ब्रह्मयज्ञः
वेदाध्ययनाध्यापनं ब्रह्मयज्ञ इति कथ्यते । वेदे कर्म-उपासना-ज्ञानारव्येषु त्रिषु काण्डेषु ज्ञानस्यैव प्राधान्यम् उपवर्णितमास्ते । ज्ञानादेव नरत्वमिति जीवान्तरापेक्षया श्रेष्ठमिति कीर्त्यते । शास्त्रोक्तप्रकारेण सदाचार धर्मानुष्ठानयोः तत्परता एव नरे 'नरत्वम्’ आपादयति । मानवस्य क्रमिकविकासे ज्ञानं प्राधान्यम् । अतः सर्वास्ववस्थासु ज्ञानमावश्यकम् ।
नवोपनीताः समे ब्रह्मचारिणः श्रावण्यां पौष्टपद्यां वा उपाकर्म विधाय गुरोर्गृहं गत्वा वेदानधीयते । तथा चाह मनुः-
- श्रावण्यां प्रौष्टपद्यां वाप्युपाकृत्य यथा विधि
- युक्तश्च्छन्दांस्यधीयीत् मासान् विप्रोऽर्ध पञ्चमान् ॥ इति । [ मनु ४. ९५ ]
भाद्रपदमासादारभ्य मार्गशीर्षामावास्यां यावद्वेदाध्ययनं प्रचलति स्म । इमे वेदा अपात यामाः भवेयुरेतदर्थ ब्राह्मणाः प्रतिदिनं सन्ध्यामुपास्य भगवतः समक्षम् उपविश्य वेदाध्ययनं कुर्वन्ति स्म । अतएव ज्ञानयज्ञरूपः स्वाध्यायो गृहस्थानामनिवार्य इति-‘स्वाध्याये नित्ययुक्तः स्यात्’ 'स्वाध्यायं सततं कुर्यात्’ इति च स्मृतिवचनम् एवं सन्ध्योपासनमीश्वरोपासनं चास्य यज्ञस्य विशिष्टं कर्म ।