प्रमुखा विकल्पसूचिः उद्घाट्यताम्

बोडो भाषा उत मैक भाषा सिनोतिब्बेतियभाषा इत्यपि उच्यते| इयं च भाषा मुख्यरूपेण उत्तरपूर्वभारते नेपाले तथा च बंगालप्रदेशस्य बोडोजनानां चीन-तिब्बतीभाषा वर्तते| यत् बोडोलैंडस्वायत्तक्षेत्रस्य आधिकारिकी भाषात्वेन परिगण्यते| इयं भाषा असमप्रदेशस्य प्रादेशिकभाषा एवं भारतदेशस्य सहसर्वरिकारिया भाषात्वेन उच्यते| या च भाषा २२ अनुसुचितभाषासु एका सांविधानिकभाषात्वेन विद्यते यत् एकं विशेषस्थानं प्राप्तमस्ति| १९६३ संवसतसरादारभ्य देवनागरीलिपेः उपयोगः कृत्वा बोडीभाषा लिखितमस्ति| या च लाटिनभाषा एवं असमियालिपेः प्रयोगं कृत्वा लिखितमासीत् यत् केचन विद्वांसः परामर्शः अददन् यत् एषा भाषा लुप्ता जाता दैधोईवत्|

इतिहासः एवं भाषावर्गीकरणम्- बोडोभाषा बोडोसमूहस्य एका चीनी-तिब्बतीभाषा भवति या दीमासभाषा-चुटियाभाषा-देउरीभाषा-तिवभाषा-असमप्रदेशस्य भाषा तथा च मेघालयस्य गारो भाषा एवं त्रिपुराप्रदेशस्य क्कबरोकभाषाणां बहु निकटतरभाषायाः सम्बन्धः वर्तते| पश्चिमधुबरीतः असमखण्डपर्यन्तं उच्यमानक्षेत्रम् एवं पूर्वे साडियापर्यन्तम् अस्ति| अलीपपुरद्वार-कुचबिहार- एवं जलापाईगुडी एवं बंगालप्रदेशस्य अन्यजिल्लयां मेकः इत्युच्यते| १९९१ तमे वर्षे जनगणतिवृतान्तानुसारं बोरोप्रदेशस्य जनसंख्या १,९८४५६९ आसीत्| तत्र बोडॉजनानां १३२४७४८ एवं मेकजनानां ६५,९,८२१ इत्यादि| बोडोजनजातिवृतान्तानुसारं मेकजनजातिं त्यक्त्वा केवलं बोडस एव समावेशः वर्तते| बोडोभाषा तथा क तेषां समुदायं तस्मिन् क्षेत्रे मुख्यतया त्रिधा विभक्तमस्ति| १- पश्चिमबोडोबोली २- पूर्वबोडोबोली ३- दक्षिणबोडोबोलीपश्चिमबोडोबोल्यः कोकरझार-चिरांग-बक्सा एवं बोंगाईग्रामजिल्लायां उच्यमाना इयं भाषा| एवं च पूर्वीबोडोबोली मुख्यरूपेण बारपेटा, नलबारी एवं कामरूप एवं च दर्रंग इत्यादिस्थलेषु किंचित् रूपेण प्राप्यते| उल्लिखितं यत् पश्चिमबोडोबोली एव मानकबोलीरूपेण स्थानं प्राप्ता अस्ति एवं च एतत् एकं लिखितरूपेण अपि विकसितं कृतमस्ति| एतत् उभयबोलीसमूहस्य भिन्नतां मुख्यरूपेण ध्वनिसम्बन्धी वाक्छुशी इत्युच्यते| विश्वविद्यालयानुदानायोगेन युपिएससी नेटपरीक्षा मध्ये बोडोभाषाम् अन्तर्गतत्वेन स्वीकृतमस्ति|

इतिहासः १९१३ तमे वर्षे संगठनद्वारा या सामाजिक- राजनीतिकजागृतिः आरम्भा तदा अभियानस्यानन्तरं भाषां प्रभावितबोडोप्रान्ते प्राथमिकविद्यालयेषु शिक्षारूपेण उपास्थापितवन्तः| बोडोभाषा माध्यमिकस्तरपर्यन्तं एकः माध्यमः एवं असमराज्यस्य एकः सम्बद्ध आधिकारिकीभाषारूपेण कार्यं करोति| १९९६ तमे वर्षे गौहाटीविश्वविद्यालये बोडोभाषायां एवं साहित्यक्षेत्रे आचार्यस्तरे कक्षा उद्घाटनेन साकं भाषायाः स्थितिः प्राप्ता अस्ति| बोडोभाषायां कविताः, नाटकानि, लघुकथाः, उपन्यासानां संख्या आत्मकथा, यात्रादिः, बालानां साहित्यम् एवं साहित्यिकचर्चा बहु वर्तन्ते| यद्यपि उच्यमाणभाषा अन्यसमुदायेषु विशिष्य असमप्रदेशे कोकराझारप्रदेशे एवं तस्य पार्श्वस्थस्थलेशषु तस्य प्रभावः दृश्यते| अधुनापि उदलपुरीजिल्लायाः समीपे एवं तस्य समीपस्थस्थलेषु शुद्धरूपेण श्रोतुं शक्यते|

विंशतिशतके द्वितीयदशके यदा यवनाः यदा कार्यं आरब्धवन्तः तावत्पर्यन्तं बोडोजनाः साहित्यं नैव लिखितमासीत्| एते मिशनरीजनाः व्याकरण एवं शब्दकोशेषु कानिचन पुस्तकानां प्रकाशनं कृतवन्तः| सिडनी एन्डले १८८४ तमे वर्षे ककरीव्याकरणस्य एकं रेखाचित्रं निर्माणं कृर्वन् आसीत्| व्याकरणं डरंगलजिल्लायाः बोली आधारेण आसीत्| एंडलः शिल्पाः एवं हस्तकला एवं वानविशारदस्य अध्यायः अन्तर्भावः अस्मिन् पुस्तके बोडोलोकथां गीतं तथा च व्याकरणसम्बद्धसर्वविधविषयान् अनुदितमस्ति। बोडोलोककथा एवं अन्त्यानुप्रासः इति पुस्तकं एण्डरसन् महाभागानां संग्रहः दृश्यते। तेषां महाभागानां १७ बोडोलोककथायाः मूलसंस्करणं त्यक्त्वा अनुवादः आङ्लभाषायाः कृतमस्ति। बोडोसाहित्यसभा १९७० तमे संवत्सरे पश्चिमबंगप्रदेशस्य महाकालगुड्याम् आयोजितं ११तम वार्षिकसम्मेलन्यां रोमनलिपिं बोडोभाषायाः पटकथां रूपेषु अङ्गीकारः कृतः वर्तते। एतादृशावश्यकता १९७४ तमवर्षपर्यन्तं असमसर्वकारस्य समक्षं स्थापितमासीत्। परं सर्वकारः रोमनलिपिम् अनुमतिं प्रदातुं अनङ्गीकारः प्रदर्शितः आसीत्। परं १२ सितम्बर १९७४ तमे वर्षे लोकतान्त्रिकान्दोलनस्यारम्भः सञ्जातः, यत्र लक्षाधिकसामान्यजनाः एवं बोडोच्छात्राः भागमगृह्णन्। परन्तु दौर्भाग्यतः रोमानलिपेः स्थाने असमप्रदेशस्य प्रान्तीयसर्वकारः शक्तहस्तेन १६ बोडोजनाना हत्यां कृतवान् एवञ्च केचन अन्यजनान् गभीर एवं क्षुद्राघातः कृतः। अनन्तरं यदा किमपि समाधानं नैव प्राप्तं तदा बोडोसाहित्यसभाध्यक्षाः देवनागरीलिपि अनुसरणं कृतवन्तः एवं १३ फरवरीमास १९७५ तमे वर्षे अस्य आन्दोलनस्य आह्वानं जातम् एवं सभाः सभाम् आह्वानं कृतवन्तः। अनन्तरं बोडोसाहित्यसभापक्षतः भारतस्य प्रधानमन्त्रेः समक्षं केचननियमाः एवं योजननियमाः प्रस्तौतितवन्तः। तत्र एका सन्धिः जाता ९ अप्रैल मासस्य १९७५ तमे वर्षे इन्दिरागान्धी भारतस्य प्रधानमन्त्री एवं बोडोसाहित्यसभायाः मध्ये सञ्जातम्। अस्य आन्दोलनस्य अन्तिमा चर्चा जातं यत् बोडोमन्त्रिणां एवं भारतसर्वकारयोर्मध्ये चर्चा सञ्जाता एवं देवनगरीलिपेः उपरि केचन आरोपाः आसन्। केचन अनुसन्धानकर्तारः एवं सूचितवन्ताः यत् भाषा अधुना लुप्तलिपेः उपरि देवोहै नामकलिपेः विनियोगः कुर्वन्नस्ति। परन्तु देवनागरिलिपेः तुलनानुसारं बोडोभाषायां पत्राणामुपयोगस्य एकमन्तरं दृश्यते। कलागुरु विष्णुप्रसादराभामहाभागाः दीमापुरक्षेत्रस्य एकं प्रतिरूपं देदोहिभाषायाः वर्णमालासु प्राप्यन्ते। यत् कछारीशासनस्य विख्यात आसीत् एवं कला एवं वास्तुकलायाः प्रतिनिधित्वं कर्तुं प्रभवति।

ध्वनिविज्ञानम्- बोडोभाषायां आहत्य २२ ध्वनयः सन्ति। यत्र ६ स्वराः, १६ व्यञ्जनम्, उच्चप्रचाररहितस्वरस्य एकं दृढप्रसारः आसीत्। बोडोभाषा शब्दान् विशिष्यरूपेण स्वरस्योपयोगः करोति। भाषायां प्रयुज्यमानः त्रयः स्वराः भवन्ति। उच्च-मध्यम एवं निम्नोच्च एवं निम्नस्वराणां मध्ये अन्तरं स्पष्टम् एवं बहु सामान्यं भवति।

शिक्षा- बोडो असमप्रदेशस्य आदिवासीक्षेत्रे कक्षा १० पर्यन्तं एकमनिवार्यविषयः भवति। यत् असमिया भाषायाः अध्ययनं कर्तुं नैव ईष्यते। केन्द्रियमाध्यमिकशिक्षाबोर्ड एवं केन्द्रियविद्यालयसंठनपक्षतः तत्र सर्वत्रविद्यालयस्य विषये अनिवार्यः भवति। विधेयकविधानसभायां अगस्त २०१७ समनुवर्तीविधानं कृतमस्ति।

"https://sa.wikipedia.org/w/index.php?title=बोडोभाषा&oldid=433877" इत्यस्माद् पुनः प्राप्तिः