प्रमुखा विकल्पसूचिः उद्घाट्यताम्

भट्टभास्करस्य समयनिर्धारणं वैदिकभाष्यकाराणाम् इतिहासार्थं नितान्तम् आवश्यकम अस्ति। सायणाचार्यः स्वभाष्ये भट्टभास्करमिश्रं स्मरति।

कालःसम्पाद्यताम्

सायणस्य स्मरणेन विक्रमस्य पञ्चदशशतकपूर्ववक्तित्वमायाति। सायणपूर्ववत्तीं लक्ष्मणापरनामको वेदाचार्यः स्वीये सुदर्शनमीमांसायां न केवलं भट्टभास्करमिश्रस्य नामोल्लेखं कृतवान् अपि तु तस्य 'ज्ञानयज्ञनामकभाष्यग्रन्थस्य अपि उल्लेखं कृतवान्। 'तत्र भाष्यकृता भास्करमिश्रेण ज्ञानयज्ञाख्ये भाष्ये एतत्प्रमाणव्याख्यानसमये चरणमिति देवताविशेष इति तदनुगुणमेव व्याख्यातम्।।' (सुदर्शनमीमांसा पृ० ४)देवराजयज्वनाऽपि स्वग्रन्थेऽस्य भाष्यञ्चोद्धृतम्। प्रसिद्धवैदिकेन हरदत्तेन एकाग्निकाण्डस्य स्वभाष्ये भास्करकृतभाष्यात् साहाय्यं गृहीतम्। अतः भास्करमिश्रस्य समयः विक्रमस्यैकादशशतक कथयितुं शक्यते। अनेन स्वभाष्ये आर्यभटीय-अमरकोष-काशिकाप्रभृतिग्रन्थानां नामोल्लेखश्च कृतः। तेनाऽपि हरदत्तादिभाष्यकाराद् अस्य पूर्वकालिकत्वं प्रतीयते।

भाष्यम्सम्पाद्यताम्

भट्टभास्करः तैतिरीयसंहितायामुपरि 'ज्ञानयज्ञ'-नामकं भाष्यं लिलेख। भाष्यमिदं विद्वतापूर्णमस्ति। प्रमाणपुरस्सरं कतिपयानां वैदिकग्रन्थानां मन्त्रस्य उद्धरणम् अनेन समुपस्थापितम् अस्मिन्भाष्ये। लुप्तप्रायनिघण्टुग्रन्थाद् अपि उद्धरणं संगृहीतम् अस्मिन्भाष्येऽनेन विदुषा। मन्त्राणाम् अर्थप्रदर्शनक्रमे विभिन्नाचार्याभिमतान् अपि अयं प्रदशितवान्। अस्मिन् भाष्ये न केवलं यज्ञपरकार्थस्य निर्देशनमस्ति अपि तु आध्यात्माधिदैवपक्षयोः अर्थस्यापि प्रदर्शनं कृतमनेन। यथा- ‘हंसः शुचिषद्वसुरन्तरिक्षसत्' प्रसिद्धमस्मिन् मन्त्रे ‘हंस'-पदस्य त्रिभिः प्रकारैः व्याख्या कृताऽनेन। तद्यथा = अधियज्ञपक्षे हंसपदस्य व्याख्या - 'हन्ति पृथिवीमिति हंसः' अधिदैवपक्षे - हंसपदस्यार्थः अादित्यो भवति, तथा च अध्यात्मपक्षे- ‘हंस’-पदस्यार्थः ‘अात्मा' कृतोऽनेन। अतोऽस्य भाष्यस्य वैदिकसाहित्ये महत्त्वमस्ति।

सम्बद्धाः लेखाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=भट्टभास्करः&oldid=441041" इत्यस्माद् पुनः प्राप्तिः