भारतीयदर्शनशास्त्रम्

जीवनदर्शनम् भारतदर्शनम्

भारतीयदर्शनशास्त्रस्य ( (/ˈbhɑːrətjədərʃənʃɑːstrəm/)) (हिन्दी: मीमांसा, आङ्ग्ल: Mīmāṃsā) द्विधा विभागौ भवतः। १) वेदम्मन्यमानं दर्शनम् २) वेदविरोधिदर्शनं च।

१) वेदम्मन्यमानं दर्शनं षड्धा विभक्तं भवति -

दर्शनम् कर्ता सिद्धान्तः मुख्यग्रन्थः प्रथमसूत्रम् विशेषम् प्रसिद्धाचार्याः
साङ्ख्यदर्शनम् कपिलमुनिः प्रकृत्या जगदुत्पत्तिः तत्त्वसमासः अथ त्रिविध-दुःख-आत्यन्त-निवृत्तिरत्यन्तपुरुषार्थः
योगदर्शनम् पतञ्जलिः योगेन मोक्षमार्गः योगसूत्रम् अथ योगानुशासनम् यमः, नियमः, आसनं, प्रणायामः, प्रत्याहारः, धारणं, ध्यानं, समाधिः
न्यायदर्शनम् गौतमः संसारः कार्यम् अस्ति, ईश्वरः सञ्चालकः/पालकः अस्ति न्यायसूत्रम् प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थान-अनामतत्त्वज्ञानात्निःश्रेयसाधिगमः तर्काधारितदर्शनम्
वैशेषिकदर्शनम् कणादः परमाणुवादः अथातो धर्मं व्याख्यास्यामः संसारस्य परमाणोः सृष्टेः निर्माणं, तेन एव विनाशः
पूर्वमीमांसा जैमिनी वेदाधारितं जीवनम्, कर्मसिद्धान्तः - सञ्चितकर्म, सञ्चियमाणकर्म, प्रारब्धकर्म मीमांसासूत्रम् अथातो धर्मजिज्ञासा कर्मकाण्डाधारितदर्शनम्
उत्तरमीमांसा (वेदान्तः) बादरायणः ब्रह्मसूत्रम्, उपनिषद्, भगवद्गीता अथातो ब्रह्मजिज्ञासा ज्ञानकाण्डाधारितदर्शनम्
शङ्कराचार्यः अद्वैतवादः ज्ञानमार्गः निर्गुण-निराकारब्रह्म शाङ्करभाष्यम्
रामानुजाचार्यः विशिष्टाद्वैत भक्तिमार्गः साकारब्रह्म श्रीभाष्यम्
माधवाचार्यः द्वैतवादः
वल्लभाचार्यः शुद्धाद्वैतवादः
निम्बकाचार्यः द्वैताद्वैतवादः

२) वेदविरोधिदर्शनं त्रिप्रकारकं भवति -

दर्शनम् कर्ता सिद्धान्तः मुख्यग्रन्थः विशेषम् प्रसिद्धाचार्याः
चार्वाकदर्शनम् देवगुरुः बृहस्पतिः
जैनदर्शनम् ऋषभदेव
बौद्धदर्शनम् भगवान् बुद्धः अशोकस्य रुक्मिनदेई-अभिलेखः


एतच्छास्त्रम् आविश्वं ख्यातिः वर्तते । वेदकालात् आरभ्य अनेकेषाम् ऋषीणां, मुनीनां, चिन्तकानां च सारसङ्ग्रहत्वात् भारतीयदर्शनशास्त्रस्य विस्तारः अति व्याप्तः वर्तते ।

दर्शनस्य स्वरूपम्

सम्पादयतु

दृष्टिभूतस्य पदार्थजातस्य ज्ञानं दर्शनं भवति । भारतवर्षे मानवसभ्यतायाः आदिमयुगे भारतीयैः मनीषिभिः न केवलं मानवीयसमस्यानाम् अपि तु जडजगतः गूढातिगूढानां रहस्यानां प्रकाशनं स्वकीयया क्रान्तप्रज्ञया कृतम् । ते भारतीया मनीषिणः ऋषयो बभूवुः । ते वेदानामपि साक्षाद् दर्शनं कृतवन्तः । अत एव ‘ऋषयो मन्त्रद्रष्टारः’ इत्युच्यते स्म । मन्त्रद्रष्टॄणां पुरतो लोकस्य दृष्टिभूतानां बाह्यपदार्थानां विषये ज्ञानस्य प्राप्तिः कथं भवेत् इति जिज्ञासा वर्तते । तेषामन्तःकरणे भौतिकानाम् आध्यात्मिकानाञ्च तत्त्वानां चिन्तनाय पर्याप्तः अवसरोऽविद्यत ।

ते मनीषिणो विचारितवन्तः –एषा दृश्यमाना चराचराणां महती सृष्टिः कथं सञ्जातेति । कोऽस्याः कर्त्ता रचयिता वा ? किं सः जगत्कर्त्ता द्रुष्टं शक्यते इति चेत् कथं सम्भवेत् तदीयः साक्षात्कारः ? कथं प्राणिनो जायन्ते म्रियन्ते च ? सांसारिकः प्राणी सुखदुःखमोहादिभिः ग्रस्तोऽस्ति, अतः कथं स मुक्तो भवेत् ? चिन्तनस्यैषा अजस्रं प्रवहन्ती विचारधारा दर्शनस्य क्षेत्रं भारतीयमानवस्य दृष्टिकोणेन सह विकासपथे विस्तृतं कृतवती ।

दर्शनस्य व्युत्पत्तिलभ्यार्थस्य परिज्ञानमात्रावश्यकं प्रतीयते, यतो हि दर्शनस्य उद्भवविषये व्यापकताया विषये चैनं विना किमपि विशेषं विज्ञातुं सम्भवं नास्ति । 'दृश्' धातोः करणार्थे ल्युट्प्रत्ययस्य प्रयोगात् ‘दर्शन’ शब्दो निष्पद्यते । तदवस्थायां ‘दृश्यते अनेन इति दर्शनम्’ इत्याकारिका व्युत्पत्तिः सुसिद्धा भवति अनया व्युत्पत्त्या साधनं चक्षुरतिरिक्तं बुद्ध्यादिकं यदा अवगाहते तदा तत्क्रियान्वयनं दर्शनं भवति ।

यद्यपि दर्शनमिति पदं चक्षुरिन्द्रियेण सम्बद्धम् अस्ति । अर्थात् चक्षुरिन्द्रियेण सम्बद्धं प्राप्तञ्च प्रत्यक्षज्ञानं दर्शनविषयीभूतं भवति । अत्र विचार्यते यत्केवलं दर्शने चक्षुरिन्द्रियमात्रेण साक्षात्कृतं ज्ञानमेव गृह्यते, अथवा ज्ञानेन्द्रियपञ्चकेन गृह्यमाणं ज्ञानसमग्रमेव प्रत्यक्षान्तर्गतं स्वीक्रियते । अत्र प्रत्यक्षवस्तुदर्शनस्य विचारेणैव दर्शनस्य प्रारम्भो भवति । अर्थात् लौकिकपदार्थस्य साक्षात्कारे पदार्थविषयकज्ञानस्य ग्राह्यतायाः सम्बन्धे प्रश्नपूर्विका जिज्ञासैव दर्शनस्य मौलिकं लक्ष्यमुपस्थापयति ।

येन दृश्यते तद् दर्शनमिति चेत् किं वर्तते दर्शनीयम् ? लौकिकं पदार्थजातम् अलौकिकं वा ? यद्यपि दर्शनस्य प्रारम्भो लौकिक-पदार्थ-साक्षात्कारेण भवति, तथापि दर्शनस्य चरमं लक्ष्यन्तु अलौकिकः पदार्थः एव भवति । सः अलौकिकः पदार्थः जीवात्मा, परमात्मा, ब्रह्म वेति विविधाभिः संज्ञाभिर्विज्ञायते । इदमात्मतत्त्वं सूक्ष्मतरम् अस्ति । चक्षुषा अस्य दर्शनं न सम्भवति । यतो हि अस्य दर्शनम् अलौकिकप्रत्यक्षेणैव सम्भवति । तत् सूक्ष्मतरं महत्तत्वं येनापि साक्षात्क्रियते, तज्ज्ञानमेव दर्शनमस्तीति दर्शनस्य परिष्कृतं स्वरूपमस्ति ।

 
भगवान् बुद्धः

लक्षणम्

सम्पादयतु

यद्यपि दर्शनस्य लक्षणानि विविधसम्प्रदायेषु विविधप्रकारेण विहितानि, किन्तु सर्वेषां लक्षणवाक्यानाम् एकस्मिन्नेव लक्ष्ये अभिप्रायो वर्तते । इदमपि स्पष्टमेवास्ति यत् ‘दर्शन’शब्दस्य प्रयोगः प्रायः शास्त्रेण सह भवति । अत एव “दृश्यते यथार्थरूपतया ज्ञायतेऽलौकिकार्थो येन तत् दर्शनशास्त्रम्” इति व्युत्पत्त्या अपि सिध्यति यत् अलौकिकतत्त्वानां सम्यग् ज्ञानं येन जायते तद् ज्ञानरूपं साधनमेव दर्शनं भवति ।

‘दर्शन’ शब्देन सह “शास्त्र”शब्दस्य प्रयोगो नूतनो नास्ति । यतो ‘दर्शन’पदस्य यः व्यवहारो विधीयमानोऽस्ति सः एव ‘शास्त्र’पदस्यापि प्रयोगेण उपलभ्यते । यत्र दर्शनं साधनमात्रं विद्यते तत्र शास्त्रं तस्यानुशासकं भवति । शास्त्रपदं ‘शास्’ धातोर्निष्पद्यते । तदनुसारेण यत् शास्ति उपदिशति आज्ञापयति वा तत् शास्त्रं भवतीत्यर्थो विज्ञायते । शंसुधातोरपि शास्त्रपदस्य निष्पत्तिर्भवति यस्यार्थोऽस्ति प्रकटीकरणमिति । शासनन्तु पुनर्द्वेधा कथितं विधिरूपेण निषेधरूपेण च । विधिनिषेधपरकं शासनं धर्मेण सम्बद्धं भवति ।

शासनरूपिणा शास्त्रेण युक्तं दर्शनशास्त्रं दर्शनस्य लक्ष्यं वितनोति । तदा तद् अलौकिकतत्त्वानां ज्ञानस्य साधनमात्रं न भवति, अपि तु लौकिककर्त्तव्याकर्त्तव्ययोर्विधिनिषेधरूपयोः स्रोतसा लौकिकजीवनाचरणयोः परिष्कारस्य साधनमपि जायते । केनोपायेन वयं लौकिकपदार्थविज्ञानस्य जीवनोपयोगं कुर्मः, कथञ्चालौकिक-तत्त्वसाक्षात्कारस्य योग्यतां प्राप्नुमः, कथं वा जीवनमरणयोः बन्धकानां परिहारं विधास्यामः ? एतद्दिशाबोधकं शास्त्रमेव वस्तुतो दर्शनशास्त्रमित्युच्यते ।

यथार्थतस्तु शंस्- शासधात्वोरर्थान्तरत्वमेव दर्शनस्य सान्वर्थताया मुक्तस्याग्रहस्य कारणभूतमस्ति । यतो हि शास् धातोर्निष्पन्नं शास्त्रं क्रियापरकं भवति, किन्तु शंस् धातोर्निष्पन्नं शास्त्रं ज्ञानपरकं भवति । दर्शनस्य मूलभूतं लक्ष्यं पारलौकिकमस्ति । तस्य प्राप्तिः केवलं ज्ञानेनैव न सम्भवति, अपितु क्रियया सह ज्ञानस्य व्यवहारेणैव तत्प्राप्तिर्जायते ।

केषाञ्चन मते सम्यग् दृष्टिरेव दर्शनं भवति । अत्र दृष्टिशब्दे विचारस्य अथवा प्रकारान्तरेण ज्ञानस्यैव पर्यायोऽस्ति । यदा च सम्यग् दृष्टेर्विश्लेषणं विधीयते तदा ‘ज्ञानस्य सम्यक् प्रयोग’ इत्यर्थे भारतीयदर्शनस्य मूलभूतं तत्त्वमेव तत्र परिलक्षितं भवति । पाश्चात्त्यैः दर्शनस्य कृते ‘फिलासफी’ शब्दः प्रयुज्यते । अयं शब्दो ग्रीकभाषाया यौगिकः शब्दोऽस्ति । अस्यार्थोऽस्ति विद्यानुराग इति । यद्यप्यस्मिन् शब्दे क्रियापक्षो गौणभूतो वर्तते तथापि आधुनिकैरस्य शब्दस्य तात्पर्यार्थ एवं प्रकारेण विनिर्दिष्टः-

“सामान्यानां वैज्ञानिकानाञ्च सम्प्रत्ययानां विश्लेषणं, परीक्षणम्, अपि च विज्ञानविशेषाणामभिगृहीतानाम् तथ्यानाम् अन्वेषणस्य परिणामानां समन्वयकं, जगतः सामंजस्ये व्यक्तेश्च सम्बद्धानां समस्यानां जिज्ञासाभावनया विवेचकम् शास्त्रं ‘फिलासफी’ इत्युच्यते । अस्मिन् तत्त्वमीमांसा–नीतिशास्त्र–सत्ताशास्त्र–तर्कशास्त्र–मूल्यमीमांसा –प्रभृतीनां समावेशो भवति” । एवं विधस्य व्यापकस्य विश्लेषणस्य पश्चात् पाश्चात्त्यैः प्रयुक्तोऽयं फिलासफी’ शब्दः बौद्धिकतत्त्वमात्रं नैव स्वीकर्तुं शक्यते । अस्येदं तात्पर्यमस्ति यत् विद्यायाः सम्बन्धो बौद्धिकतत्वमात्रेणैव न भवति, अपि तु जीवनेनापि सिध्यति । अतो जीव-जगत्-ईश्वर–धर्माधर्म–समाजादीनां तत्त्वानाम् अध्ययनस्य विश्लेषणस्य वा समग्रं कार्यजातं दार्शनिकतायाः व्यापकं क्षेत्रं सूचयति ।

यद्यपि कालक्रमेण दर्शनविज्ञानयोः पार्थक्यं सञ्जातम् । अतः दर्शनस्य क्षेत्रं पाश्चात्त्यानां मतेन सीमितं जातम् । विज्ञानमपि व्यक्तस्य दृष्टिभूतस्य सत्यस्य विश्लेषकं भवति, अतो दर्शनस्य परीधेः बहिर्नास्ति । तथापि सम्प्रत्यपि पाश्चात्त्यदेशेषु दर्शनाध्ययनस्य क्षेत्रे ईश्वर-सृष्टिप्रभृतिविषयाणां चिन्तनस्य औचित्यं स्वीक्रियते । यतो हि एते विषया अव्यक्तस्य सत्यस्य विश्लेषकाः सन्ति ।

भारतीयदर्शनेऽपि दार्शनिकचिन्तनस्य एषा सरणिः प्रायेण एष्वेव विषयेषु अवलम्बिताऽस्ति । भारतीयदृष्टिकोणेन यत्र विज्ञानं भौतिकजातपर्यन्तम् एव सीमितम् अस्ति तत्र दर्शनं ततोऽप्यधिकम् अलौकिकतत्त्वानां सूक्ष्मविश्लेषणस्य ज्ञानस्य च सशक्तं साधनम् वर्तते । पाश्चात्त्यानां विचारेण अदृष्टविषयाः सन्दिग्धप्रायाः सन्ति, किन्तु भारतीयानां विचारेण अदृष्टविषयेषु ब्रह्मात्मादिषु सन्देहस्य लेशोऽपि नास्ति ।

भारतवर्षे तु विविधाः दार्शनिकसम्प्रदाया दृश्यन्ते । एकस्यैव सम्प्रदायस्य अनेके विचारकाः वर्तन्ते । तेषां विविधा दार्शनिकचिन्तनस्य ग्रन्था अपि उपलभ्यन्ते । यद्यपि दार्शनिक-सम्प्रदायेषु मतवैभिन्न्यं मतवैविध्यञ्च विद्यते, तथापि सर्वेषां मूलभूतम् उद्देश्यम् एकमेवास्ति । भारतवर्षे दार्शनिकचिन्तकानां चिन्तनमार्गाः विविधाः सन्ति, किन्तु समेषां गन्तव्यम् एकमेवास्ति । तात्पर्यमिदं वर्तते यत्समेषां भारतीयदार्शनिकानां चिन्तने मोक्षः एव लक्ष्यभूतमस्ति । अत एव केनचिदुक्तम्-

यं शैवा समुपासते शिव इति ब्रह्मेति वेदान्तिनो, ।
बौद्धा बुद्ध इति प्रमाणपटवः कर्त्तेति नैयायिकाः ॥
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसका ।
सोऽयं नो विदधातु वांछितफलं त्रैलोक्यनाथो हरिः॥

भारतीयदर्शनशास्त्रस्य प्रवृत्तेर्मूलकारणं मोक्षोऽस्ति । मोक्षरूपिणो लक्ष्यस्य प्राप्तये दार्शनिकैर्विविधाः सिद्धान्ता उपस्थापिताः । सिद्धान्तभेदेऽपि साध्यभेदो नास्ति । इदमेव भारतीयचिन्तने निगूढं रहस्यम् अस्ति । भारतवर्षस्य भौगोलिकस्थितेः प्राकृतिकसम्प्रदायाश्च महनीययोगदानेन भारतीयमनीषिणां प्रज्ञाजीवनस्य कठोरसंघर्षेभ्यो मुक्ता सति अध्यात्मोन्मुखी सञ्जाता । लौकिकजीवनस्य भौतिकसुखसाधनानाञ्च अनित्यताया बोधेन अत्रत्या ऋषयोऽन्तर्मुखिनो भूत्वा ब्रह्मण्डस्याधारभूतां नित्यां शक्तिं साक्षात्कृतवन्तः । अत एवोच्यते “साक्षात्कृतधर्माणः ऋषयो बभूवुः” इति ।

भारतीयचिन्तकैरनुभूतं यत् दृश्यमानस्य जगतोऽस्तित्वमूले काचित् नित्या शक्तिरवश्यमेवास्ति । ब्रह्माण्डे नियतरूपेण दृश्यमानानां परिणामानां तस्या उपरि प्रभावो न निपतति । सा एका अपि शक्तिर्विविधप्रकारेण प्रतिपादिता । श्रुतिरपि बोधयति – “एकं सद्विप्रा बहुधा वदन्ति, अग्निं यमं मातरिश्वानमाहुः” प्राचीनैर्भारतीयैर्मनीषिभिः स्वकीयेन चिन्तनेन इदमपि सिद्धं यत् ब्रह्माण्डमिव प्राणिशरीरमपि तस्याः नित्यायाः शक्तेरायतनभूतम् अस्ति । अर्थात् यथा परमात्मा ब्रह्माण्डे व्याप्तोऽस्ति तथैव प्राणिशरीरेऽपि । कालान्तरेऽस्य विचारस्य प्रभावादेव ‘यथा पिण्डे तथा ब्रह्मण्डे’ इत्यस्य सिद्धान्तस्य प्रवर्तनम् अभवत् । अस्य सिद्धान्तस्यानुसारेण वक्तुं शक्यते यत् यथा बहुषु पात्रेषु एकस्यैव कूपस्य जलं पात्रानुरूपाम् आकृतिं गृहीत्वा पृथक् भासते, किन्तु तस्य स्वरूपभेदेऽपि एकत्वविषये सन्देहो न भवति तथैव सर्वेषु प्राणीशरीरेषु एकस्यैवात्मनः शरीरानुरूपव्यवहारात् पार्थक्यं प्रतीयते, तथापि यथार्थतः तदीये एकत्वविषयेऽपि सन्देहो नैव करणीयः । यतोहि सर्वेषु प्राणिशरीरेषु विद्यमानं चैतन्यं मूलतः एकमेवास्ति ।

भारतीयदर्शने आत्मचैतन्यस्य सम्पर्केणैव जीवानां जीवनं सम्भवमिति विचारणे जीवात्मनोः ऐक्यं स्वीकृतम् अस्ति । तदनुसारेण जीवशरीरस्थ आत्मा परमात्मनो भिन्नो नास्ति । जीवात्मा-परमात्मनोर्भेदस्तु केवलः उपाधिगतः अस्ति । एवं जीवब्रह्मणोरैक्यं भारतीयदर्शनस्य अद्भुतं सोपानमस्ति । यत्र वैदिकैः ऋषिभिः “सत्यं ज्ञानमनन्तं ब्रह्म” इत्युक्त्वा ब्रह्मणो नित्यत्वं विभुत्वं च प्रतिपादितं, तत्रैव जीवात्मनो रूपेण तस्य शरीरे विद्यमानताऽपि प्रतिपादिता ।

यथार्थतस्तु शरीरे आत्मरूपेण निहितं तत्त्वमेव ब्रह्मास्ति । अत्र विचार्यते यत् यदा आत्मरूपेण ब्रह्मैव शरीरे तिष्ठति तदा तस्य साक्षात्कारः कथं न भवति ? अस्य प्रश्नस्य जिज्ञासारूपेण उदय एव भारतीयदार्शनिकचिन्तनस्य मूलमिति वक्तुं शक्यते । शरीरे आत्मनो विद्यमानताया विषयेऽपि कश्चित सन्देहो नास्ति, यतो हि प्राणिनां सर्वाः क्रियाः आत्मकेन्द्रिता भवन्ति, किन्तु तासां सर्वासां क्रियाणां यः कश्चित् केन्द्रबिन्दुर्वर्तते स एव ब्रह्म । तस्यैव प्राधान्यम् अत एवोक्तम् –

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च ।

आत्मनः श्रेष्ठताऽनेन उपनिषद्वाक्येन उपलक्षिता भवति । एतदनुसारेण तस्यात्मनो दर्शनं करणीयम् अर्थात् तदीयः साक्षात्कारो विधेयः, तस्यात्मनः मननं करणीयम् अर्थात् तस्य किंस्वरूपं, कथं च तत्साक्षात्कारो भवितुं शक्यते इत्यादि विज्ञातुं ज्येष्ठैरनुभविभिः सह पर्याप्तं विचारविमर्शः कार्यः । तेषां तद्विषयकसिद्धान्तानां च श्रवणमपि कार्यम् । तस्यात्मनः मननं करणीयम् अर्थात् स्वाध्यायेन स्वकीयमपि उन्मुक्तं चिन्तनम् आत्मसाक्षात्काराय आवश्यकम् अस्ति । यतो हि लोकपरलोकयोः आत्मनोऽपेक्षया श्रेयोऽन्यत् तत्त्वं नास्ति । इदम् आत्मतत्त्वं चिरन्तनं वर्तते । उपनिषदोऽस्य गीतं गायन्ति । श्रीमद्भगवद्गीतायामपि आत्मनो व्यापकं चिन्तनं प्रस्तुतमस्ति । तद् दृष्टवा तु इदमेव वक्तुं शक्यते यत् भारतीयमानवस्य जीवनचर्यैव आत्मानं केन्द्रीकृत्य प्रवर्तिताऽस्ति । आत्मना सम्बद्धानां चतुर्ण्णां पुरुषार्थानां प्रतिपादनं भारतीयानां जीवनचर्याविषये मनीषिभिः पूर्वमेव विहितम् । तदनुसारेणात्र धर्मार्थकाममोक्षाश्चेति जीवनस्य चत्वारो पुरुषार्था नियताः सन्ति । चतुर्षु प्रुरुषार्थेषु यत्र धर्मस्य आद्यं स्थानम् अस्ति तत्र मोक्षस्य स्थानम् अन्तिमं वर्तते । धर्ममोक्षयोर्मध्ये अर्थकामौ तिष्ठतः, एतावपि धर्ममोक्षयोः सम्पूरकौ स्तः । यतो हि उभयोरनयोरभावे धर्ममौक्षौ सम्पन्नौ न भवतः । प्रवृत्तिं विना निवृत्तिं विना निवृत्तिः सम्भवा नास्ति ।

को नाम धर्मः ? किं च तस्य लक्षणम् । कथमयमावश्यकः ? इत्यादयः प्रश्नाः धर्मविषये जिज्ञासामुदभावयन्ति । एवमेव सर्वानर्थमूलोऽप्यर्थः कस्मात् पुरुषार्थरूपः सञ्जातः ? शास्त्रनिषिद्धोऽपि कामः कथं पुरुषार्थविशेषः परिगणितः ? साधनायामपि एष विध्नरूप एव कथितः । एवं शास्त्रपद्धत्यैव ‘वदतो व्याघात’ दोषो विद्यते । न कश्चित् कामप्रवृत्तो मोक्षविषये श्रोतुमिच्छेत् । एवं पुरुषार्थचतुष्टयविषये नाना विप्रतिपत्तयः सन्ति । तथापि पुरुषार्थचतुष्टयमेव भारतीयजीवनस्य केन्द्रबिन्दुरस्ति । चरमपुरुषार्थरूपो मोक्षः सर्वोत्कृष्टो वर्तते । अस्य दिव्यता वस्तुतः अलौकिकी अस्ति । देवा अपि मोक्षस्यानन्दमनुभवितुम् आत्मानं वञ्चिताः अवगच्छन्ति । भारतीयैर्मनीषिभिः मोक्षम् अन्तिम –पुरुषार्थरूपेण उपस्थाप्य भारतीय –जीवन-पद्धतेः परिपूर्णतायाः एव संकेतो विहितः । यद्यपि मोक्षावस्थायाम आत्मसाक्षात्कारस्थोल्लेखः शास्त्रेषु कृतः, तथापि आत्मसाक्षात्कारो भवति, न वा इत्यस्य किं प्रमाणम् ? लोके चैतन्यमात्रमात्मा, स च शक्तिरूपः क्रियारूपो वा व्यवहारे तस्यानुभवो जायते । कथं च चक्षुषा तद्दर्शनमित्यपि दर्शनस्य समस्याऽस्ति । आसां समस्यानां समाधानमेव दर्शनशास्त्रस्य लक्ष्यः वर्तते ।

शरीररूपिणि पिण्ड एव नित्यतत्त्वम् आत्माऽस्ति, किन्तु शरीरे तस्य सावधिकी उपस्थितिः नित्यत्वविषये शङ्कामुत्पादयति । मरणोत्तरं शरीरस्य चैतन्यशून्यताऽपि आत्मनोऽस्तित्वं शङ्कास्पदं विदधाति । अतः आत्मनो नित्यता व्यापकता च सन्दिग्घा जायते । नित्यत्वेऽपि कथमात्मा शरीरं परित्यजति अथवा व्यापकत्वेऽपि देहत्यागदशायां मृतपिण्डे तदीया व्याप्तिः कथं स्वीकर्त्तुं शक्या । व्यापकेन आत्मतत्त्वेन ब्रह्माण्डस्य कोऽपि पदार्थोऽस्पृष्टो न भवेत् । इदमात्मतत्त्वस्य सन्दर्भे भौतिकं विश्लेषणमस्ति । यथा बहुषु पात्रेषु पयसि दृश्यमानश्चन्द्र एकोऽपि अनेकासु आकृतिषु प्रतिबिम्बितो भवति, तत्रापि च अनेकासाम् आकृतीनां याथार्थ्यं नास्ति, यतो हि ताः तावदेव प्रतिबिम्बिता भवन्ति यावत् तेषु पात्रेषु जलं भवति, तथैव अनेकेषु प्राणिशरीरेषु अनुभूयमानं चैतन्यमेकस्यैव आत्मनः प्रतिबिम्बमस्ति तत् तावदेव भासते यावत् शरीरे प्राणाः तिष्ठन्ति । एवं चेत् प्राणानाम् आत्मना सह तादात्म्यं विद्यते ।

उक्तोदाहरणेन सिध्यति यत् युक्तिश्रुतिम्यां साध्यमिदम् आत्मतत्त्वं यद्यपि लौकिकप्रत्यक्षस्य विषयो नास्ति तथापि अलौकिकं प्रत्यक्षं तस्य स्वीक्रियते । तदीयः साक्षात्कार एव जीवं जन्ममृत्य्वोः बन्धनात् मुक्तं विधायामरत्वं प्रददाति । तदेव मोक्षरूपः तुरीयः पुरुषार्थो वर्तते । कथञ्चात्मसाक्षात्कारो मुक्तिसाधनमित्यस्मिन् वर्तते । अस्य तात्पर्यम् अस्ति-आत्मज्ञानी जनः आत्मसाक्षात्कारे सति आत्मन्येव सति आत्मन्येव अवस्थितो भवति । तदा सर्वेभ्यः काम्यनिषिद्धकर्मभ्यो मुक्तो भूत्वा जीवः स्वबन्धनराहित्यमनुभवति अथवा च ज्ञानबलेन अविद्याया आवरणं विच्छिद्य जीव आत्मना सह ऐक्यमनुभूय आनन्दं लभते । एवं चेत् यथार्थतस्तु भेदबुद्धेर्विनाश एव आत्मसाक्षात्कारस्य साधनमस्ति ।

आत्मसाक्षात्कारस्य मोक्षरूपतायां सिद्धायां मोक्षस्य वास्तविकं स्वरूपम् आत्मन्यवस्थानमात्रं सिध्यति अत एवोक्तुं कैश्चित –“आत्मनः स्वरूपेणावस्थितिरेव मोक्षः” इति । यदा जीवशरीरस्थ आत्मा आत्मनो मूलस्वरूपेऽवस्थितो भवति तदा स येन प्राणिशरीरेण सम्बद्धो भवति तेन सञ्चितानि कर्माणि दग्घुं प्रभवति, अतः तस्य मुक्त्तात्मनः प्राणिनः सञ्चितानि कर्माणि फलोपभोगाय स्वपरिणामान् जनयितुं न क्षमन्ते । अत्र दर्शनस्य भूमिका किमस्तीति विचारणीयोऽयं विषयः । तथा चेत् आत्मतत्त्वस्य लक्षणस्वरूपे एव दर्शनशात्रस्य प्रतिपाद्यभूते स्तः ।

“आत्मैव सर्वश्रेष्ठं तत्त्वमस्ति” इत्यस्य तथ्यस्य प्रतिपादनमेव दर्शनशास्त्रस्य प्रधानं लक्ष्यमस्ति । आत्मसाक्षात्काराय ज्ञानमेव साध्यं विद्यते । यदा आत्मनः स्वरूपसाक्षात्कारयोः विधिपूर्वकं ज्ञानग्रहणं विना साध्यसिद्धिः सम्भवा नास्ति । अत एव शास्त्रोपदेशोऽस्ति-“आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च” एवं भारतीयदर्शनम् अधिकांशतः आध्यात्मिकम् अस्ति । अत्र भौतिकपदार्थवादस्य चिन्तनं तदपेक्षया न्यूनं प्रतिभाति । पाश्चात्त्यदर्शनादस्येदं पार्थक्यमस्ति यत् पाश्चात्त्यर्शने भौतिकपदार्थवादस्य चिन्तनं प्रधानभूतं वर्तते, किन्तु आध्यात्मिकं चिन्तनं न्यूनमस्ति । पाश्चात्त्यविचारधारानुसारेण दर्शनशास्त्रं वैज्ञानिकविधानानां विश्लेषणमात्रम् अस्ति, किन्तु भारतीयदृष्टिकोणेन दर्शनं यथार्थपरिज्ञानाय पल्लवितायाः जिज्ञासायाः सुपरिणामोऽस्ति । तदेव च शाश्वतसत्यस्य समुचितम् अन्वेषणं विद्यते ।

येन दृश्यते विचार्यते साक्षात् ज्ञानं प्राप्यते तदेव दर्शनमस्तीति विचारेण साक्षात् ज्ञानमेव तत्त्वज्ञानमस्ति । तेनैव अभ्युदयनिःश्रेयसोः सिद्धिर्भवति । इदं तत्वज्ञानं भारतीयै मन्त्रदृष्टभिः महर्षिभिः स्वकीयया नवनवोन्मेषशालिन्या प्रज्ञया साक्षात् अनुभूतम् । तेषां जिज्ञासायाः परिणामस्वरूपमेव सम्प्रति दर्शनशास्त्रस्य विस्तृतो न्यासो विद्यमानोऽस्ति । समग्रस्य भारतीयचिन्तनस्य आधारभूतानि षड् वैदिकदर्शनानि सन्ति । अवैदिकदर्शनेषु यानि भारतवर्षे पल्लवितानि तानि अपि तत्त्वान्वेषणपूर्वकं ज्ञानोपलब्धिं प्रति अग्रेसराणि दृश्यन्ते । भारतवर्षे दार्शनिकचिन्तनस्य प्रारम्भो यथार्थतस्तु उपनिषत्कालात्सञ्जातः । इतः पूर्व्ं वैदिककाले दार्शनिकता तु विद्यमाना आसीत् किन्तु तस्या एतावान् विकासो नासीत् । तत्र तर्कपूर्णस्य अन्वेषणस्य प्रवृत्तिः नावर्तत । उपनिषत्सु मानवजिज्ञासाया विस्तारेण सह तर्कस्य ज्ञानाधाररूपता स्वीकृता, किन्तु क्वचिद् गूढज्ञानस्य विषये “ नैषा तर्केण मतिरपनेया” इत्यादि उपनिषद्वाक्यान्यपि प्राप्यन्ते ।

उपनिषदां दार्शनिकं चिन्तनं परतत्त्वसम्बन्धिन्या जिज्ञासया सम्भवति तत्पर्यवसानं चात्मजिज्ञासया जायते कालान्तरे उपनिषदां चिन्तनस्य पृष्ठभूमावेव भारतीयदर्शनस्य विविधाः शाखाः प्रादुर्भूताः । भारतीय दर्शनस्य तासु शाखासु जायमानं सकलं चिन्तनं क्रमेण विकासं प्राप्नुवत् मोक्षरूपिणः पुरुषार्थस्य साधकम् अभवत् । सांख्यशास्त्रे प्रकृतिं मूलकारणं प्रतिपाद्य भोक्तुः पुरुषस्य विवेकमेव तत्त्वज्ञानं प्रतिपादितम् । न्यायशास्त्रे षोडशपदार्शानां तत्त्वज्ञानात् निःश्रेयसः प्राप्तिः निर्दिष्टा । वैशेषिकशास्त्रे विशेषाभिधस्य पदार्थस्य ज्ञानमेव तत्त्वज्ञानमित्यभिमतम् । वेदान्ते तु जीवब्रह्मणोरैक्यानुभव एव परमं ज्ञानमस्ति । मीमांसायां पुनर्जन्मबंधनान्मुक्त्यर्थं यज्ञादौ प्रवृत्तेरेव तत्त्वसाक्षात्कारस्य उपायरूपता प्रतिपादिता एवं स्पष्टीभवति यद् भारतीयदर्शनानां लक्ष्यमेकमेवास्ति ।

भारतीयसंस्कृतौ दार्शनिकविचाराणां पर्याप्तं महत्त्वमस्ति । तथा हि, भारतीया संस्कृतिः धर्मप्राणा संस्कृतिरस्ति, यस्याः मूल आधार आध्यात्मिकज्ञानस्य विकासो वर्तते । पुरा भारतवर्षस्य आध्यात्मिकं ज्ञानं चरमोत्कर्षं प्राप्तमासीत्, तद्धि तत्कालीनानां निर्मलचेतसां महर्षीणामनुभूतस्य सत्यस्य प्रतिष्ठापकम् अवर्तत । भारतीयसंस्कृतेः मूलभूतानि स्रोतांसि वेद-स्मृति-उपनिषद्पुराणादीनि सन्ति । एषामनवरतम अनुशीलनं कुर्वद्भिः विशुद्धमन्तःकरणैः महर्षिभिः तपसा स्वाध्यायेन च लब्धया प्रज्ञया आत्मतत्त्वस्यान्वेषणं विधाय न केवलं प्रकृतेः रहस्यानामुदघाटनं कृतम्, अपितु सततचिन्तनेन स्वजीवनमपि सफलीकृतम् । एवं भारतीयं दर्शनम् अत्रत्यमनीषिणां जीवनानुभवजनिताया आध्यात्मिकप्रतिभायाः सुपरिणामो वर्तते ।

स्पष्टमस्ति यत् वेदोपनिषत्सु आधारितानां विविध-दार्शनिक-सिद्धान्तानां शास्त्रीयपद्ध्त्या विवेचकानां येषामपि ग्रन्थानां विकासः उपनिषदां परवर्तिनि काले सञ्जातः तेषां गणना दर्शनशास्त्रस्य परिधौ विधीयते । वेदोत्तरकालस्य दार्शनिकविचारधारा मूलतः द्वयोः स्वरूपयोः वर्गीकृताऽस्ति –आस्तिकं दर्शनं नास्तिकं दर्शनञ्चेति । यानि दर्शनानि वेदोक्तसिद्धान्तान् प्रामाणिकान् स्वीकुर्वन्ति, तानि नास्तिकानीति कथ्यन्ते । उक्तञ्च –

नास्ति वेदोदितो लोक इति येषां मतिः स्थिरा ।
नास्तिकास्ते तथाऽस्तीति मतिर्येषां त आस्तिकाः ॥
अवैदिकप्रमाणानां सिद्धान्तानां निदर्शकाः ।
'चार्वाकप्रभृतयश्च त्रयो लोकेषु नास्तिकाः ॥
वेदप्रमाणकानीह प्रोचुर्ये दर्शनानि षट् ।
न्यायवैशेषिकादीनि स्मृतास्ते आस्तिकाभिधाः ॥

उक्तोल्लेखानुसारेण षट् आस्तिकदर्शनानि सन्ति –(१) सांख्यदर्शनम् (२) योगदर्शनम् (३) न्यायदर्शनम् (४) वैशेषिकदर्शनम् (५) मीमांसादर्शनम् (६) वेदान्तदर्शनम् च । नास्तिकदर्शनानि मुख्यतः त्रीणि वर्तन्ते –(१) चार्वाकदर्शनं (२) जैनदर्शनं (३) बौद्धदर्शनं च । एतानि प्राचीनदर्शनानि सन्ति । आधुनिककालेऽपि भारतीय –दार्शनिक-चिन्तनस्य धारा सततं प्रवहमाना दृश्यते । वर्तमाने गान्धिदर्शनं अरविन्ददर्शनम् चापि उल्लेखनीयमस्ति । एतेषां समेषां नास्तिक-आस्तिक- दर्शनानां विवेचनमग्रे विस्तरेण विधास्यते ।

दर्शनम्

सम्पादयतु

दृश्यते अवबुध्यते वस्तुतत्त्वम् अनेन इति दर्शनम् । परमं वस्तुतत्त्वम् एकं चेदपि दृष्टिकोणस्य भेदमनुसृत्य दर्शनानां भेदः सञ्जातः । एतेषु चार्वाक-बौद्ध-जैनदर्शनानि नास्तिकदर्शनानि, अन्यानि आस्तिकदर्शनानि इति गण्यन्ते । ये वेदप्रामाण्यं न अङ्गीकुर्वन्ति ते नास्तिकाः । आस्तिकानां तु परमं प्रमाणं वेदाः भवन्ति । दर्शनस्य उदयकालः वेदकाले एव । संहितायामुदितं दर्शनम् उपनिषदि पल्लवितम् इति श्रूयते च ।

श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येयः इति दर्शनहेतवः ॥

अद्यत्वे सर्वं वैज्ञानिकदृष्ट्या विविच्यते । प्रपञ्चे जीवस्य चेष्टाः दृश्यन्ते । भोजनं, स्वापः, अन्यान्यक्रियाः प्रापञ्चिकाः भवन्ति । एतत् इन्द्रियग्राह्यं वर्तते । अतः दृश्यम् इति व्यवहारः । एवम् अदृश्यं जगत् महत्वपूर्णं विशिष्टं च भवति । विज्ञानं प्रायशः दृश्यवस्तुनः विश्लेषणं करोति । अदृश्यकल्पना विज्ञानविरुद्धम् इति केचन वदन्ति । दर्शनप्रतिपादकाः ग्रन्थाः बहवः उपलभ्यन्ते । तत्र ग्रन्थेषु दृश्य-अदृश्यप्रपञ्चस्य विवेचनम् उपलभ्यते । सत्यान्वेषणं, तत्वनिरूपणम् - भारतीयदर्शनस्य परमं लक्ष्यम् । महाभारते सत्यस्य महत्त्वं प्रतिपादितम् । यथा-

सत्यधर्मच्युतात् पुंसः क्रुद्धादर्शाविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥

एवं दर्शनेन लौकिकम् अलौकिकं च ज्ञानं लभ्यते । दार्शनिकतत्वानाम् अधिगमेन मानवः प्रापञ्चिकजीवने परमं सुखं प्राप्नोति । प्राचीनकालतः आत्मतत्वं जिज्ञासवः दार्शनिकाः दर्शनसाहित्यं रचयामासुः । मानवजीवनस्य विविधक्षेत्रेषु दार्शनिकं तत्वं स्थापयामासुः । भारतीयदर्शनं प्राधान्येन द्वेधा विभक्तं दृश्यते अस्तिकं नास्तिकम् इति । वेदस्य प्रामाण्यम् ईश्वरस्य अस्तित्वम् अभ्युपगन्तारः आस्तिकाः तद्भिन्नाः नास्तिकाः इति निरूप्यते । जीवमात्रस्य सुखप्राप्तिः दुःखनिवृत्तिः उद्देश्यं भवति । तदर्थमेव दर्शनम् उपदिशति । सांसारिकजीवने यशः प्राप्तुं तदनन्तरं चिरसुखम् अवाप्तुं च दर्शनं सहकरोति । इह-परयोः सर्वहितं साधयितुं प्रवर्तते दर्शनम् ।

सर्वस्तरतु दुर्गाणि, सर्वो भद्राणि पश्यतु । सर्वः कामानवाप्नोतु, सर्वः सर्वत्र नन्दतु ॥

इत्युक्तिः दर्शनस्य उपदेशे वर्तते । अधिभौतिक= आधिदैविक=आध्यात्मिकदुःखं निवार्य परमं सुखं प्रापयति दर्शनम् इति कारणेन शिक्षणक्षेत्रे प्राथमिकस्तरादारभ्य दर्शनबोधनम् अनिवार्यं स्यात् । पूर्वं दर्शनानां द्वैविध्यं निरूपितम् । तदनुसारं चार्वाक-जैन-बौद्धदर्शनानि नास्तिकदर्शनानि, न्याय -वैशेषिक-सांख्य योग-मीमांसा-वेदान्तदर्शनानि आस्तिक-दर्शनानि इति कथ्यन्ते स्म। तदत्र संक्षेपेण उपस्थाप्यते ।

प्रसि्द्धानि दर्शनानि

सम्पादयतु
  1. चार्वाकदर्शनम्
  2. बौद्धदर्शनम्
  3. जैनदर्शनम्
  4. साङ्ख्यम्
  5. योगदर्शनम्
  6. न्यायदर्शनम्
  7. वैशेषिकम्
  8. मीमांसा
  9. वेदान्तः
  10. प्रत्यभिज्ञादर्शनम्

सम्बद्धाः लेखाः

सम्पादयतु
  1. योगदर्शनम्
  2. न्यायदर्शनम्
  3. वैशेषिकम्
  4. मीमांसा

दर्शनशिक्षणम्, शिक्षायाः सामाजिकाधाराश्च