मङ्गल पाण्डेय

भारतस्य प्रथम स्वातन्त्र्यसंग्रामी
(मङ्गल पाण्डेयः इत्यस्मात् पुनर्निर्दिष्टम्)

मङ्गल पाण्डेय (audio speaker iconश्रूयताम् ; १९ जुलै १८२७ – ८ एप्रिल् १८५७) भारतस्य प्रथम स्वातन्त्र्यसङ्ग्रामस्य हुतात्मा इत्येव प्रथितः। अयं ईस्ट इण्डिया समवायस्य ब्रिटिश सैन्ये सेनानी आसीत । क्रि.श.१८५७ तमे वर्षे ब्रिटिश अधिकारिणः विरुध्य कृतम् आक्रमणं प्रथमस्वातन्त्र्यसङ्ग्रामः इति रूपम् अवाप्नोत । भारतसर्वकारेण प्रथमस्वातन्त्र्योद्धॄणां स्मरणार्थं तेषां भावचित्रसहिताः पत्रचीटिकाः प्रचारे आनीताः। तेषां जीवनगाथाः चलचित्ररूपेण लोकार्पिताः।

मङ्गल पाण्डेय
जन्म

(१८२७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१९)१९ १८२७
नगवा, बालीया, बलियामण्डलम्,

उत्तरप्रदेशराज्यम्, भारतम्
मृत्युः

८ १८५७(१८५७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०८) (आयुः २९)
ब्याराकपुर, कोलकाता(वर्तमाने),

पश्चिमवङ्गराज्यम्, भारतम्
देशीयता ब्रिटिश साम्राज्य Edit this on Wikidata
वृत्तिः

सिपाही (सैन्यः) (३४ तम बङ्गाल् रेजिमेन्ट्,

ब्रिटिश् ईष्ट् ईण्डिया कम्पनी
कृते प्रसिद्धः मुक्तियोद्धाः/ भारतस्य स्वातन्त्र्ययोद्धा
धर्मः हिन्दु

मङ्गलस्य जीवनम्

सम्पादयतु

अयं मङ्गल पाण्डेयः भारतस्य उत्तम प्रदेश किंवा उत्तर प्रदेश राज्यस्य बलिया जनपदे नागव ग्रामे क्रि.श.१८२७ तमे वर्षे जुलै मासस्य १९ दिनाङ्के भूमिहार् विप्रकुटुम्बे सञ्जातः । तस्य पिता दिवाकर पाण्डेयः मध्यमस्तरस्य कृषकः। क्रि.श.१८३० तमे वर्षे यदा मङ्गलः वर्ष त्रयस्य आसीत तदा एव तस्य पिता दिवाकर पाण्डेयः दिवङ्गतः। तस्य सहोदर्या सह एतम अपि माता प्रेम्णा अपोषयत । स्वस्य २२ तमे वयसि ईस्ट इण्डिया समवायस्य सेनां प्रविष्टवान । पाण्डेयः ३४ तमे बङ्गाल स्थलीयस्य पदाति दलस्य षष्टदलस्य सदस्य अभवत ।

क्रि.श.१८५७तमस्य घटना

सम्पादयतु
 
एन्फील्ड् रैफल् (सामान्यभुशुण्डिः)

क्रि.शा. १८५७तमे वर्षे मार्चमासस्य २९तमे दिने मध्याह्ने बरक्पुरे लेप्टिनेण्ट् बाघ् ३४तमे बङ्गालस्य स्थलीयस्य इन्फेण्ट्रिन् सहायकः स्वसर्वकारस्य अनेकजनाः आक्रमणं कुर्वन्ति इति वार्ता आगता । अपि च तत्र मङ्गल पाण्डेयः विक्षिप्तसैनिकैः सह सेनाप्रकोष्टतः ये बहिरागच्छन्ति तेषाम् अधिकारिणाम् उपरि आक्रमणं कर्तुं सिद्धः भवति । बाघ् तत्तक्षणे एव बुशुण्डीं खड्गं च स्वीकृत्य अश्वमारुह्य पुरो गतवान् । मङ्गलः ३४तमे क्वार्टर् सेनाप्रकोष्ट्स्य पुरतः स्थित्वा बाघ् उपरि गोलिकाप्रहारं कृतवान् । किन्तु गोलिका लक्ष्यभ्रषा अभवत् । तदनन्तरम् आङ्ग्लसार्जेण्ट् मेजर् ह्युसन् इत्याख्यः स्थलीयान् अधिकारिणः आहूय, जेमदर् ईश्वरीप्रसाद्, क्वार्टर् कर्मचारिकमाण्ड् भारतीयः अधिकारी मङ्गल पाण्डेयस्य बन्धनार्थम् आदिशत् । जेमदर् एकेन पण्डेयं नियन्त्रितुम् असाध्यम् अभवत् । तस्मिन् काले एव सः बाघ् कुत्र सः कुत्रेति अक्रोशयन् तत्रागतः । तदा ह्युसन् उक्तवान् बाघ् महिदय भवान् आत्मानं रक्षतु यतः सैनिकः भवतामुपरि गोलिकाप्रहारं करोति इति । पाण्डेयः गोलिकाप्रहरं कृतवान् पुनः लक्ष्यभ्रष्टा गोलिका । ह्युसन् पाण्डेयं भुतले शायितवान् । अन्यसैनिकाः मूकप्रेक्षकाः अभवन् । तदा शेख् पल्टु, आङ्ग्लसैनिकान् नियन्त्रियितुं भारतीयसैनिकानां सहाय्यम् अपेक्षित्वान् । किन्तु ते भारतीयसैनिकाः ह्युसन् उपरि शिलाखण्डानि प्रक्षेपितुम् आरब्धवन्तः । पण्डेयं त्यजतु नो चेत् गोलिकाप्रहारं कुर्मः इति उक्तवन्तः । तदा वार्तां श्रुत्वा कमाण्डिग् अधिकारी जनरल् हर्से तत्र आगत्य पाण्डियस्य बन्धनम् आदिष्टवान् । तदा पाण्डेयः तीव्रतया अभिघातितः आसीत् । सप्ताहानन्तरं यदा पाण्डेयः क्षेमम् अवप्नोत् विचारणार्थं न्यायालयम् आनीतवन्तः । किन्तु तदा मङ्गल पण्डेयः अहं किं कृतवान् इति अहमेव न जानामि । कः व्रणितः इत्यपि न जानामि । पुनः मया वक्तव्यं किमपि नास्ति इति अवदत् । एप्रेल् २१तमे दिनाङ्के अन्यैः त्रिभिः सिख्खसैनिकैः सह पाण्डेयः शूपमारोपितः ।

परिणामः

सम्पादयतु

सर्वकारस्य विचारणस्य अनन्तरं कर्तव्यभ्रष्टतायाः कारणेन ३४तमः बि.एन्.ऐ. रेजिमेण्ट् (सैन्यगणस्य) विसर्जनं कृतम् । जनरल् हर्से वर्यः शेट् पल्टु इत्यस्मै ’हवल्दार्’स्थानं दत्तवान् । भारतीयेतिहासकारस्य सुरेन्द्रनाथस्य अभिप्रायानुगुणं ३४तमः बि.एन्.ऐ.रेजिमेण्ट् उत्तमसेवाभिलेखयुक्तः आसीत् । विचारणान्यायालः १९तमः बि.एन्.ऐ.बेर्हाम्बर् नगरे आद्यचत्वारसप्ताहेषु अशन्तेः किमपि साक्ष्यं न दृश्यते इति निर्णयं दत्तवान् । मङ्गल पाण्डेयः द्वारा ज्वालितः विरोधस्य विस्फूलिङ्गः सर्वत्र व्याप्तः अभवत् । क्रि.श.१८४७तमे वर्षे मे मासस्य दशमे दिने मेरट् नगरे विरोधान्दोलनम् आरब्धम् । अयं विप्लवः पश्यतः एव समग्रम् उत्तरभारते व्याप्तः येन आङ्ग्लाः स्पष्टं सन्देशं प्राप्तवन्तः यत् इदानीं भारते राज्यभारं सुकरं न इति । किन्तु ते ब्रिटिश् अधिकारिणः विक्टोरियायाः अनुज्ञया भारते अग्रे न कोपि सैनिकः मङ्गलपाण्डियः इव विद्रोहं नकुर्यात् इति ३४७००शासनानि अनुष्ठानितानि । अद्यापि भारते इयमेव परम्परा चलन्ती अस्ति । वक्तुं भारतदेशः क्रि.श.१९४७तमे वर्षे अगस्ट् १५ (आषाढामावास्यायाम्) स्वतन्त्रः अभवत् किन्तु नियन्त्रणं सूत्रं तु कस्याश्चित् विदेशीयमहिलायाः हस्ते एव अस्ति । मङ्गल पाण्डेयसदृशस्य कस्यचित् निरीक्षा अस्ति । कोऽपि सैनिकः तादृशं विद्रोहम् आरप्स्यते उत न इत्यस्य उत्तरं कालगर्भे निगूहितम् अस्ति । यतः कालः तु बलवान् भवति । सः स्वपरिकल्पनया स्वस्य आकलनं पूर्णयति । यावदपि सुरक्षां कुर्वन्तु किन्तु सः न त्यजति एव ।

विद्रोहस्य प्रेरणा

सम्पादयतु

मङ्गल पाण्डेयस्य अन्यसैनिकानां च विद्रोहस्य मूलं कारणं तु ब्रिटिष् सेनाधिकारिणां विचेष्टा एव । बङ्गालस्य सैन्ये एन्फील्ड् पि-५२ गोलिकास्त्रं नूतनतया प्रत्याकलितम् । तस्मिन् नूतनशैल्याः गोलिकावेष्टाः आसन् । एते वेष्टाः सूकराणां गवां वा मेधसा वेष्टिताः इति किंवदन्तिः प्रसारिता । वेष्टानां मूलानि दन्तैः दष्ट्वा तदनन्तरं नालिकां अधोमुखं कृत्वा गोलिकाः पूरयित्वा अवशिष्टकागदं छित्त्वा गोलिकाप्रहारं करणीयम् आसीत् । धेनुः हैन्दवानां पवित्रप्राणी, सूकरः मुसल्मानां पवित्रजन्तुः । हिन्दुमुसल्मानसैनिकाः एतेषां जन्तूनां मेधांसि मुखेन दष्टुम् अनुत्साहं प्रकटितवन्तः । भारतीयसैन्यदलानि अस्माकं मतधर्मविरुद्धं ब्रिटिष् अधिकारिणां दुःशासनम् इति अचिन्तयन् । ५६तमः बि.एन्.ऐ.क्याप्टन् विलियम् ह्याल्लिडे इत्यस्य पत्नी बैबल् ग्रन्थं देवनागरीलिप्यां मुद्राप्य सैनिकेभ्यः दत्तवती । अतः ब्रिटिष् अधिकारिणः मतान्तरम् कुर्वन्ति इति वार्ता प्रसृता । अपि च १९,२४ तमः बङ्गालस्थलीयपदातयः क्रि.श.१८५६तमे वर्षे फेब्रवरि सप्तमे दिने औद्दस्य नवाबस्य अधीने दुःशासनस्य काले लक्नौ निस्थानके विशान्ताः अभवन् ।

"https://sa.wikipedia.org/w/index.php?title=मङ्गल_पाण्डेय&oldid=295129" इत्यस्माद् प्रतिप्राप्तम्