बेट्मिन्टन्-क्रीडा

(बैडमिण्टन् इत्यस्मात् पुनर्निर्दिष्टम्)

चटकिकाताडनजालिकाक्रीडा(BADMINTON) तुमुलरवक्रीडा(Racket/Racquet sport) वर्तते ।

शटल्-बाड्मिण्टन्
कश्यप्
नियामकगणः

विश्व-बैड्मिण्टन्-संस्था

Badminton World Federation
प्रथमक्रीडा सप्तदशशताब्दी
वैशिष्ट्यसमूहः
सम्पर्कः नास्ति
गणसदस्याः एकाकी अथवा युगलम्
वर्गीकरणम् रैकेट् क्रीडा
उपकरणम् शटल्-काक्
उपस्थितिः
ओलिम्पिक् १९९२–अविद्यत
शटल्-बाड्मिण्टन्, बाल्-बाड्मिण्टन्

प्रकारः सम्पादयतु

बाड्मिण्टन्-क्रीडा द्विप्रकारकौ स्तः ।
१ शटल्-बाड्मिण्टन्
२ बाल्-बाड्मिण्टन्

१ शटल्-बाड्मिण्टन् सम्पादयतु

ऐतिहासिकी पृष्ठभूमिः सम्पादयतु

क्रिकेटवदेव चटकिका-ताडन-जालिका -(बैडमिण्टन )क्रीडाऽपि प्रथममिंग्लैण्डवासिन एव क्रीडन्ति स्म । २०० वर्षेभ्यः पूर्वं येन रुपेणेयं क्रीडयते स्म ततोऽस्याः साम्प्रतिकं रुपं पूर्णतया भिन्नं विद्यते । पूर्वं द्वौ क्रीडकौ कियति चिदेकस्मिन् नियतेऽन्तराले स्थित्वा क्रीडाचटकिकामेकया ताडन-जालिकया सन्ताड्यैकोऽपरस्य निकटे प्रेषयति स्म तथा तां यथाशक्ति भूमौ नावपातयन्ति स्म ।

ईशवीय १८७० तमे वत्सरे क्रीडाङ्गणस्य मध्यभागे जालिकां बदध्वा वर्तमानरुपेण् 'ग्लोसेस्टर-शायर' स्य 'बैडमिण्ट्न' -क्रीडाप्रकोष्ठे क्रीडिता तदन्तरमेवास्याः क्रीडाया अभिधानं 'बैडमिण्टन' इति प्रवृत्तम् ।

केचन विशेषज्ञा एवमपि कथयन्ति यद इयं क्रीडा सर्वप्रथमं भारत एव क्रीडिता, परं भारतेऽस्या आरम्भः १८७३ तमे वत्सरेऽभूत् । आत्राङ्ग्लानां सेनाया अधिकारिण इमामारभन्त् तथा सन् १८७७ वत्सरेऽस्या नियमाः सर्वप्रथमं करांचीनगर्थां कर्नल एच.ओ.सेल्वी -महोदयेन प्रकाशितास्ततः परं च त एव नियमा इंग्लैण्डेऽपि प्रकाशिताः ।

क्रीडाङ्गणं तदायतिविस्तारादयश्च सम्पादयतु

(क) क्रीडाङ्गणम् -बैडमिण्टन-क्रीडायाः स्थलं ४४ फुटमितमायतं २० फुटमितं च विस्तृतं भवति । यस्य केन्द्र पञ्चफुटोन्नतैका जालिका निबद्धयते । उभयतः सामान्य-समारम्भ-पङिक्तर्जालिकातः ६ फुट ६ इञ्चमिते दूरभागे समाकृष्यते । तस्याः पृष्ठे प्रलम्ब-समारम्भ -(लांग सर्विस ) रेखा १३ फुटमितेनान्तरालेनाकृष्यते तथा तस्याः समानान्तरमेवैका २ फुट ६ इञ्चदूरे एककानां कृते पृष्ठसीमेरेखा (बैकबाउण्ड्री लाइन्)दीयते । सामान्यारम्भ-रेखातः पृष्ठसीमरेखा पर्यन्तमेका मध्यरेखाऽपि विधीयते या क्रीडास्थलं द्विधा विभनक्ति । तच्च क्षेत्र वाम-दक्षक्षेत्रनाम्ना स्मर्यते । युग्मक-क्रीडार्थं १ फुट ६ इञ्चविस्तृता क्षेत्रस्यान्तर्भागे एकैका रेखा उभयतो दियते या युग्मके समुपयुज्यते ।

अस्याः क्रीडाया भूभागः प्रायेण काष्ठ्स्यैव भवति परं भारते यत्रयं क्रीडा विमुक्ते स्थले भवति तत्र समतला भूमिस्तथा विधीयते यस्यां क्रीडका न परिस्खलेयुः । क्रीडाङ्गणस्य वर्णो दिप्तीमान भवेद् यतश्चटकिका (शटाल) या वर्णः श्वेतो भवति । क्षेत्रस्य रेखा १ १/२ इञ्चमिता विस्तृताः कर्तव्यास्तथा केनापि दीप्तिमता वर्णेन कृष्टाः स्युः ।

(ख) जालिका (नेट)

जालिकाया आयतिः २० फुटामिता क्रियते तथोभयतः पार्श्वरेखयोः ५ फुट ३ इञ्च-प्रलम्बौ स्तम्भौ निखन्येते ययोर्जालिका वद्धयते । जालिका भूमेः २ १/२ फुटमितोन्नता भवति । अस्या विस्तारः २ १/२ फुट क्रियते । यदीयं कस्मिंश्चित् क्रीडा -प्रकोष्ठे क्रीडनाय बद्धयते तदा १ इञ्चमितैर्दण्डैर्भितौनियम्यते । दण्डयोर्भूमेरुच्चता ५ फुट १ इञ्चमिता कर्तव्या । उपरितने भागे १ १/२ इञ्चमिता सूत्रपट्टिका भवति ।

२ क्रीडोपकरणयुगलम् सम्पादयतु

(क) ताडन -जालिका 'रेकेट्’ -बैडमिण्ट्नस्य ताड्नजालिका 'रैकेट' इति कथ्यते । अस्या आकार् -प्रकारादयो लान -टेनिसस्य रैकेटवदेव भवन्ति । अतस्तद्विषये यत्सूचितमस्ति तदेवात्रापि ज्ञेयम् ।
(ख) चटकिका (शटल अथवा शटला -कौक)-चटकिकाऽतिवस्वल्पभारवती भवति तथा ताडान -जालिकायाः स्पर्शमात्रेणोच्छलति । अस्या भारः ७५ ग्रेन तः ८५ ग्रेनमितो भवति । कलहंसस्य लघुतमान षोडश पक्षान 'कार्क’स्य ख्ण्डे संयोज्य कार्कस्थलावधि चर्मण् आवरणं कृत्वा, पक्षाणां विस्तृत -भागस्य समीप एकेन सूत्रेणा बदध्वा तस्या आकृतिः कोणाकारा विधीयते । अधोभागादस्या व्यासः १ इञ्चत १ १/८ इञ्चमितस्तथा पक्षाणां विस्तृतांशात् कार्कस्य दूरता १ १/२ तः स २ १/२ इञ्चपर्यन्ता भवति । उपरितनभागस्य व्यासः २ १/२ इञ्चमितः स्वीक्रीयते । साम्प्रतं प्लास्टिकनिर्मिताः पक्षा अपि लभ्यन्ते । कन्दुकस्थाने इयमेव चटकिकाऽत्र प्रयुज्यते । हिन्द्यां 'चिडी-छिक्का’ इति कथ्यते ।

क्रीडकाः क्रीडाविधयश्च सम्पादयतु

१- क्रीडकाः -

अस्यां क्रीडायां सर्वविधस्यायुषो बाला युवका वृद्धा बालिका युवत्यो वृद्धाः स्वेच्छया सारल्येन भागं गृहीतुं प्रभवन्ति । अस्यां द्वौ क्रीडकौ चत्वारो वा मिश्रिताः क्रीडकाः क्रीडन्ति परं 'युग्मक-क्रीडा’ (डबल्स गेम) बहु प्रसिद्धा लोकप्रिय चाऽस्ति ।

२- क्रीडा-विधयः -
(क) क्रीडारम्भः -अन्यासां क्रीडानामिवास्यामपि मुद्रोत्क्षेपण-विधिर्भवति परं तत्रारम्भस्य ताडन-जालिकाया उच्छालन-द्वारा निर्णयो भवति । क्रीडारम्भात् पूर्वमेकतमभागस्य द्वयोः क्रीडार्थिनोरेकतमस्ताडन -जालिकामुच्छालयति तस्याः पतने सति स्नायु -गुम्फितो भागोऽथवा हस्तग्रहणाभागो नीचैरागच्छति । येन क्रीडकेन यस्यै भागाय पणः कृतो भवति तथा तस्मिन् विजयी भवति । स प्रथमं क्रीडारम्भेऽथवा यस्मिन् क्रीडाक्षेत्रे स स्व-यौक्तिकैः सह क्रीडितुं वाञ्छति, क्रीडामाराभते । एतद्विषयको निर्णयस्तस्यैव पक्षेऽस्ति ।

क्रीडारम्भण (सर्विस) स्यान्ये नियमाः प्रायः सर्वेऽपि पूर्ववदेव सन्ति । निर्णायकस्य सम्मानेन सह नियमानां पालनं कुर्वन् क्रीडकः प्रतियोगितायां विजयते ।

(ख) अन्ये विधयो नियमाश्च -

यथा पूर्वं टैनिस-क्रीडायां क्रीडन-विधयस्तेषां नियमाश्च प्रदर्शिताः सन्ति प्रायस्त एवास्यां क्रीडायामपि प्रयुज्यन्ते पाल्यन्ते च । अन्यद विशिष्य ज्ञानाय तत्रैवावलोकनीयम् । 'एकल-क्रीडाऽपि’ पूर्ववदेव ज्ञेया । विशिष्टाः शब्दा निर्देशाश्चापि पूर्वोक्ता एव सन्ति । अतः

शटल्-बाड्मिण्टन्-सम्बद्धः श्लोकः सम्पादयतु

नीत्वा ताडनजालिकाचटकिकाः क्रीडाङ्गणे यत्नतः
क्रीडार्थं समुपस्थिताविह मिथः क्रीडार्थिनौ क्रीडतः ।
यद्वा युग्मक -खेलने प्रतिदिनं क्रीडन्त्यहो ! क्रीडकाः
सैषा राजति "बैडमिण्टन्"-कला लोकप्रित्यवं श्रिता ॥
या पूर्वं नृपतिप्रियाऽथ धनिनां क्रीडेति सङ्कीर्तिता,
यस्यां सर्ववयोमयो जनगणः सौख्येन खेलां व्यधात् ।
गेहस्थे विशेदऽङ्गणे रुचिमति क्षेत्रे च या क्रीडयते,
तां क्रीडामिह "बैडमिण्ट्न" -मिति प्रख्यां मुद्रा क्रीडत ॥

२ बाल्-बाड्मिण्टन् सम्पादयतु

बाल्-बाड्मिण्टन्-क्रीडा भारतदेशे प्रसिद्धं वर्तते । एषा क्रीडा अपि शटल्-बाड्मिण्टन् इव भवति । परन्तु अत्र शटल्-काक् स्थाने पीत-कन्दुकस्य उपयोगः भवति । १८५६ तमस्य वर्षस्य आरम्भसमये राजपरिवारजनाः तमिऴनाडुराज्यस्य तञ्जावूरु नगरे एनां क्रीडां क्रीडति स्म । एषा बाह्याङ्गणक्रीडा वर्तते । कर्णाटकराज्ये, तमिऴनाडुराज्ये, आन्ध्रप्रदेशराज्ये, पुदुचेरी नगरे च अस्याः क्रीडायाः फ्लड्-लैट् स्पर्धाः भवन्ति ।

इतिहासः सम्पादयतु

बाल्-बाड्मिण्टन्-क्रीडा तमिऴनाडुराज्यस्य तञ्जावूरु प्रदेशे आरब्धम् । अस्याः क्रीडायाः विषये तञ्जावूरु माहाराज्ञः आसक्तिः अधिका आसीत् । अतः अस्मिन् प्रदेशे एषा क्रीडा बहु प्रसिद्धा अभवत् । १९५४ तमे वर्षे बाल्-बाड्मिण्टन्-क्रीडायाः सङ्घः आरब्धः ।

आधारः सम्पादयतु

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तवः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बेट्मिन्टन्-क्रीडा&oldid=480675" इत्यस्माद् प्रतिप्राप्तम्