बिजापुरम्
बिजापुरं (Bijapur) कर्णाटकप्रान्ते बिजापुरमण्डले स्तिथं नगरं मण्डलकेन्द्रं च। विजयपुर इति एतस्य नगरस्य पुरातनं नाम ।
बिजापुरम् | |
---|---|
नगरम् | |
गोल् गुम्बज़ | |
राष्ट्रम् | भारतम् |
राज्यम् | कर्णाटकराज्यम् |
मण्डलम् | बिजापुरमण्डलम् |
Elevation | ७७० m |
Population (2011) | ३२६,३६० |
• Density | २६५/km२ |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
पत्रालयकूटसंख्या |
586101-105 |
दूरवणीकूटसंख्या | 08352 |
Vehicle registration | KA-28 |
Website | bijapur.nic.in |
बिजापुरं दक्खनप्रान्तस्य राजधानी आसीत् । दक्षिणभारते बिजापुरनगरे अनेकवर्षाणि यावत् आदिलशाहीवंशीयाः प्रशासनं कृतवन्तः । बिजापुरनगरस्य विजापुरम् इत्यपि अपरं नाम अस्ति। । एतत् नगरं कर्णाटके उत्तरभागे अस्ति (मुम्बयीतः ३०० मैलदूरे) । कर्नाटकस्य प्रमुखमण्डलेषु बिजापुरमण्डलम् अपि अन्यतमम् । १६ शतके आदिल् शाहिसाम्राज्यस्य राजधानी आसीत् । युसुफ आदिलशाहः बिजापुरप्रदेशं स्वतन्त्रराज्यत्वेन परिकल्पितवान् आसीत् । पूर्वं बिजापुरनगरम् एकः ग्रामः आसीत् । अनन्तरं केचन राजानः एतं ग्रामं नगररूपेण परिवर्तितवन्तः । केचन बिजापुरं तेषां राजधानीम् अकुर्वन् । एतत् नगरं कला- साहित्य- सङ्गीत- वास्तुशिल्पेषु च प्रसिद्धमस्ति । बिजापुरं क्रि.श ५४० तः शतकत्रयं यावत् बादामीचालुक्यमहाराजानां शासने आसीत् । अग्रे क्रि.श. १४८९ तः १६८६ पर्यन्तं सामन्यतः २००वर्षाणि यावत् आदिलशाहिवंशस्थाः अपालयन् । अस्मिन् मण्डले अनेकानि प्रेक्षणीयस्थानानि सन्ति ।
बिजापुरनगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति। १६५६ तमे वर्षे एतस्य निर्माणं समाप्तम् । गुम्बज़स्य अन्तर्भित्तिः सूक्ष्मस्य अपि शब्दस्य प्रतिध्वनिम् उत्पादयति । वयं भित्तिसमीपं गत्वा शनैः वदामः चेत सः ध्वनिः पुरतः विद्यमानायाः भित्तितः प्रतिध्वनिता भवति । तथैव बहुवारं प्रतिध्वनेः आवर्तनमपि श्रूयते । तस्मिन् काले अपि एतादृशं तन्त्रज्ञानं ज्ञातवन्तः तन्त्रज्ञाः आसन् इति आश्चर्यस्य विषयः । भारतस्य वास्तुशिल्पेतिहासे एतत् गोलगुम्बज़ महत्या कल्पनया निर्मितं चिरात् विन्यस्तं च । अतः एव एतत् विश्वस्य प्रमुखाद्भुतेषु अन्यतमम् इति प्रख्यातम् ।
पूर्वं द्वितीयः इब्राहीम् आदिलशाहिमहाराजः पालयति स्म । तस्य कालः क्रि. १५८० तः १६२६ वर्षपर्यन्तम् । एषः पत्न्याः ताजबेगम् इत्यस्याः नाम्ना बृहत् भवनं निर्मितवान् आसीत् । इब्राहिं रोजा इति तस्य भवनस्य नाम। तत् भवनम् सुन्दरं वैभवोपेतं च इति प्रसिद्धम् । क्रिस्ताब्दे १६२६ तमे वर्षे अयं स्मारकः निर्मितः । इस्लामिक् शैल्या निर्मितम् अस्ति । अत्र रचनाद्वयम् अस्ति । एकम् मस्जिद् (प्रार्थनामन्दिरम्) द्वितीयं स्मारकम् । एतादृशः परिपूर्णः रचनाविन्यासः देशे वा इतिहासे वा अन्यत्र द्रष्टुं न शक्यम् । यदि एतत् भवनम् अमृतशिलया निर्मितं स्यात् तर्हि ताजमहलम् अतिशेते स्म ।
वास्तुरचनाद्वम् अपि ३६० पादमितदीर्घतायुक्तं १५० पादमितविस्तारयुक्तं च । भवनानि अर्धगोलाच्छादकानि सुन्दराणि सन्ति । वक्रभित्तीनां पाङ्क्तिः सर्वत्र स्तम्भागोपुराणि च सन्ति । अन्तर्भागे भित्तिषु इस्लामिक् शैल्या कुरान् ग्रन्थः लिखितः अस्ति ।
मल्लिकरोण्डाल् एतत् वास्तुशिल्पं कृतवान् । हेन्री कसिन्स् ‘उत्तरभारते यथा ताजमहल् अस्ति तथा दक्षिणभारते इब्राहिम रोजा अस्ति’ इति उक्तवान् । श्री फर्ग्यूसन् ‘स्वर्गोऽपि एतदृष्ट्वा द्वितीयः स्वर्गः उत्तिष्ठन् अस्ति इति आश्चर्यचकितः अभवत्’ इत्युक्तवान् ।
रोजा भवनसमुच्चछयनिर्माता द्वितीयः इब्राहिम् आदिलशाहस्य पुत्रः महम्मद् अदिलशाहः। महम्मद् आदिलशाहेन स्वस्य समाधिनिमित्तं निर्मितं भवनमेव ‘गोलगुम्बज़ ’ । आदिलशाहस्य कालः १६२६तः-१६५६ पर्यन्तम्। बृहत् गात्रयुतस्य एतस्य गोलगुम्बज़स्य औन्नत्यं २०५ पादमितम् अस्ति । २०५ पादमितं दीर्घमस्ति । गुम्बज़स्य अन्तर्भागः १३५ पादमितः दीर्घः, १७८ पादमितः उन्नतः अस्ति । भवनस्य अन्तर्व्यासः १४४ पादमितः अस्ति । भवनस्य भित्तिः १० पादमिता स्थूला अस्ति । मुख्यगोपुरं विकसति कमलपुष्पे स्थितम् इव अस्ति । एकस्य कमलदलस्य दैर्ध्यं सामान्यतया १२ पादमितमस्ति ।
बिजापुरनगरस्य समीपे शिवगिरिस्थले ९५ पादपरिमितोन्नता शिवमूर्तिः अस्ति । शिवरात्रिसमये विशेषः उत्सवः अत्र भवति । बिजापुरनगरे जैनानां सहस्रफणिपार्श्वनाथमन्दिरं ३५०० वर्षप्राचीनम् अस्ति । सहस्रशीर्षवान् नागराजः पार्श्वनाथमूर्तेः उपरि अस्ति ।
चारित्रिकघटनाः
सम्पादयतु- 1650 - विश्वप्रख्यातस्य 'गोलगुम्बज'भवनस्य निर्माणम् ।
- 1884 - रैल्-यानस्य प्रचालनम् ।