बांसवाडामण्डलम्

(बांसवाडामण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

बांसवाडामण्डलं (हिन्दी: बांसवाड़ा जिला, आङ्ग्ल: Banswara district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति बांसवाडानामकं नगरम् ।

बांसवाडामण्डलम्
मण्डलम्
राजस्थानराज्ये बांसवाडामण्डलम्
राजस्थानराज्ये बांसवाडामण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५,०३७ km
Population
 (२००१)
 • Total १७,९८,१९४
Website http://www.banswara.nic.in

भौगोलिकम् सम्पादयतु

बांसवाडामण्डलस्य विस्तारः ५०३७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे प्रतापगढमण्डलं, मध्यप्रदेशराज्यं च, पश्चिमे अजमेरमण्डलम्, उत्तरे उदयपुरमण्डलं, दक्षिणे गुजरातराज्यम् अस्ति । अस्मिन् मण्डले माही इत्येषा एका एव नदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं बांसवाडामण्डलस्य जनसङ्ख्या १७९८१९४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७९ अस्ति । अत्र साक्षरता ५७.०२ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

वीक्षणीयस्थलानि सम्पादयतु

  • माही जलबन्धः
  • आनन्दसागर झील (बाई तडागः)
  • डाइलाव झील
  • अब्दुल्ला पीर
  • मदारेश्वर

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बांसवाडामण्डलम्&oldid=481680" इत्यस्माद् प्रतिप्राप्तम्