भारतदेशस्य ईशान्यभागतः आगतः सर्वप्रथमः ख्यातः सङ्गीतकारः, गायकः निदेशकः, कविः, पत्रकर्ता, गीतरचनकारः, चलच्चित्रनिर्मापकः भुपेन हज़ारिका Listeni//। स्वस्य अनुपमकृतिं "गङ्गा बहती हैं क्यों " इति गीतं गीत्वा समग्रे देशे परिचितः अभवत् । अस्मामीभाषायां स्वनिर्मितस्य " एरा बातर सुर " इति चलच्चित्रस्य स्वरसंयोजनं स्वयं कृतवान् । तस्य ४०वर्षाणां दाम्पत्यजीवनस्य सहधर्मिण्याः कल्पना लज्मी इत्यस्याः ' रुडली ', ' एक् पल् ', ' दर्मियान् ', 'दमन् ', इति चलच्चित्राणाम् अपि च सायि पराञ्जपे इत्यस्य ' पपिया ', 'साज़् ', ' मिल् गये मञ्झिल् मुझे ', एम्.एफ्.हुसेनस्य 'गजगामिनी ' इत्यादीनां हिन्दीभाषाचलच्चित्राणां गीतानि भुपेन हज़ारिकावर्यस्य स्वरमाधुरेण रञ्जितानि ।

भुपेन हज़ारिका
অসম ৰত্ন ড.ভূপেন হাজৰিকা
व्यैक्तिकतथ्यानि
जन्मनाम भुपेन हज़ारिकेका
मूलतः भारतीयः
सङ्गीतविद्या चलच्चित्रसङ्गीतम् (नेपथ्यगायकः), भारतीयशास्त्रीयसङ्गीतम्
वृत्तिः गायकः
सक्रियवर्षाणि क्रि.श.१९४३ तः२०१०।


बाल्यं शिक्षा च सम्पादयतु

भुपेन हज़ारिका क्रि.श.१९६२तमे वर्षे अस्सामराज्यस्य सादिया इति ग्रामे अजायत । अस्य पिता नीलकान्त हज़ारिका माता शान्तिप्रिया हज़ारिका च । गौहातिनगरे प्राथमिकीं शिक्षां सम्पूरितवान् । क्रि.श. १९४२तमे वर्षे 'काटन् कालेज् ' महाविद्यालये इण्टर्मीडियेट् परीक्षाम् उत्तीर्णवान् । अग्रे बनारस हिन्दुविश्वविद्यालयतः क्रि.श. १९४४तमे वर्षे स्नातकपदवीं प्राप्तवान् । क्रि.श. १९४६तमे वर्षे रज्यशास्त्रे स्नातकोत्तरपदमीम् आप्तवान् । क्रि.श. १९५२तमे वर्षे अमेरिकस्य न्यूयार्कनगस्य कोलम्बिया विश्वविद्यालयतः लिस्ले फेलोशिप् सहितं पि.एच्.डि.पदवीम् अलभत । अस्य शोधप्रबन्धस्य विषयः Proposals for Preparing India's Basic Education to Use Audio-Visual Techniques in Adult Education" इति । उपसहस्रगीतानि रचयित्वा तानि सङ्गीतेन निबद्धवान् । अनेकानि अस्सामी चलच्चित्राणि निर्मीय निदेशितवान् । 'शकुन्तला'(क्रि.श. १९६०),'प्रतिध्वनि,'(क्रि.श. १९६४)'लोटि घोटि,'(क्रि.श. १९६७) अस्मामीचलच्चित्रार्थं राष्ट्रपतिपदकपुरस्कारः प्राप्तः । इण्डियन् पीपल्स् थियेटर् मूव् मेण्ट् इति संस्थया सह कार्यं कर्तुं मुम्बैनगरम् आगतवान् । तत्र प्रसिद्धस्य रङ्गकर्तुः सलिलचौदर्याः, बलराज् सहान्याः च परिचयः अभावत् ।

वैवाहिकजीवनम् सम्पादयतु

ड.भुपेन हज़ारिका केनडा देशस्य प्रियंवदा पाटिल् इति कन्यां परिणीतवान् । दाम्पत्यफलरूपेण पुत्रजनम् अभवत् यस्य तेझ् हझारिका इति नाम । एषः न्यूयार्क नगरे वासं करोति । १३वर्षाणां पश्चात् भुपेन हज़ारिका प्रियंवदया सह सम्बन्धं परित्यज्य कल्पना लाज्मि इत्यनया सह विवाहं विना निवसति ।

प्रशस्तिपुरस्काराः सम्पादयतु

  • क्रि.श.१९७५तमे वर्षे २३तमी राष्ट्रीया फिलं फेर प्रशास्तिः । चमेलि मेम् साब् इति चलच्चित्रस्य गीतार्थम् ।
  • क्रि.श.१९९३तमे वर्षे रुडाली चलच्चित्रस्य अन्ताराष्ट्रियवलये एशिया फिसिपिक् चलच्चित्रस्य प्रथमभारतीयसङ्गीतनिदेशकः इति पुरस्कारः ।
  • क्रि.श. १९७९तमे वर्षे अत्युत्तमप्रदर्शनकला इति आल् इण्दियन् क्रिकेट् असोसियेषन् प्रशस्तिः ।
  • क्रि.श. २००१तमे वर्षे पद्मभूषणप्रशस्तिः
  • क्रि.श. १९९३तमे वर्षे अस्सां साहित्यसभायाः अध्यक्षस्थानगौरवम् ।
  • क्रि.श. १९९२तमे वर्षे बाबा साहेब फाल्केप्रशस्तिः
  • क्रि.श. २००९तमे वर्षे 'असोम् रत्न प्रशस्तिः ।
  • क्रि.श. २००९तमे वर्षे सङ्गीतनाटक अकाडेमी प्रशस्तिः ।

विशिष्टा सङ्गीतशैली सम्पादयतु

बाल्ये एव सङ्गीतासक्तः भुपेन हज़ारिका हिन्दी, अस्सामी, बङ्गाली भाषानां चलच्चित्रस्य सङ्गीतसंयोजनं कृतवान् । अस्य माता एव सङ्गीतस्य प्राथमिकगुरुः । अस्स्मामस्य वनवासिनां गीतानि शृण्वन् गायन् सन्तोषेण बाल्यं यापितवान् । अतः अस्य भुपेनस्य सङ्गीते अस्मामस्य जानपदभाषायाः मूलसौन्दर्यं शोभते । भुपेनस्य वृत्त्यारम्भः क्रि.श. १९३९तमे वर्षे लोकार्पितस्य " इन्द्रा मलति " इति अस्सामीभाषायाः चलच्चित्रस्य स्वरसंयोजनेन अभवत् । अस्य द्वीतचित्रस्य " बिस्व बिजोय् नो जवान् " इति चलच्चित्रस्य गानैः रसिकानां मनांसि तर्पितवान् । अस्य गीतानां गानाम् एव अस्य वृत्तिजीवने नवपरिवर्तनम् आनयत् । भुपेनः परिशुद्धः ग्रामीणप्रतिभायुतः । ग्रामपरिसरः जानपदीयसन्निवेशाः च अस्य सङ्गीतवृत्तौ प्रेरणादायकाः अभवन् । भोपालिरागः अस्य अतीवप्रियरागः । अरुणाचलप्रदेशे वर्णचित्राणाम् आरम्बस्य कारणिकः भूपेनः एव । क्रि.श. १९७७तमे वर्षे प्रदर्शितस्य " मेरा धर्म मेरि मा " इति चलच्चित्रस्य सङ्गीतसंयोजनम् अति विशिष्टतया कृतवान् । एक पल इति चलच्चित्रस्य गानार्थम् अनेकाः प्रशस्तयः आगताः । " " रुडालि ' इति चलच्चित्रस्य गीतानां लोकप्रियतायाः कारणेण भुपेनं प्रतिगृहं वार्तासोतः अभवत् । अनेन चलच्चित्रेण विविधक्षेत्राणां बिभिन्नप्रशस्तयः सम्पादिताः । प्रायः ३६अस्सामीभाषाचलच्चित्राणां गीतानि रचयित्वा स्वरसंयोजनं कृतवान् । "जिबन त्रिष्ण ", " जोसकिर् अलो ", " माहित् बन्धुरे ", " करि ओ कोमन् ", "ए खाने पिञ्चार् ", " दम्पती " इत्यादीनां बङ्गालीभाषाचलच्चित्राणां गीतानि अपि सङ्गीतस्वरेण निबद्धवान् । महात्मा गाधेः प्रियगीतस्य " वैष्णव जन तो.. " इत्यस्य स्वरसंयोजनं गानं च भुपेन हज़ारिकावर्यः कृतवान् । एतत् गीतं " गन्धि टु हिट्लर् " इति चलच्चित्रार्थं कृतम् । एतत् एव अस्य महागायकस्य अन्तिमं कार्यम् अभवत् ।

नित्यनूतनगीतानि सम्पादयतु

डा.भुपेन हज़ारिकावर्यस्य कण्ठश्रियः नित्यनूतन कानिचन गीतानि ।

  • दिल् हूं हूं करे..... (रुडली)
  • ज़रा दीरे ज़र धीमे... (एक पल्)
  • नैनों मे दर्पन् है...... (आरूप्)
  • मोय् एति ज्ज् बोर् (स्वस्य)
  • गङ्गा बेह्ति हो क्यों..... (स्वस्य)

चरमयात्रा सम्पादयतु

प्रतिष्ठितदादासहेब फाल्केप्रशस्तिभाजनं ज्येष्ठः सङ्गीतनिदेशकः गायकः डा.भुपेन हज़ारिका मुम्बैनगरस्य कोकिलाबेहन धीरुभायी अम्बानी चिकित्सालये चिकित्सां प्राप्नोति स्म । शरीरस्य बह्वङ्गवैफल्येन बाधितः असीत् । ८५वर्षीयः भुपेनः क्रि.श. २०११तमे वर्षे नवेम्बरमासस्य पञ्चमे दिने इहलोकयात्रां समापितवान् । ईशान्यभारतस्य सङ्गीतप्रतिनिधे भुपेनस्य आत्मनः श्रन्धाजलिं दातुं द्विलक्षाधिकाः तस्य सङ्गीतप्रियाः सम्मिलिताः । अमेरिकातः अगत्य अन्त्यक्रिया विध्युक्तरीत्या कृता । राज्यस्य अन्त्येष्ठ्यां भागं गृहित्वा गौरवार्थम् एकदिनस्य सर्वकारीयविरामम् उद्घुष्टवान् । सर्वकारीयसकलगौर्वेन अन्तिमयात्रा सम्पन्ना ।

"https://sa.wikipedia.org/w/index.php?title=भूपेन_हाजरिका&oldid=477278" इत्यस्माद् प्रतिप्राप्तम्