मत्तः परतरं नान्यत्...

भगवद्गीतायाः श्लोकः ७.७


श्लोकः सम्पादयतु

 
गीतोपदेशः
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः सम्पादयतु

मत्तः परतरं नान्यत् किञ्चित् अस्ति धनञ्जय मयि सर्वम् इदं प्रोतं सूत्रे मणिगणाः इव ॥ ७ ॥

अन्वयः सम्पादयतु

धनञ्जय ! मत्तः अन्यत् किञ्चित् परतरं नास्ति । इदं सर्वं सूत्रे मणिगणाः इव मयि प्रोतम् ।

शब्दार्थः सम्पादयतु

धनञ्जय = अर्जुन !
मत्तः = परमेश्वरात्
परतरम् = उत्कृष्टतरम्
किञ्चित् = किमपि
अन्यत् = इतरत् वस्तु
न अस्ति = न विद्यते
इदम् = एतत्
सर्वम् = सकलम्
सूत्रे = तन्तौ
मणिगणाः इव = मणिसमूहाः इव
मयि = परमेश्वरे
प्रोतम् = योजितम् ।

अर्थः सम्पादयतु

धनञ्जय ! मदपेक्षया अन्यत् वस्तु किमपि उत्कृष्टतरं नास्ति । एतत् सर्वं तन्तौ मणिसमूहाः इव मयि योजितम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मत्तः_परतरं_नान्यत्...&oldid=418702" इत्यस्माद् प्रतिप्राप्तम्