ब्रह्मेश्वरमन्दिरम्, भुवनेश्वरम्
उपक्रमः
ब्रह्मेश्वरमन्दिरं भारतस्य ओडिशाराज्यस्य राजधानी भुवनेश्वरे ९ शताब्द्याः उत्तरार्धे निर्मितं शिवमन्दिरम् अस्ति | अस्य मन्दिरस्य अन्तः सुन्दराणि शिलाशिल्पानि, दुर्लभाः कलाः च दृश्यन्ते । मन्दिरे उत्कीर्णाः शिलालेखाः सन्ति । अस्य मन्दिरस्य निर्माणकालस्य विषये समीचीनसूचनाः प्राप्नुवन्ति स्म । परन्तु अधुना विलुप्तावस्थायां वर्तते। परन्तु १०५८ तमस्य वर्षे संरक्षितः अस्ति । तत् शिलालेखानुसारं ज्ञायते यत् शोमवंशी राजा उद्योतकेशरीइत्यस्य शासनस्य १८तमे वर्षे तस्य माताकोलावति देव्याः द्वारा निर्माणम् अभवत् इति ज्ञायते, यत् १०५८तमे वर्षे आसीत् | [१]
अवस्थितिः
सम्पादयतुब्रह्मेश्वरमन्दिरस्य भौगोलिकं स्थानं ०°१४'२३.४"उत्तर ८५°५१'०७.४" पूर्वम् अस्ति । भुवनेश्वरस्य टङ्कपाणि मार्गस्य निकटे ब्रह्मेश्वरपाटणा स्थितम् मार्गे अस्ति। अस्य समीपे बिन्दुसागरतडागः अस्ति । अस्य निकटे "अनन्तबासुदेवमन्दिरम् ", जलेश्वरशिवमन्दिरम्, लिंगराजमन्दिरम्, पश्चिमेश्वरशिवमन्दिरम् राजाराणी मन्दिरं समीपस्थे क्षेत्रे प्रमुखाः सन्ति । [२]
नीति संस्कार
सम्पादयतु
अनेकप्राचीनमन्दिराणां विपरीतम् अयं मन्दिरः मृतः न अपितु जीवितः मन्दिरः अस्ति । भक्ताः मुख्यतया शिवस्य पूजार्थम् अत्र आगच्छन्ति | देशस्य अनेकभागेभ्यः तान्त्रिकाः तान्त्रिकपूजनाय अत्र आगच्छन्ति । अत्र "चामुण्डा" इति मूर्तिः स्थपित अस्ति। अत्र तांत्रिकपूजा चिरकालात् प्रचलति। मन्दिरे सङ्गीतकाराणाम्, नर्तकानां च चित्राभ्यां ज्ञायते यत् पुरा अत्र नृत्यपरम्परा आसीत् । शिवरात्रिकाले शतशः भक्ताः अत्र समागत्य रात्रौ द्विपः प्रकाशैः पूजां कुर्वन्ति । तस्मिन् समये अत्र नृत्य-संङ्गितस्य अपि आयोजनं भवति । स्त्रियः दुग्धेन शिवलिङ्गं पूजयन्ति च भगवतः निकटे पूजां कृत्वा परिवारस्य सुखनिमित्तं भगवतः निकटे मङ्गलं काम्यन्ति ।
इतिहास
सम्पादयतुपश्चात् इतिहासकाराः कलकत्तानगरे तस्य एकस्य शिलालेखस्य परीक्षणं कृतवन्तः तदा एतत् मन्दिरस्य निर्माणं ११ शताब्द्याः उत्तरार्धे शोमवंशी राजा उद्योतकेशरी इत्यस्य माता कोलावतीदेवी इत्यनेन कृतम् इति ज्ञातम् । "सिद्धतीर्थ" इति नाम्ना चतुर्भिः नाट्यकक्षैः सह अस्य मन्दिरस्य निर्माणं कृतम् । अन्यत्र शिलालेखः प्राप्तः इति कारणतः अन्य एक मन्दिरस्य कृते अपि सम्भवति । पुनः पाषाणशिलालेखाषु उल्लिखितानां ४ नाट्यशाला(नाट्यगृहाणां) अपि अङ्गशाला (सहकारमन्दिराणां) अपि तस्य आशा आसीत् इति अनुमियते।
वास्तुशैली
सम्पादयतुमन्दिरं "पाञ्चतनया" इति नाम्ना अन्तर्भवति । मुख्यस्थलेन सह चतुर्णां पार्श्वे ४ सहायकस्थलानि अपि आसन् । एतत् मन्दिरं पूर्वमन्दिराणाम् अपेक्षया अधिकं उन्नतपूर्णं च निर्मितम् आसीत् । मन्दिरस्य "विमानम्" ६२ .२ पादम् ऊर्ध्वम् । मन्दिरस्य शिलाकार्ये काष्ठकलायां पारम्परिकशैली स्थापिता अस्ति । समग्रमन्दिरं पिरामिड् सदृश्य एव भवति , अन्तः बाह्यभित्तिः च उत्कीर्णा अस्ति ।
पारम्परिक उत्कलशैल्या निर्मितं मन्दिरे द्वौ कक्षौ च स्तः । प्रथमः "जगमोहनः" इति कथ्यते, तया सह सम्बद्धं मुख्यमन्दिरं "शिखरः" इति नाम्ना परिचितः । पश्चात् जगमोहनमन्दिरस्य, नाट्यगृह सभागृह च पुरतः द्वौ अपि कक्षौ निर्मितौ ।
अस्य मन्दिरस्य वास्तुशैली बहुपूर्वं निर्मितस्य मुक्तेश्वरमन्दिरेण सह सदृशी वर्तते। जगमोहनस्य अन्तः, सिंहशिरस्य उत्कीर्णनम् अपि अत्र दृश्यते, यस्य उपयोगः प्रथमे मुक्तेश्वरः इति मन्दिरस्य निर्माणे अभवत्, अनन्तरं बहुषु स्थानेषु प्रतिलिपितः अभवत् । अत्र अन्तःबाह्यभित्तिषु नर्तकानां संगीतकारानाञ्च बहूनि चित्राणि चित्रितानि सन्ति तथा च प्रथमवारं लौहस्तम्भाः प्रयुक्ताः इति ज्ञायते ।
अस्मिन् मन्दिरे वालुकादेवीमूर्तिः, पुष्पशिल्पानि, उड्डयनमूर्तयः च सन्ति । "अस्टदिगपाल मुर्तिः", खड्गं मानवकपालं च धारयन् "चामुण्डा" मूर्तिः पश्चिमतलस्य उपरि अस्ति।
देवदासी प्रथा
सम्पादयतुइदानीं विलुप्तः शिलालेखः अस्ति यत् राज्ञी कोलावती अनेकानि सुन्दराणि स्त्रियः मन्दिराय दत्तवती । तस्मिन् काले मन्दिरे " देवदासी " इति प्रथा प्रचलिता आसीत् इति भाति । सा परम्परा पुरी बडदेउल इत्यादिषु अनेकेषु मन्दिरेषु प्रथारूपेण अनुसृता आसीत् |
बाह्यलिङ्कः
सम्पादयतु- ↑ "Brahmesvara Temple Complex". IGNCA. आह्रियत 2013-08-24.
- ↑ "ଆର୍କାଇଭ୍ କପି". Archived from the original on 2016-12-25. आह्रियत 2017-01-23.