फलकम्:मुख्यपृष्ठं - सुभाषितम्

मार्च् २०२४
शुक्रवासरः
२९
००:०४ UTC
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते

शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥

पञ्चतन्त्रम् २/१५६

सामान्यतः जनाः चिन्तयन्ति यत् जगति दृश्यमानानि वस्तूनि एव लक्ष्यसिद्धौ प्रमुखं पात्रं वहन्ति इति। किन्तु तत् न सत्यम् इति एतैः उदाहरणैः ज्ञायते - सर्पाः वायोः सेवनमात्रेण जीवन्ति चेदपि ते न दुर्बलाः। शुष्कानि तृणानि खादन् गजः अरण्ये अत्यन्तं बलवान् भवति। कन्दमूलानि खादन्तः एव ऋषयः सर्वेषां मार्गदर्शकः सन्तः तिष्ठन्ति। अतः सन्तोषः एव पुरुषस्य परमं धनम् अस्ति न तु अन्यद् किमपि।