मत्कर्मकृन्मत्परमो...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मत्कर्मकृन्मत्परमो मद्भक्तः सवर्जितः ।
- निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चपञ्चाशत्तमः(५५) श्लोकः ।
पदच्छेदः
सम्पादयतुमत्कर्मकृत् मत्परमः मद्भक्तः सवर्जितः निर्वैरः सर्वभूतेषु यः सः माम् एति पाण्डव ॥ ५५ ॥
अन्वयः
सम्पादयतुपाण्डव ! यः मत्कर्मकृत् मत्परमः मद्भक्तः सवर्जितः सर्वभूतेषु निर्वैरः सः माम् एति ।
शब्दार्थः
सम्पादयतु- पाण्डव = अर्जुन !
- यः मत्कर्मकृत् = यः मदर्थकर्मकारी
- मत्परमः = मन्निष्ठः
- मद्भक्तः = मत्सेवकः
- सवर्जितः = विषयसरहितः
- सर्वभूतेषु = सर्वप्राणिषु
- निर्वैरः = द्वेषरहितः
- सः = सः मानवः
- माम् एति = माम् उपगच्छति ।
अर्थः
सम्पादयतुअर्जुन ! यः पुरुषः मदर्थकर्मकारी मन्निः मत्सेवकः विषयसरहितः सर्वप्राणिषु द्वेषरहितः च भवति सः माम् उपगच्छति ।