भूतग्रामः स एवायं...
श्लोकः
सम्पादयतु- भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
- रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः
सम्पादयतुभूतग्रामः स एव अयं भूत्वा भूत्वा प्रलीयते रात्र्यागमे अवशः पार्थ प्रभवति अहरागमे ॥ १९ ॥
अन्वयः
सम्पादयतुपार्थ ! सः एव अयं भूतग्रामः अवशः भूत्वा भूत्वा रात्र्यागमे प्रलीयते । अहरागमे प्रभवति ।
शब्दार्थः
सम्पादयतु- पार्थ = अर्जुन !
- सः एव अयम् = सः एव एषः
- भूतग्रामः = भूतसमुदायः
- अवशः = कर्मपरवशः सन्
- भूत्वा भूत्वा = पुनः पुनः उत्पद्य
- रात्र्यागमे = निशारम्भे
- प्रलीयते = निलीयते
- अहरागमे = दिनारम्भे
- प्रभवति = उत्पद्यते ।
अर्थः
सम्पादयतुअर्जुन ! सः एषः भूतसमुदायः कर्माधीनः सन् पुनःपुनः उत्पद्य निशारम्भे निलीयते । दिनारम्भे प्रभवति ।