बलं बलवतां चाहं...
भगवद्गीतायाः श्लोकः ७.११
श्लोकः
सम्पादयतु- बलं बलवतां चाहं कामरागविवर्जितम् ।
- धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः
सम्पादयतुबलं बलवतां च अहं कामरागविवर्जितम् धर्माविरुद्धः भूतेषु कामः अस्मि भरतर्षभ ॥ ११ ॥
अन्वयः
सम्पादयतुभरतर्षभ, अहं बलवतां कामरागविवर्जितं बलं भूतेषु धर्माविरुद्धः कामः च अस्मि ।
शब्दार्थः
सम्पादयतु- भरतर्षभ = भरतश्रे !
- अहं बलवताम् = अहम् ओजस्विनाम्
- कामरागविवर्जितम् = वस्तुनि अभिलाषः तदाधिक्ये च अभिलाषः ताभ्यां रहितम्
- बलम् = सामर्थ्यम्
- भूतेषु = प्राणिषु
- धर्माविरुद्धः = धर्मानुकूलः
- कामः च = इच्छा च
- अस्मि = भवामि ।
अर्थः
सम्पादयतुभरतश्रे ! अहम् ओजस्विनां तृष्णारागरहितं सामर्थ्यम् अस्मि । प्राणिषु धर्माविरुद्धा इच्छा अस्मि ।