ब्रह्मभूतः प्रसन्नात्मा...


श्लोकः सम्पादयतु

 
गीतोपदेशः
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिंलभते पराम् ॥ ५४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुःपञ्चाशत्तमः(५४) श्लोकः ।

पदच्छेदः सम्पादयतु

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥

अन्वयः सम्पादयतु

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । सर्वेषु भूतेषु समः परां मद्भक्तिं लभते ।

शब्दार्थः सम्पादयतु

ब्रह्मभूतः = ब्रह्मैव सन्
प्रसन्नात्मा = प्राप्तप्रसादः
शोचति = विषीदति
काङ्क्षति = अभिलषति
भक्तिम् = परमेश्वरभक्तिम् ।

अर्थः सम्पादयतु

यदा पुरुषः ब्रह्मभूतः भवति ततः परं तस्य शोकः न सम्भवति, नापि विषयाभिलाषः । सः सर्वेषु प्राणिषु समानः सन् अतिशयितां भक्तिं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु