भट्ट मथुरानाथशास्त्री



मञ्जुनाथेन रचितस्य उपन्याससाहित्यस्य संख्याविषये विद्वत्सु मतभेदो वर्तते। मञ्जुनाथवाग्वैभवाख्यग्रन्थस्य सम्पादकः डाँ० गङ्गाधरभट्ट एकस्यैव उपन्यासस्य आदर्शरमणीसंज्ञकस्य उल्लेखं कृतवान्। तस्मिन्नेव ग्रन्थे देवर्षि माधुरी शास्त्री असमसाहसाख्यं द्वितीयम् उपन्यासम् अवर्ण्यत्। तत्रैव कलानाथशास्त्रिणा अस्य दशाधिका उपन्यासाः सङ्केतिताः, परं न तेषां नामोल्लेखः कृतः।

अस्य कवे उपन्यासशैली बंगीयशैल्या प्रभाविता। यदाह देवर्षि माधुरी शास्त्री-

"श्रीभट्टः शब्दास्तु कमपि बंगीयमुपन्यासं नैवानूदितवान् परं तानाधारीकृत्य तेषां छायाः वा अङ्गीकृत्य एकतः केवलं तेषां प्रभावं शैलीं वा स्वीकृत्य अपरतः समकालीनसमाजस्य विविधघटनाः अभिलक्ष्य उपन्यासरचनाः कृतवान्।“

सम्बद्धाः लेखाः सम्पादयतु