम् ।
धनत्रैविध्यम्
सम्पादयतु
शुक्रनीतिसारे धनत्रैविध्यं निरूपितम् । तदनुसारेण नीचं मध्यम
उत्तम चेति धनं त्रिविधं भवति । द्वादशवर्षपर्यन्तं येन भरणं साध्यं भवति
तद्धने नीचसंज्ञकं भवति । षोडशवर्षपर्यन्तं यत् पर्याप्तं तद्धनं मध्यम
स्मृतम् । त्रिंशद्वर्षपर्याप्तं धनम् उत्तममिति कथ्यते । एवं राष्टस्य कोशोऽपि
उत्तममध्यमाधमत्वेन विभज्यते । राज्यस्य कोशमूलत्वात् कोशस्योत्तमत्वं
साधनीयम् । अन्यथाऽपि धनत्रैविध्यं सूचितम् । शत्रु करदीकृत्य सञ्चित
धनं श्रेष्ठम् । वैश्यवृत्तितः सम्पादितं धनं मध्यमम् । सेवया दण्डेन
तीर्थ देवकरग्रहैश्च यदार्जितं तद्धनं नीचम् ।
कोशगुणाः
सम्पादयतु
कोशः बहुगुणः सम्पद्यते । अतिशयेन रत्नहिरण्यरजतप्रायत्वं कोशस्य प्रथमः गुणः । रत्नहिरण्यर जतैः कोशस्य घनिष्ठता वर्धते । व्यवहारे । सिद्धानां नाणकानां बाहुल्य कोशस्य द्वितीयः गुणः । नाणकानां प्राचुर्येण राष्ट्रे सर्वासां वृत्तीनां सौलभ्यं जायते । महतीखपि आपत्सु व्ययसहत्त्वं च तृतीयः गुणः कोशस्य । अयं प्रधानः गुणः । एवंगुणविशिष्टः कोशः राष्ट्रस्याभ्युदयाय कल्पते । यः राजा कोशं वर्धयति तस्य श्रेयांसि बहूनि सम्पद्यन्ते ।