बृहत्कथामञ्जरीति नामधेयमेवास्य ग्रन्थस्य बृहत्कथासङ्क्षेपरुपत्वं गमयति । क्षेमेन्द्रस्य रामायणकथामञ्जरी, भारतमञ्जरी चेति ग्रन्थद्वयं प्रसिध्दं तयोरध्ययनेन सिध्दमिदं तत् क्षेमेन्द्रो मूलोक्तकथां रक्षन् ग्रन्थं संक्षिपति । संक्षेपकरणादेवास्य ग्रन्थाः क्वचित् शुष्का निष्प्राणाश्च जायन्ते । इमाः मञ्जर्योऽस्य प्राथमिककृतयः । बृहत्कथामञ्जरी १०६३ तमेशवीयवर्षे प्रारब्धा १०६६ तमेशवीयवर्षे निर्माय समापिता च ।

वर्णनीयवस्तुदृष्ट्या बृहत्कथामञ्जरी कथासरित्सागरमनुकरोति, परमाकारे महदन्तरम् । यत्र कथासरित्सागरे २१३८८ श्लोकास्तत्र बृहत्कथामञ्जर्या केवलम् ७५०० श्लोकाः ।[१]

आधाराः सम्पादयतु

  1. संस्कृतसाहित्येतिहासः. तिरुपति, भारतम् ।: राष्ट्रीयसंस्कृतविद्यापीठम् ।. 
"https://sa.wikipedia.org/w/index.php?title=बृहत्कथामञ्जरी&oldid=404222" इत्यस्माद् प्रतिप्राप्तम्