बीरभूममण्डलम्
बीरभूम(Birbhum,बङ्गला-বীরভূম জেলা)) इति भारतवर्षस्य पश्चिमबङ्गराज्यस्य एकं प्रशासनिकमण्डलम् । अस्य मण्डलस्य केन्द्रनगरं सिउरि ।
बीरभूममण्डलम् | |
---|---|
मण्डलम् | |
देशः | भारतम् |
राज्यम् | पश्चिमबङ्गराज्यम् |
प्रशासनिकविभागः | बर्धमान |
केन्द्रनगरम् | सिउरि, बीरभूम |
Area | |
• Total | ४,५४५ km२ |
Population (2011) | |
• Total | ३,५०२,३८७ |
• Density | ७७१/km२ |
Time zone | UTC+५:३० (भारतीय-मान-समयः) |
लोकसभाकेन्द्राणि | बीरभूम, बोलपुर, |
Website | http://www.birbhum.nic.in/ |
भौगोलिकम्
सम्पादयतुबीरभूम-मण्डलस्य विस्तारः ४५४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य जनपदम् परितः मुर्शिदाबादजनपदम्, बर्धमानजनपदम्, झारखण्डराज्यम् च अस्ति। अस्मिन् मण्डले १३०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अजया, मयूराक्षि, कोपाइ, बकरेश्वर, ब्रह्मानि, इत्यादि नद्यः प्रवहन्ति ।
जनसङ्ख्या
सम्पादयतु२००१ जनगणनानुगुणम् बीरभूम-मण्डलस्य जनसङ्ख्या ३५०२३८७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ७७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ७७१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.१५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५६ अस्ति । अत्र साक्षरता ७०.९% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-
१.सुरी
वीक्षणीयस्थलानि
सम्पादयतुऔरङ्गाबादमण्डले इदं प्रसिद्धं वीक्षणीयस्थलं शान्तिनिकेतन्, पण्ड्डराजस्य डिबि च अस्ति ।
नामौचित्यम्
सम्पादयतुवीरभूमिः इति संस्कृतशब्दात् प्रादेशिकबीरभूमशब्दस्य निष्पत्तिः । अत्र "वीरः" नाम जैनतीर्थङ्करमहावीरः, तस्य भूमिः वीरभूमिः इति । जैनागमग्रन्थः आचारङ्गसंहितायां महावीरस्य "राढभूमिभ्रमणं"(बीरभूमप्रदेशस्य पूर्वनाम) वर्णितम् अस्ति । भिन्नमतानुसारम्, अत्र राजत्वकारी वीरराजवंशस्य नामानुसारेण मण्डलस्य नामकरणम् अभवत् इति । तथा सन्थालीभाषायां 'बीर'शब्दस्य अर्थः अरण्यमिति । तदनुसृत्य बीरभूमिः नाम अरण्यभूमिः इति सिद्ध्यति ।
वैशिष्ट्यम्
सम्पादयतुबीरभूममण्डलं सांस्कृतिक-ऐतिह्यस्वातन्त्र्यात् समग्रपश्चिमबङ्गे विशिष्टस्थानं भजते । बीरभूममण्डलस्य पश्चिमभागः अरण्यमयः । तथा पूर्वदिशि पललसमृद्धम् उर्वरकृषिक्षेत्रम् अस्ति । मण्डलमिदम् सांस्कृतिक-धार्मिकभावस्य पीठभूमिः । विश्वकविरवीन्द्रनाथेन प्रतिष्ठितः विश्वभारती विश्वविद्यालयः अन्ताराष्ट्रियख्यातिसम्पन्नः विश्वविद्यालयः अत्रैव वर्तते । सुसम्मृद्धे अस्मिन् मण्डले पौषोत्सवः वैभवेन आचर्यते ।
अवस्थानम्
सम्पादयतु- बीरभूममण्डलस्य अवस्थानम्-
- उत्तर अक्षांशः २३° ३२'३०" - २४° ३५' ०" (कर्कटक्रान्तिरेखा) तथा पूर्वरेखांशः ८७°५'४५" -८८° १' ४०"
- आयतनम्- ४५४५ वर्ग कि मी
- पूर्वदिक्- मुर्शिदाबादमण्डलम् ।
- पश्चिमदिक्-जामताड़ामण्डलम्, झारखण्डराज्यम् ।
- उत्तरदिक्- पाकुड़मण्डलम्, झारखण्डराज्यम्
- दक्षिणदिक्-बर्धमानमण्डलम् ।
बीरभूममण्डलस्य पश्चिमांशः पुराकाले वज्रभूमिः अथवा वज्जभूमिः (प्राकृतरूपम्) नाम्ना ख्यातः आसीत् । प्रान्तेऽस्मिन् ऊषरतरङ्गायितोच्चभूमिः वर्तते । परन्तु मण्डलस्य पूर्वांशः तु उर्वरतरः । राढप्रदेशस्य उत्तर-पूर्वदिशि अवस्थितस्य अस्य मण्डलस्य पूर्वांशः गाङ्गेयसमभूमौ अन्तर्भवति ।
वातावरणम्
सम्पादयतुबीरभूममण्डलस्य वातावरणं शुष्क-चरमभावापन्नं च । पूर्वांशस्य वातावरणं मृदुः । सामान्यतः ग्रीष्मकाले ४०º सेण्टिग्रेड्परिमितं तथा शिशिरकाले १०º सेन्टिग्रेड्परिमितं तापमानम् अत्र भवति । वार्षिकवृष्टेः परिमाणम् - १४०५ -१२१२ मिलिमिटर्-परिमितम् ।
नद-नद्याः
सम्पादयतुबीरभूममण्डले बहुनद-नद्याः प्रवहन्ति । तासु अजयः, मयूराक्षी(मोर), कोपाइ, वक्रेश्वरः, ब्राह्मणी, द्वारका, हिंलो, बांशलै इत्याद्याः उल्लेखयोग्याः ।
इतिहासः
सम्पादयतुप्राचीनयुगः
सम्पादयतुबीरभूममण्डले प्रत्नस्थलानि बहुत्र दृश्यन्ते, यथा- आउसप्रदेशस्य पाण्डुराज्ञः स्तूपादयः (बाङ्गला- আউসগ্রামের পাণ্ডুরাজার ঢিবি) ताम्रप्रस्तरयुगस्य निदर्शनानि । आचाराङ्गसूत्रम् इति जैनागमग्रन्थानुसारं सर्वशेषतीर्थङ्करः महावीरः अत्र आगतवान् । क्रैस्तपूर्वपञ्चमशतके अस्य प्रान्तस्य नाम लाढदेशः आसीत् । दिव्यावदानम् इति बौद्धग्रन्थम् आधारीकृत्य डां अतुल सुर् प्रतिपादितवान् यत्- भगवान् गौतमबुद्धः अत्र धर्मप्रचारं कृतवान् इति ।
मध्ययुगः
सम्पादयतुबीरभूममण्डले क्रैस्तवीय त्रयोदशशतके मुस्लिमशासनम् आसीत् । तथापि मुस्लिमशासनं सम्पूर्णमण्डले नासीत्(पश्चिमांशे केवलम्) । वस्तुतः प्रान्तोऽयं वीरः इति स्थानीयहिन्दूराजवंशेन शासितासीत् । तेषां राजत्वस्य ध्वंसावशेषाः हेतमपुरे, वीरसिंहपुरे तथा राजनगरे इदानीमपि सन्ति । पौराणिकविवरणानुसारं वज्जभूमिः वा वज्रभूमिः(पश्चिमबीरभूम) हिन्दूतान्त्रिकक्रियायाः पीठभूमिः आसीत् । ऐतिहासिकस्य डां अतुल सुर्-महोदयस्य मतानुसारं वज्रभूमेः जनवसतिविरलता धर्मीय-आचारानुष्ठानादि पालने अनुकूला आसीत् । तान्त्रिकपरिप्रेक्षितेन बहुग्रन्थकारेण कामकोटी इति अविधया मण्डलमिदं वर्णितमस्ति । शाक्त-बौद्धतान्त्रिकाः तन्त्रसाधनार्थमत्र बहुमन्दिराणि निर्मितवन्तः। अष्टादशशक्तिपीठेषु अन्यतमं तारापीठम् अत्रैव अस्ति ।
आधुनिकयुगः
सम्पादयतु१७८७ तमे वर्षे इस्ट् इन्डिया संस्थायाः शासने बीरभूम नामकस्य अस्य प्रशासनिकमण्डलस्य निर्माणम् अभवत् । पुराकाले प्रान्तोऽयं मुर्शिदाबादमण्डलस्य अंशः आसीत् । नवनिर्मितबीरभूममण्डलं वर्तमानस्वरूपतः बृहदासीत् । १७९३ वर्षपर्यन्तं विष्णुपुरं(वर्तमाने वांकुडामण्डलम्) बीरभूममण्डले आसीत् । १८५७ तमे वर्षे सेनाविद्रोहसमये अस्य मण्डलस्य विस्तृतिः देवघरपर्यन्तम् आसीत् । १८५५ वर्षे अविभक्तबीरभूममण्डले सन्थालिविद्रोहात् आदिवासिभिः अध्युषितस्य पश्चिमप्रान्तस्य विभाजनस्य आशुप्रयोजनम् सर्वकारेण अनुभूतमासीत् । तदर्थं कर्तृपक्षेण विद्रोहदमनानन्तरं मण्डलस्य विभाजनमपि कृतमासीत् । इदानीमपि बीरभूममण्डले सन्थालिविद्रोहस्य सिधु-कान्हु इति वीरनायकयोः विजयदिवसरूपेण संपाल्य स्मृतिचारणां जनाः कुर्वन्ति ।