भारोत्तोलनक्रीडा
भारोत्तोलनक्रीडा(Weightlifting) एका शारीरकशक्तिक्रीडासु अन्यतमा ।
सर्वे क्रीडालवः स्फूर्तिशालिनः भवन्ति । एवं तत्र भारोत्तोलने अपि सर्वाधिकभारोत्थापकः सर्वेषामपेक्षया अधिकः शक्तिशाली इति मन्यते । अस्याः क्रीडायाः विविधानि व्यवहारनामानि वर्तन्ते । यथा ओलम्पिक्-वैट्लिफ्टिङ्ग्,ओलम्पिक्-स्टैल्-वैट्लिफ्टिङ्ग् इत्यादि । अत्र स्पर्धिनः अत्यधिकभारस्य उत्थापने एव प्रयत्नं कुर्वन्ति । प्रत्येकस्पर्धीनां कृते त्रिवारम् अवकाशः दीयते । प्रत्येकस्मिन् अवकाशे यः अत्यधिकभारं सम्यक्तया नियमानुसारम् उत्थापयति तस्मै अधिकाः अङ्काः दीयन्ते । तथा त्रिवारं दत्तानाम् अङ्कानां सङ्कलनं क्रियते । यस्य अङ्कानां समाहारः अत्यधिकः भवति सः विजेता भवति । अत्र पुरुषाणां तथा महिलानां च देहस्य भारम् अनुसृत्य विभागाः वर्तन्ते । सम्प्रति अधिकः शक्तिशाली पुरुषः रशियादेशस्य वासिली एलेक्जीव् वर्तते । एषः ६४५ किलोमितं भारम् उत्थापितवान् । तथा हैवीवेट्-वर्गस्य विश्वप्रजेतृत्वगौरवं प्राप्तम् । भारतस्य हैविवेट्-विजेता बलवीरसिंहः । १९५८ तमे वर्षे बलवीरसिंहः राष्ट्रियविजेतृगौरवं प्राप्नुवन् त्रयोदशवारं विजेता अभवत् ।
इतिहासः
सम्पादयतुभारोत्तोलनस्पर्धा बहु प्राचीना वर्तते इत्यत्र प्रमाणानि अपि लभ्यन्ते । चीनादेशस्य, ईजिप्तदेशस्य, ग्रीस्-देशस्य नागरिकाणाम् इतिहासे भारोत्तोलनस्य विषयाः वर्णिताः वर्तन्ते । तदानीन्तनकाले भारोत्तोलनक्रीडायां यः अधिकं भारं वहति स्म, तस्मै एव पुरस्कारः लभ्यते स्म । इदानीन्तनी भारोत्तोलनक्रीडा युरोप्-खण्ड प्रदेशे १९ शतके आरब्धमिति परिगण्यते । १८९१ तमे वर्षे पुरुषाणां भारोत्तोलनक्रीडायाः प्रथमविश्वस्पर्धा अभवत् । तस्यां स्पर्धायां क्रीडालोः औन्नत्यस्य भारस्य च विभागः न कृतः आसीत् । १८९६ तमे वर्षे प्रथमे ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा आसीत् । परन्तु, १९०० तमे वर्षे सम्पन्ने ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा नासीत् । १९०४ तमे वर्षे मिसूरी, सेयिन्ट् लूई'-नगरे ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा आसीत् । परन्तु, पुनः १९०८, १९१२ तमे च वर्षे भारोत्तोलनक्रीडा नासीत् । पुराकाले तथा १८९६ ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा एकेन हस्तेन तथा हस्त द्वयेन इति द्विविधः आसीत् । १९२० तमे वर्षे पुनः ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा आसीत् । १९२० ओलम्पिक्-क्रीडोत्सवानन्तरं भारोत्तोलनक्रीडायां क्रीडालोः औन्नत्यस्य भारस्य च अनुसारेण विभागः करणीयः इति चिन्तना प्रारब्धा । १९२८ तमे वर्षे एकेन हस्तेन भारोत्तोलनक्रीडाप्रकारः स्थगितः । १९३२ तमे वर्षे ओलम्पिक्-क्रीडोत्सवे क्रीडालोः भारमनुसृत्य पञ्चप्रकारेण भारोत्तोलनक्रीडा आरब्धा । २००० तमे वर्षे आस्ट्रेलियादेशस्य सिडनी नगरे ओलम्पिक्-क्रीडोत्सवे प्रथमवारं महिलानां भारोत्तोलनक्रीडा आरब्धा ।
विभागः, नियमाश्च
सम्पादयतुभारोत्तोलनक्रिडायाः नियन्त्रणम् अन्ताराष्ट्रिय-भारोत्तोलन-संस्था(IWF) करोति । एषा संस्था हंगरी देशस्य बूडपास्ट्-नगरे अस्य कार्यालयं वर्तते । १९०५ तमे वर्षे अन्ताराष्ट्रिय-भारोत्तोलन-संस्था आरब्धा । भारोत्तोलनक्रिडायां पुरुषाणां, महिलानां च विभागः वर्तते । ते,
व्यक्तिशः वर्गः | भारोत्तोलनभारः |
---|---|
५६ के जी | १२३ एल् बी |
६२ के जी | १३७ एल् बी |
६९ के जी | १५२ एल् बी |
७७ के जी | १७० एल् बी |
८५ के जी | १८७ एल् बी |
९४ के जी | २०७ एल् बी |
१०५ के जी | २३१ एल् बी |
इतोप्यधिकाः | २३१ एल् बी |
व्यक्तिशः वर्गः | भारोत्तोलनभारः |
---|---|
४८ के जी | १०६ एल् बी |
५३ के जी | ११७ एल् बी |
५८ के जी | १२८ एल् बी |
६३ के जी | १३९ एल् बी |
६९ के जी | १५२ एल् बी |
७५ के जी | १६५ एल् बी |
इतोप्यधिकाः | १६५ एल् बी |
अस्यां क्रीडायाम् अधिकभारं नियमानुसारं प्रत्येकवारं तथा आहत्य सम्पूर्णतया यः(या) उत्थापयति, सः(सा) विजेता भवति । क्रीडा न्यूनभारोत्तोलनादारम्भः भवति । यदि अत्र कश्चन(काचित्) भारोत्तोलने असमर्थः(र्था) भवति चेत् ते(ताः) पुनः तस्मिन् भारोत्तोलने अथवा इतोपि अधिकभारोत्तोलने वा प्रयत्नं कर्तुं न शक्नुवन्ति । भारोत्तोलने भारदण्डस्य भारः आरोहणक्रमेण अधिकः भवति । प्रत्येकस्मिन् आवर्तने १ के जी भारः अधिकः भवति । यदि अन्तिमावर्तने द्वयोः मध्ये समानाङ्काः भवन्ति, तदानीं न्यूनभारयुक्तक्रीडालुः विजेता भवति ।
चित्रमुद्रिका
सम्पादयतुचित्रवीथिका
सम्पादयतुआधारः
सम्पादयतुअभिनवक्रीडातरंगिणी