भरुचमण्डलम्

(भरुच् मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

भरुचमण्डलम् (गुजराती: ભરૂચ જિલ્લો, आङ्ग्ल: Bharuch district) इत्येतत् गुजरातराज्ये विद्यमानं किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भरुच इति नगरम् ।

भरुचमण्डलम्
मण्डलम्
गुजरातराज्ये भरुचमण्डलम्
गुजरातराज्ये भरुचमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters भरुच
Area
 • Total ६,५२७ km
Population
 (२०११)
 • Total १५,५०,८२२
Languages
 • Official गुजराती, हिन्दी
Website bharuch.gujarat.gov.in
मध्यगुजरात

भौगोलिकम् सम्पादयतु

भरुचमण्डलस्य विस्तारः ६,५२७ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य मध्यभागे वर्तते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात' इत्यस्य समीपे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे नर्मदामण्डलं, पश्चिमे 'गल्फ् आफ् खम्भात', उत्तरे वडोदरामण्डलम्, आणन्दमण्डलं च , दक्षिणे सुरतमण्डलम् अस्ति । अस्मिन् मण्डले ८०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- नर्मदानदी, कीं, दादर ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणानुगुणं भरुचमण्डलस्य जनसङ्ख्या १५,५०,८२२ अस्ति । अत्र ८,०५,९४५ पुरुषाः ७,४४,८७७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ८३.०३% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- १ आमोदः २ अङ्कलेश्वरः ३ भरुच ४ हासोट ५ जम्बूसरः ६ वागरा ७ वालीया ८ झघडीया

कृषिः वाणिज्यं च सम्पादयतु

कदलीफलं, कार्पासः, आम्रफलं, कूष्माण्डः, पपितफलं ('पपाया'), वृन्ताकं ('ब्रिञ्जाल्') च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । कदलीफलस्य उत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कूष्माण्डः, कार्पासः अपि अस्मिन् मण्डले अधिकतया उत्पाद्यते । भरुचमण्डलं गुजरातराज्यस्य उद्यमकेन्द्रमप्यस्ति । अस्मिन् मण्डले ६२५ उद्यमघटकाः सन्ति । कृषिः, 'एञ्जिनियरिङ्ग्', रासायनिकोद्यमः, 'पेट्रोकेमिकल्स्', वस्त्रोत्पादनं, 'ड्रग्स् एण्ड् फार्मस्युटिकल्स्', नौकानिर्माणं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले स्थितं शूलपाणेश्वर-वन्यजीविधाम सुप्रसिद्धं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले विद्यमानः रायचन्द-दीपचन्द-ग्रन्थालयः द्विलक्षपुस्तकानां पुरातनतालपत्राणां च भाण्डागारम् अस्ति । स्वामिनारायणमन्दिरं, वैष्णव-हवेली, नर्मदामातामन्दिरम् अपि आकर्षकाणि वीक्षणीयस्थलानि सन्ति । सुवर्णसेतुः ('गोल्डन् ब्रिड्ज्'), जामा मस्जिद्, शुक्लतीर्थं, भृगुऋषिमन्दिरं, कबीरवड, वलन्दा कोठी, कडियाडुङ्गर इत्येतानि अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भरुचमण्डलम्&oldid=478318" इत्यस्माद् प्रतिप्राप्तम्