हिन्दुस्थानिशास्त्रीयसङ्गीतम्

(भारतीयशास्त्रीयसङ्गीतम् इत्यस्मात् पुनर्निर्दिष्टम्)

भारतीयसङ्गीतपरम्परायां कर्णाटकशास्त्रीयसङ्गीतम् अपरं हिन्दुस्तानीशास्त्रीयसङ्गीतमिति विभागद्वयम्। उत्तरभारते, पाकिस्तानबाङ्ग्लादेशयोः तथा भागशः कर्णाटकराज्ये अस्याः सङ्गीतशास्त्रपरम्परायाः प्रचुरता दृश्यते। भारते शृतेरिवार्थं स्मृतिरन्वगच्छत् इति वचनानुसारेण हिन्दुस्तानीशास्त्रीयसङ्गीतं सामवेदसम्प्रदायम् अनुसरति इति विश्वासः। उत्तरभारते १३-१४ शतकयोः देहलीसुल्तानानां मोघलसाम्राज्यस्य च नृपक्रियारब्धा । तदा सङ्गीतमर्मज्ञाः विद्वत्तल्लजाः एतेषां राजाश्रयं प्राप्तवन्तः। एतेषाम् आस्थानेषु भारतीयसङ्गीतस्य पर्षियासंगीतस्य च तत्त्वानि मिलितानि। अयमेव संयुक्तसम्प्रदायः हिन्दुस्तानीशास्त्रीयसङ्गीतमिति प्रथितम्। मोगल् साम्राज्ये अमीर् खुस्रो नाम प्रसिद्धः गायकः आसीत्। अक्बरस्य शासनकाले तान् सेन् नाम प्रसिद्धः गायकः आसीत्। भीमसेन जोशी हिन्दुस्तानीशास्त्रीयसङ्गीतपरम्परायां विश्वविख्यातः भवति।

हिन्दुस्तानीशास्त्रीयसङ्गीतकलाकाराः -क्रि श 1910: अलि खान्, इनायत् खान्, मुशेरफ़् खान्, मुबारक् खान्

प्रसिद्धाः गायकाःसम्पाद्यताम्

हिन्दुस्तानीशास्त्रीयसङ्गीतपरम्परायां विद्यमानाः सुप्रसिद्धाः गायकाः, बडेगुलामलिखान्, सवायी गन्धर्वः, गुरुरावदेशपाण्डे, भीमसेन जोशी, पण्डित् जस् राज्,मल्लिकार्जुनः मन्सूर्, गङ्गूबायी हानगल्,बसवराजः राजगुरु, नस्रत् फते अलि खान् (पाकिस्तानीयः) एते प्राचीनाः भवन्ति। रषीद् खान्,संजीव अभ्यङ्कर्, श्रुति साडोलिकर् इत्यादयः इदानीन्तनाः प्रसिद्धाः गायकाः भवन्ति।

वाद्यानिसम्पाद्यताम्

हिन्दुस्तानीशास्त्रीयसङ्गीतपरम्परायां सामान्यतः सितार्,सरोद्, तबला,सारङ्गी,सन्तूर् इत्यादीनि वाद्यानि भवन्ति। प्रसिद्धाः वादकाः,उस्ताद् बिस्मिल्ला खान् (शहनायि),पण्डित् रविशङ्कर् (सितार्), शिवकुमार् शर्मा (सन्तूर् ),हरिप्रसादः चौरासिया (वेणुः),अल्ला रखा तथा जाकिर् हुसेन् (तबला), अलि अक्बर् खान् तथा अम्जद् अलि खान् (सरोद्) इत्यादयः भवन्ति।

प्रकाराःसम्पाद्यताम्

हिन्दुस्तानीशास्त्रीयसङ्गीतपरम्परायां खयाल्, गजल्, ठुमरि, ध्रुपद्,धमार्, तराना इत्यादिप्रकाराः प्रसिद्धाः भवन्ति।

खयाल्सम्पाद्यताम्

अयं भेदः हिन्दुस्तानीशास्त्रीयसङ्गीतपरम्परायाम् इदानीन्तनकाले अत्यन्तप्रसिद्धः इति। अस्मिन् प्रकारे अन्यप्रकाराणाम् अपेक्षया मनोधर्मसङ्गीतस्य प्रामुख्यता वर्तते। १८ शतकदारभ्य अस्य प्रकारस्य वैशिष्ठ्यं वर्धितमस्ति। अस्मिन् प्रकारे प्रसिद्धाः गायकाः भीमसेन जोशी, मल्लिकार्जन मन्सूर् इत्यादयः भवन्ति।

गजल्सम्पाद्यताम्

गजल् तु मूलतः पर्षियादेशस्य सङ्गीतप्रकारेषु अन्यतमः । अद्याऽपि भारतात् बहिः इरान्, मध्यएषिया, तुर्की इत्यादिदेशेषु अयं सङ्गीतप्रकारः प्रसिद्धः अस्ति। भारते गजल् प्रकारस्य जानपदगीतानि तथा अन्य जनप्रियरूपान्तराणि दृश्यन्ते । अस्मिन् प्रकारे प्रसिद्धाः भारतीयाः गायकाः जगजीत् सिंहः, पङ्कज् उदास् इत्यादयः। पाकिस्तान् देशस्य मेहदि हसन् तथा गुलाम् अलि प्रसिद्धाः। गीतानि वस्तुश्रृङ्गारभक्तिभेदैः भिद्यन्ते।

ठुमरिसम्पाद्यताम्

नवदशशतकादारभ्य अस्य प्रकारस्य प्रयोगः कृतः इति। अस्मिन् प्रकारे श्रृङ्गाररसप्रधानयुक्ताः कृतयः भवन्ति। कृतयः प्रायः बृजभाषायां भवन्ति। अस्मिन् प्रकारे प्रसिद्धः गायकः बडे गुलाम् अलि खान्, गायिके शोभा गुर्टु, गिरिजा देवी

ध्रुपद्सम्पाद्यताम्

ध्रुपद् कृतयः प्रधानतया भक्तिप्रधान युक्ताः भवन्ति। कदाचित् वीररसप्रधानाः अपि भवन्ति। अधिकांशतया कृतयः मध्यकालीनायां हिन्दीभाषायां भवन्ति। प्रायः तम्बुरः पखावाज् चेति वाद्ये भवतः।

तरानासम्पाद्यताम्

तराना कृतयः प्रायः कर्नाटकसङ्गीते विद्यमानस्य तिल्लानासदृशाः भवन्ति। अयं प्रकारः सन्तोषं जनयति इति । अतः प्रायः अन्ते सभासु गायन्ति । लयबद्धाः शब्दपुञ्जाः अधिकाः भवन्ति। पदानां उपयोगः न्यूनं भवतीति।

बाह्यानुबन्धाःसम्पाद्यताम्