बुद्धेर्भेदं धृतेश्चैव...


श्लोकः सम्पादयतु

 
गीतोपदेशः
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवविंसशतितमः(२९) श्लोकः ।

पदच्छेदः सम्पादयतु

बुद्धेः भेदं धृतेः च एव गुणतः त्रिविधं शृणु प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥

अन्वयः सम्पादयतु

धनञ्जय ! गुणतः त्रिविधं बुद्धेः धृतेः च एव भेदं पृथक्त्वेन अशेषेण प्रोच्यमानं शृणु ।

शब्दार्थः सम्पादयतु

धनञ्जय = अर्जुन !
गुणतः = गुणानुसारेण
बुद्धेः = धियः
धृतेः = धैर्यस्य
भेदम् = विभागम्
पृथक्त्वेन = विभागेन
अशेषेण = समग्रम्
प्रोच्यमानम् = कथ्यमानम् ।

अर्थः सम्पादयतु

अर्जुन ! एवं ज्ञानकर्मकर्तॄणां त्रैविध्यं प्रदर्शितम् । अधुना बुद्धेः धृतेश्च तत्कृतं भेदम् अशेषं गुणदोषनिरूपणसहितं विवृणोमि । तदाकर्णय ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु