बिन्दुसारः
{[infobox settlement |name = राज्य्म् |image_skyline =Casa de los Navajas (16115665146).jpg |image_caption =राज्यम् }}
बिन्दुसारः | ||||||||||
राज्यम् | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
| ||||||||||
वंशः | ||||||||||
| ||||||||||
परिवारः | ||||||||||
|
बिन्दुसारः द्वितीयः मौर्यसम्राट् आसीत्। (जन्म:३२०क्रि पू , राज्यकालम्ः२९८-२७२क्रि पू)। सः चन्द्रगुप्तमौर्यस्य पुत्रः आसीत्। तस्य द्वौ पुत्रौ आस्ताम्। तौ सुसीमः अशोकः च। अशोकः उज्जयिन्याः प्रशासकः, सुसीमः तक्षशीलायाः प्रशासकः च आस्ताम्। सः अमित्रघातकः अजातशत्रुः इत्यादीनि अभिधानानि अलभत। यवनाः तम् "amitrochates" वा "allitrochates" इति अकथयन्।
चरितम्संपादित करें
तस्य जननात् प्राक् तस्य माता अज्ञानेन विषकरभोजनं खादितवती। अतः तम् रक्षितुम् चाणक्येन तस्याः गर्भ: कर्तितव्य: आपतित:। तदा रक्तबिन्दवः भूमौ पतिताः। अतः एव तस्य नाम बिन्दुसारः।
सः पितुः मरणानन्तरं विशालं राज्यं लब्धवान्। अस्मिन् पश्चिमभारतम् उत्तरभारतं पुर्वभारतं दक्षिणभारतस्य केचन देशाः च अन्तर्भूताः। सः दक्षिणभारते षोडश राज्यान् जितवान्। तस्य साम्राज्ये चोळपाण्ड्यचेरकलिङ्गदेशान् विहाय समस्तभारतम् अन्तर्भूतम्। चाणक्यः एव तस्य मुख्यमन्त्री अवर्तत।
अनेके यवनराजाः तस्य मित्राणि आसन्। सेल्युकस् साम्राज्यात् दैमाकस् नामकः तस्य सभाम् अभ्यागतरूपेण आगतवान्।
आसक्तयःसंपादित करें
सः आजीविकः आसीत्। तस्य विविधाः आसक्तयः आसन्। अंतियोक नामक: यवनराज: बिन्दुसारं वटफलानि मधुरमदिराम् एकं तत्वज्ञानिनं च दातुम् अपृच्छत्।